॥ अहल्याकृत रामस्तोत्रम् ॥
अहल्योवाच
अहो कृतार्थाऽस्मि जगन्निवास ते
पादाब्जसंलग्नरजः कणादहम्।
स्पृशामि यत्पद्मजशङ्करादिभिः
विमृग्यते रन्धितमानसैः सदा॥१॥
अहो विचित्रं तव राम चेष्टितम्
मनुष्यभावेन विमोहितं जगत्।
चलस्यजस्रं चरणादिवर्जितः
सम्पूर्ण आनन्दमयोऽतिमायिकः॥२॥
यत्पादपङ्कजपरागपवित्रगात्रा
भागीरथी भवविरिञ्चिमुखान् पुनाति।
साक्षात्स एव मम दृग्विषयो यदाऽऽस्ते
किं वर्ण्यते मम पुराकृतभागधेयम्॥३॥
मर्त्यावतारे मनुजाकृतिम् हरिं
रामाभिधेयं रमणीयदेहिनम्।
धनुर्धरं पद्मविशाललोचनम्
भजामि नित्यं न परान् भजिष्ये॥४॥
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यम्
यन्नाभिपङ्कजभवः कमलासनश्च।
यन्नामसाररसिको भगवान्पुरारिः
तं रामचन्द्रमनिशं हृदि भावयामि॥५॥
यस्यावतारचरितानि विरिञ्चिलोके
गायन्ति नारदमुखा भवपद्मजाद्याः।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये॥६॥
सोऽयं परात्मा पुरुषः पुराणः
एकः स्वयं ज्योतिरनन्त आद्यः।
मायातनुं लोकविमोहनीयाम्
धत्ते परानुग्रह एष रामः॥७॥
अयं हि विश्वोद्भवसंयमानाम्
एकः स्वमायागुणबिम्बितो यः।
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतन्त्रः परिपूर्ण आत्मा॥८॥
नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजम्
श्रिया धृतं वक्षसि लालितं प्रियात्।
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैरभिमानवर्जितैः॥९॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः।
सर्वभूतेष्वसंयुक्त एको भाति भवान् परः॥१०॥
ओङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान्।
वाच्यवाचकभेदेन भवानेव जगन्मयः॥११॥
कार्यकारणकर्तृत्वफलसाधनभेदतः।
एको विभासि राम त्वं मायया बहुरूपया॥१२॥
त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः।
मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम्॥१३॥
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः।
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः॥१४॥
योषिन्मूढाऽहमज्ञा ते तत्त्वं जाने कथं विभो।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः॥१५॥
देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे॥१६॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल।
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते॥१७॥
भवभयहरमेकं भानुकोटिप्रकाशम्
करधृतशरचापं कालमेघावभासम्।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यम्
कमलविशदनेत्रं सानुजं राममीडे॥१८॥
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम्।
परिक्रम्य प्रणम्याऽऽशु सानुज्ञाता ययौ पतिम्॥१९॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति॥२०॥
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम्॥२१॥
सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः॥२२॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः।
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन्
ध्यायन् मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः॥२३॥
॥ इति श्रीमदध्यात्मरामायणे अहल्याविरचितं श्रीरामचन्द्रस्तोत्रं सम्पूर्णम् ॥
