॥ दक्षिणामूर्तिस्तोत्रम् ॥

उपासकानां यदुपासनीयम्
उपात्तवासं वटशाखिमूले।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्तु चित्ते मम बोधरूपम्॥१॥

अद्राक्षमक्षीणदयानिधानम्
आचार्यमाद्यं वटमूलभागे।
मौनेन मन्दस्मितभूषितेन
महर्षि लोकस्य तमो नुदन्तम्॥२॥

विद्राविताशेष-तमोगुणेन
मुद्राविशेषेण मुहुर्मुनीनाम्।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम्॥३॥

अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलोकयन्तम्।
कठोरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम्॥४॥

ममाद्यदेवो वटमूलवासी
कृपाविशेषात्कृतसन्निधानः।
ओंकाररूपामुपदिश्य विद्याम्
आविद्यकध्वान्तमपाकरोतु॥५॥

कलाभिरिन्दोरिव कल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम्।
आलोकये देशिकमप्रमेयम्
अनाद्यविद्यातिमिरप्रभातम्॥६॥

स्वदक्षजानुस्थितवामपादम्
पादोदरालङ्कृतयोगपट्टम्।
अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम्॥७॥

तत्त्वार्थमन्तेवसतामृषीणाम्
युवाऽपि यः सन्नुपदेष्टुमीष्टे।
प्रणौमि तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम्॥८॥

एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः।
स्वजानुविन्यस्तकरः पुरस्तात्
आचार्यचूडामणिराविरस्तु॥९॥

आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम्।
आलोकये कञ्चनदेशिकेन्द्रम्
अज्ञानवाराकरबाडवाग्निम्॥१०॥

चारुस्मितं सोमकलावतंसम्
वीणाधरं व्यक्तजटाकलापम्।
उपासते केचन योगिनस्त्वाम्
उपात्तनादानुभवप्रमोदम्॥११॥

उपासते यं मुनयः शुकाद्याः
निराशिषो निर्ममताधिवासाः।
तं दक्षिणामूर्तितनुं महेशम्
उपास्महे मोहमहार्तिशान्त्यै॥१२॥

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन्
कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन् वीक्षितैः।
मोहध्वान्तविभेदनं विरचयन् बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना॥१३॥

अगौरगात्रैरललाटनेत्रैः
अशान्तवेषैरभुजङ्गभूषैः।
अबोधमुद्रैरनपास्तनिद्रैः
अपूर्णकामैरमरैरलं नः॥१४॥

दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे।
दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम्॥१५॥

मुदिताय मुग्धशशिनावतंसिने
भसितावलेपरमणीयमूर्तये।
जगदीन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने॥१६॥

व्यालम्बिनीभिः परितो जटाभिः
कलावशेषेण कलाधरेण।
पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम्॥१७॥

उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरोषि।
यदद्य ते दर्शनमात्रतो मे
द्रवत्यहो मानसचन्द्रकान्तः॥१८॥

यस्ते प्रसन्नामनुसन्दधानो
मूर्तिं मुदा मुग्धशशाङ्कमौलेः।
ऐश्वर्यमायुर्लभते च विद्याम्
अन्ते च वेदान्तमहारहस्यम्॥१९॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीदक्षिणामूर्तिस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page