॥ चरणशृङ्गरहित नटराज स्तोत्रम् ॥

सदञ्चितमुदञ्चितनिकुञ्चितपदं झलझलञ्चलितमञ्जुकटकम्
पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदं जननभञ्जनकरम्।
कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बकगलम्
चिदम्बुधिमणिं बुधहृदम्बुजरविंपरचिदम्बरनटं हृदि भज॥१॥

हरं त्रिपुरभञ्जनम् अनन्तकृतकङ्कणम् अखण्डदयमन्तरहितं
विरिञ्चिसुरसंहतिपुरन्धरविचिन्तितपदं तरुणचन्द्रमकुटम्।
परं पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरम्
चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भज॥२॥

अवन्तमखिलं जगदभङ्गगुणतुङ्गममतं धृतविधुं सुरसरित्
तरङ्गनिकुरम्बधृतिलम्पटजटं शमनदम्बसुहरं भवहरम्।
शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं
हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भज॥३॥

अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं
मुकुन्दविधिहस्तगतमद्दललयध्वनिधिमिद्धिमितनर्तनपदम्।
शकुन्तरथबर्हिरथनन्दिमुखशृङ्गिरिटिभृङ्गिगणसङ्घनिकटम्
सनन्दसनकप्रमुखवन्दितपदं परचिदम्बरनटं हृदि भज॥४॥

अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलम्
कबन्धवियदिन्द्ववनिगन्धवहवह्निमखबन्धुरविमञ्जुवपुषम्।
अनन्तविभवं त्रिजगन्तरमणिं त्रिनयनं त्रिपुरखण्डनपरम्
सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भज॥५॥

अचिन्त्यमलिवृन्दरुचिबन्धुरगलं कुरितकुन्दनिकुरम्बधवलम्
मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्तम्अहिकुण्डलधरम्।
अकम्पमनुकम्पितरतिं सुजनमङ्गलनिधिं गजहरं पशुपतिम्
धनञ्जयनुतं प्रणतरञ्जनपरं परचिदम्बरनटं हृदि भज॥६॥

परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुखषण्मुखममुं
मृडंकनकपिङ्गलजटं सनकपङ्कजरविं सुमनसं हिमरुचिम्।
असङ्घमनसं जलधिजन्मकरलं कवलयन्तमतुलं गुणनिधिम्
सनन्दवरदं शमितमिन्दुवदनं परचिदम्बरनटं हृदि भज॥७॥

अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं करलसत्
कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचिं डमरुकं च दधतमं।
मुकुन्दविशिखं नमदवन्ध्यफलदं निगमवृन्दतुरगं निरुपमं
सचण्डिकममुं झटिति संहृतपुरं परचिदम्बरनटं हृदि भज॥८॥

अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं
ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम्।
उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषं
पतञ्जलिनुतं प्रणवपञ्जरशुकं परचिदम्बरनटं हृदि भज॥९॥

इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः कृतमुखः
सदः प्रभुपदद्वितयदर्शनपदं सुललितं चरणशृङ्गरहितम्।
सरःप्रभवसम्भवहरित्पतिहरिप्रमुखदिव्यनुतशङ्करपदं
स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम्॥१०॥

इति श्रीपतञ्जलिमुनिप्रणीतं चरणशृङ्गरहितनटरजस्तोत्रं सम्पूर्णम्

You cannot copy content of this page