॥ सुमंगलस्तोत्रम् ॥

सुमंगलं मंगलमीश्वराय ते
सुमंगलं मंगलमच्युताय ते।
सुमंगलं मंगलमन्तरात्मने
सुमंगलं मंगलमब्जनाभ ते ॥१ ॥

सुमंगलं श्रीनिलयोरुवक्षसे
सुमंगलं पद्मभवादिसेविते।
सुमंगलं पद्मजगन्निवासिने
सुमंगलं चाश्रितमुक्तिदायिने ॥२ ॥

चाणूरदर्पध्नसुबाहुदण्डयोः
सुमंगलं मंगलमादिपूरुषे।
बालार्ककोटिप्रतिमाय ते विभो
चक्राय दैत्येन्द्रविनाशहेतवे।॥३॥

शंखाय कोटीन्दुसमानतेजसे
शांर्गाय रत्नोज्ज्वलदिव्यरूपिणे।
खड्गाय विद्यामयविग्रहाय ते
सुमंगलं मंगलमस्तु ते विभो॥४॥

तदावयोस्तत्वविशिष्टशेषिणे
शेषित्वसम्बन्धनिबोधनाय ते ।
यन्मंगलानां च सुमंगलाय ते
पुनः पुनर्मंगलमस्तु सन्ततम् ॥ ५॥

॥ इति सुमंगलस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page