॥ अर्धनारीश्वर अष्टकम् ॥
चाम्पेयगौरार्ध-शरीरकायै
कर्पूरगौरार्ध-शरीरकाय।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय॥१॥
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्जविचर्चिताय।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय॥२॥
झणत्क्वणत्कङ्कण-नूपुरायै
पादाब्जराजत्-फणिनूपुराय।
हेमाङ्गदायै च भुजङ्गदाय
नमः शिवायै च नमः शिवाय॥३॥
विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय॥४॥
मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय॥५॥
अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय॥६॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय॥७॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय॥८॥
एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी।
प्राप्नोति सौभाग्यमनन्तकालम्
भूयात् सदा तस्य समस्तसिद्धिः॥
॥ इति श्रीमच्छङ्कराचार्यविरचितम् अर्धनारीश्वर अष्टकं सम्पूर्णम् ॥
