॥ तोटकाष्टकम् ॥
शङ्करं शङ्कराचार्यं केशवं बादरायणम्।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥ १ ॥
नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ २ ॥
श्री शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम्
तं तोटकं वार्तिककारमन्यानस्मद्गुरून् सन्ततमानतोऽस्मि॥ ३ ॥
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे।
हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम्॥ ४ ॥
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम्।
रचयाखिलदर्शनतत्त्वविदं भव शङ्कर देशिक मे शरणम्॥ ५ ॥
भवता जनता सुहिता भविता निजबोधविचारणचारुमते।
कलयेश्वरजीवविवेकविदं भव शङ्कर देशिक मे शरणम्॥ ६ ॥
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता।
मम वारय मोहमहाजलधिं भव शङ्कर देशिक मे शरणम्॥ ७ ॥
सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता।
अतिदीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम्॥ ८ ॥
जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः।
अहिमांशुरिवात्र विभासि गुरो भव शङ्कर देशिक मे शरणम्॥ ९ ॥
गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां न हि कोऽपि सुधीः।
शरणागतवत्सल तत्त्वनिधे भव शङ्कर देशिक मे शरणम्॥ १० ॥
विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो।
द्रुतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम्॥ ११ ॥
॥ इति श्री तोटकाचार्यविरचितं श्री तोटकाष्टकं सम्पूर्णम् ॥
