सुरर्षिभिः प्रोक्ता महोदरस्तुतिः 

महोदरस्तुतिः

रविरुवाच –
गते मोहासुरे तत्र शान्तरूपे सुरेश्वराः ।
सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥ १॥

पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः ।
तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥ २॥

सुरर्षय ऊचुः ।
अमेयमायाऽमितविक्रमाय निरञ्जनायाथ गणेश्वराय ।
अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥ ३॥

मनोवचोहीनतया स्थिताय मनोवचोयुक्तगजाननाय ।
अयोगसंयोगमयाय ढुण्ढे नमो नमस्तेऽस्तु महोदराय ॥ ४॥

विदेहरूपाय च बोधकाय तथा हि सोऽहं पदभोगकाय ।
सदा सुबिन्द्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥ ५॥

गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते ।
हरीशब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥ ६॥

शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय ।
शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥ ७॥

कर्त्रे सुपात्रे हरणाय काल! प्रकाशरूपाय च भावने ते ।
क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥ ८॥

यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय ।
शिवाय वह्न्यात्मकनैरृताय नमो नमस्तेऽस्तु महोदराय ॥ ९॥

अनन्तरूपाय जलेशकाय प्रजापते! रूपधराय पाशिन्! ।
दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥ १०॥

सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे ।
पिशाचगन्धर्वमयाय यक्ष! नमो नमस्तेऽस्तु महोदराय ॥ ११॥

धरास्वरूपाय जलप्रकाश! जलस्वरूपाय च तेजसे ते ।
वाताय चाकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय ॥ १२॥

अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् ।
तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥ १३॥

नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय ।
वैश्याय शूद्राय तथाऽन्तिमाय नमो नमस्तेऽस्तु महोदराय ॥ १४॥

गुरोरधीनाय गृहस्थरूप! वनस्थितायाऽथ परिव्रजाय ।
वर्णाश्रमैर्हीनमयाय योगिन्! नमो नमस्तेऽस्तु महोदराय ॥ १५॥

वृक्षादिवीरुध्तृणसंस्थिताय धराधराकारमयाय देव! ।
पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥ १६॥

रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय ।
चराचराकारमयाय नाग! नमो नमस्तेऽस्तु महोदराय ॥ १७॥

वराङ्कुशाद्यैश्च सुचिह्नितायोन्दुरुध्वजायाऽऽखुसुवाहनाय ।
त्रिनेत्रधाराय च शूर्पकर्ण! नमो नमस्तेऽस्तु महोदराय ॥ १८॥

स्वानन्दलोकाधिप! देवदेव! सुसिद्धिबुद्धिप्रभवे परात्मन्! ।
सदैकदन्ताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥ १९॥

महोदरायादिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय ।
प्रमोदमोदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥ २०॥

सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे! ।
गणेश! हेरम्ब! च भक्तपोष! नमो नमस्तेऽस्तु महोदराय ॥ २१॥

प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण! ।
विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥ २२॥

अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन ।
तेषु त्वमेव सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥ २३॥

यः पठेच्छृणुयाद्यश्च तस्मै शान्तिप्रदायकम् ।
भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥ ३८॥

इति सुरर्षिभिः प्रोक्ता महोदरस्तुतिः

You cannot copy content of this page