श्रीहर्यष्टकम्
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः॥ १ ॥
स गंगा स गया सेतुः स काशी स च पुष्करम्।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्॥ २ ॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम्॥३ ॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम्॥ ४ ॥
गवां कोटिसहस्राणि हेमकन्यासहस्त्रकम्।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्॥ ५ ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अधीतस्तेन येनोक्तं हरि रित्यक्षरद्वयम्॥ ६ ॥
अश्वमेधैर्महायज्ञैर्नरमेधैः स्तथैव च।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्॥ ७ ॥
प्राणप्रयाण-पाथेयं संसारव्याधिनाशनम्।
दुःखात्यंतपरित्राणं हरिरित्यक्षरद्वयम्॥८ ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति।
सकृदुच्चारितं येन हरि रित्यक्षर द्वयम्॥ ९ ॥
फलश्रुति
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं बलमारोग्यं यशोवृद्धिशियावहम्॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम्।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम्॥
॥ श्रीकृष्णाष्टकम् ॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं कृष्णं वंदे जगद्गरुम्॥ १॥
अतसीपुष्पसंकाशं हारनूपुर शोभितम्।
रत्नकङ्कणकेयूरं कृष्णं वंदे जगद्गुरुम्॥ २॥
कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम्।
विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम्॥ ३॥
मन्दार गन्धसंयुक्तं चारुहासं चतुर्भुजम्।
बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम्॥ ४॥
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्।
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम्॥ ५॥
रुक्मिणीकेळीसंयुक्तं पीताम्बरसुशोभितम्।
अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम्॥ ६॥
गोपिकानां कुचद्वंद्व कुङ्कुमांकितवक्षसम्।
श्रीनिकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम्॥ ७॥
श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम्।
शंखचक्रधरं देवं कृष्णं वंदे जगद्गुरुम्॥८ ॥
फलश्रुतिः
कृष्णाष्टकमिदं पुण्यं प्रात रुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन विनश्यति ॥
॥ श्रीकृष्णाष्टकम् ॥
॥ पञ्चायुधस्तोत्रम् ॥
स्फुरत्सहस्रार शिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम्।
सुरद्विषां प्राणविनाशि विष्णो-
श्चक्रं सदाऽहं शरणं प्रपद्ये॥ १ ॥
विष्णोर्मुखोत्थानिल पूरितस्य
यस्य ध्वनिर्दानव दर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटि शुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये॥ २ ॥
हिरण्मयीं मेरुसमानसारां
कौमोदकीं दैत्यकुलैकहंत्रीम्।
वैकुण्ठवामाग्र कराभिमृष्टां
गदां सदाऽहं शरणं प्रपद्ये॥ ३ ॥
रक्षोऽसुराणां कठिनोग्र कण्ठ-
छेदक्षरच्छोणितदिग्धधारम्।
तं नंदकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये॥ ४ ॥
यज्ज्यानिनाद श्रवणात्सुराणां
चेतांसि निर्मुक्त भयानि सद्यः।
भवन्ति दैत्याशनि बाणवर्षि
शार्ङ्गं सदाऽहं शरणं प्रपद्ये॥ ५ ॥
इमं हरेः पञ्चमहायुधानां
स्तवं पठेद्योऽनुदिनं प्रभाते।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति॥ ६ ॥
वने रणे शत्रुजलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु ।
इदं पठन् स्तोत्र मनाकुलात्मा
सुखी भवेत्तत्कृतसर्वरक्षः॥ ७ ॥
सशंखचक्रं सगदाऽसि शार्ङ्गं
पीताम्बरं कौस्तुभवत्स चिह्नम्।
श्रिया समेतोज्ज्वलशोभिताङ्गं
विष्णुं सदाऽहं शरणं प्रपद्ये॥ ८ ॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः॥ ९ ॥
॥ इति पञ्चायुधस्तोत्रम् ॥
॥ श्लोकद्वयम् ॥
(गजेन्द्रमोक्षम्)
ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारूह्य धावन्
व्याघूर्णन् माल्यभूषावसन परिकरो मेघ गम्भीरघोषः।
अबिभ्राणो रथाङ्गं शरमसिमभयं शंखचापौ सखेटौ।
हस्तैः कौमदकीमप्यवतु हरिरसावंहसां संहतेर्नः ॥ १ ॥
नक्राक्रांते करीन्द्रे मुकुळितनयने मूलमूलेति खिन्ने
नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यत् प्रादुरासीत् स दिशतु भगवान् मंगळं संततं नः॥ २ ॥
श्लोकत्रयम्
प्रातस्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमञ्जनाभम्।
ग्राहाभिभूतमदवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम्॥ १ ॥
प्रातर्नमामि मनसा वचसा च मूर्जा
पादारविदयुगळं परमस्य पुंसः।
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवण विप्रपरायणस्य॥ २ ॥
प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्मकृत पापभयापनुत्यै।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-
शोकप्रणाशनकरो धृतशंखचक्रः॥ ३ ॥
फलश्रुतिः
श्लोकत्रय मिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ॥४ ॥
॥ परत्वादिपञ्चकम् ॥
परवासुदेवस्तुति :
उद्यद् भानुसहस्त्र भास्वर परव्योमास्पदं निर्मलं
ज्ञानानंद घन स्वरूपममल ज्ञानादिभिः षड्गुणैः।
जुष्टं सूरिजनाधिपं धृतरथांगाब्जादि भूषोज्ज्वलं,
श्रीभूसेव्यमन्तभोगिनिलयं श्रीवासुदेवं भजे ॥
व्युहवासुदेवस्तुतिः
आमोदे भुवने प्रमोद उत सम्मोदे च संकर्षणं
प्रद्युम्नं च तथानिरुद्धमपि तान् संहारसृष्टिस्थितिः।
कुर्वाणान्मतिमुख्यषड्गुणवरैः युक्तांस्त्रियुग्मात्मकैः
व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे॥ २
विभवस्तुति:
वेदान्वेषण मंदराद्रिभरण क्ष्मोद्धारण प्रश्रित
प्रह्लादावन भूमिभिक्षण जगद्विक्रांतयो यत्क्रियाः।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं, कर्षणं
कालिन्द्या, अतिपाप कंसनिधनं यत्क्रीडितं तन्नुमः॥ ३
अंतर्यामिस्तुतिः
यो देवादिचतुर्विधेषु जनिषु ब्रह्मांडकोशांतरे
संभक्तेषु चराचरेषु च विशन् आस्ते सदांतर्बहिः ।
विष्णुस्तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वांगुष्ठप्रमितं च योगिहृदयेष्वासीन मीशं भजे॥ ४
अर्चास्तुतिः
श्रीरंगस्थल वेंकटाद्रि करिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे।
अर्चारूपिण मर्चकाभिमतित स्स्वीकुर्वते विग्रहं
पूजां चाखिलवांछितान् वितरते श्रीशाय तस्मै नमः॥ ५
फलश्रुतिः
प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम् ।
पठन् प्राप्नोति भगवद्भक्तिं वरद निर्मिताम्॥
॥ परमार्थश्लोकद्वयम् ॥
सत्संगात्भव निस्पृहो गुरुमुखात्श्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः।
न्यासादेव निरंकुशेश्वरदयानिर्लूनमायान्वयो
हार्दानुग्रहलब्ध मध्य धमनिद्वारात् बहिर्निर्गतः॥ १
मुक्तोऽर्चि र्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमत् ।
ग्लौ विद्युत्वरुणेन्द्रधातृ महितः सीमान्तसिन्ध्वाप्लुतः।
श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान्॥ २
फलश्रुतिः
प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः ।
श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥