सीमन्तोन्नयनम्

सीमन्तोन्नयनम्

गर्भाधानप्रभृतिः पञ्चमे मासे चन्द्रतारानुकूले दिवसे पूर्वं दीपकलशगणेशपूजनं कृत्वा
प्रधानसङ्कल्पं कुर्यात्–

प्रधानसङ्कल्पः
अद्येहामुकोऽहम् अस्यां भार्यायां गर्भाभिवृद्धिपरिपब्धिपिशितप्रिया–ऽलक्ष्मीभूतराक्षगणनिरस
नक्षमसकलसौभाग्यनिदानभूतलक्ष्मीसमावेशनद्वारा प्रतिगर्भं बीजगर्भसमुद्भवैनोनिबर्हणाय
श्रीपरमेश्वरप्रीत्यर्थं स्त्रीसंस्काररूपं सीमन्तोन्नयनाख्यं कर्म करिष्ये।
इति सङ्कल्प्य मातृपूजनादिकं विधाय तत्र बहिः शालायां स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निं
संस्थाप्य तदीशाने कलशविधिना कलशं संस्थाप्य तत्र नवग्रहादीनावाह्य सम्पूज्य रक्षासूत्रमभिमन्त्र्य
कलशे संस्थाप्य अग्नेः पश्चात्स्वदक्षिणतो गर्भिणीं स्त्रियमुपवेश्य आचार्यब्रह्मणोर्वरणं कृत्वा
ब्रह्मोपवेशनादि आसादनान्ते विशेषोपकल्पनीयानि वस्तून्यासादयेत्।

विशेषोपकल्पनीयानि वस्तूनि
आज्यस्थाली, चरुस्थाली, आज्यं, मुद्गाः तिलाः पृथक्पृथक् मृदुपीठयुग्मम्, शलाटुग्रप्सम्
(औदुम्बरफलयुग्ममपक्वमित्यर्थः) एकस्तवकविवद्धं च पवित्रलक्षणास्तिस्रो दर्भपिञ्जुल्यश्च,
त्रैणी शलली, वीरतरशंकुः, शरैषिका अश्वत्थशंकुर्वा, पूर्णपात्रम्, सूत्रपूर्णलोहकीलकम्
(सूत्रकर्त्तनसाधनमित्यर्थः), वीणागाथिनौ च ।
इति सम्भारान् सम्भृत्य पवित्रच्छेदनादिपर्यॅक्षणान्तं कर्म कृत्वा चरुमधिश्रयेत्।
अर्धश्रितेषु चरुषु तिलमिश्रिततण्डुलान् क्षिपेत्। एवं चरुं श्रपयित्वा चरुम् आज्यं चोद्वास्य ततो द्रव्यत्यागं
कुर्यात्।

 होमसङ्कल्पः
अद्येहास्मिन् सीमन्तहोमकर्मणि आज्येन आघाराज्यभागदेवताभ्यः तिलमिश्रितमुद्गस्थालीपाकेन
प्रजापतिं स्विष्टकृतं तथाज्येन भूरादिनवाहुतीर्यक्ष्ये।

अग्नेः स्थापनं पूजनञ्च
अग्निप्रतिष्ठापनान्ते मङ्गलनामाग्ने सुप्रतिष्ठितो वरदो भव ॐ मङ्गलनामाग्नये नमः इति
पाद्यादिभिः सम्पूज्य आघारावाज्यभागौ हुत्वा स्थालीपाकेनाज्यमिश्रितेन जुहोति ।

 हवनम्
ॐ प्रजापतये स्वाहा इदं प्रजापतये।
ॐ अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते।
तत आज्येन भूरादिहोमं कृत्वा संश्रवप्राशनादि पूर्णपात्रदानं होमदक्षिणां च विधाय ततोऽग्नेः
पश्चाद्भर्त्तुर्वामतो भद्रपीठोपरि मृद्वासने स्थितायाः स्त्रियाः सीमन्तकेशे अपक्वोदुम्बरफलयुग्मेन
एकगुच्छेन त्रिभिर्दर्भपिञ्जुलीभिस्त्रेण्या शलल्या शरैषिकया पूर्णलोहकीलकेन ललाटान्तरमारभ्य
द्विधा करोति ।

 केशविनयनम्
तत्र मन्त्राः – ॐ भूर्विनयामि, ॐ भुवर्विनयामि, ॐ स्वर्विनयामि इति त्रिर्विनयनं कृत्वा अथ
उदुम्बरादिपञ्चकं पुञ्जीकृतं तस्या वेण्यामाबध्नाति – ॐ अयमूर्ज्जावतोव्वृक्षऽऊर्ज्जीव फलिनी
भव इति मन्त्रेण बध्नीयात् ‘वेण्यां त्रिवृत्कुर्य्यात्’ इत्युक्तत्वात्। अथ वीणागाथिनं प्रेषयति– ॐ
सोमं राजानं गायेथां यो वाप्यन्यो वीरतर इति तौ प्रेषितौ वीणामादाय स्वदेशीयराज्ञोऽथवा
कस्यचिदन्यस्य वीरनृपस्य चरितं गायतः सोमं राजानमन्यं युधिष्ठिरार्जुनादिकं वा गायतः ।

वीरगाथागानम्
“ॐ सोम एव नो राजेमा मानुषीः प्रजाः ।
अविमुक्तचक्र आसीरंस्तीरे तुभ्यमसा” 
इति पठेत्।
ततो गर्भिणीसमीपे गङ्गादिनदीनां नाम गृह्णीयात्।

दक्षिणादानम् 
अद्येहामुकोऽहं अस्या भार्यायाः सीमन्तोन्नयनाख्यकर्मणः साद्गुण्यार्थम् मां दक्षिणां ….. गोत्राय….. शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे।
इति दक्षिणां दत्त्वा अभिषेकतिलकरक्षासूत्रघृतच्छायात्र्यायुषमन्त्रपाठादिकं च कारयेत् ॥

॥ इति सीमन्तोन्नयनम् ॥

You cannot copy content of this page