॥ बिल्वाष्टकम् ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम्।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम्॥१॥
त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः।
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम्॥२॥
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे।
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम्॥३॥
शालिग्राम-शिलामेकां विप्राणां जातु चार्पयेत्।
सोमयज्ञ-महापुण्यं एकबिल्वं शिवार्पणम्॥४॥
दन्तिकोटि-सहस्राणि वाजपेय-शतानि च।
कोटिकन्या-महादानं एकबिल्वं शिवार्पणम्॥५॥
लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम्।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम्॥६॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्।
अघोरपापसंहारं एकबिल्वं शिवार्पणम्॥७॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम्।
प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम्॥८॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम्॥९॥
बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात्॥ १० ॥
॥ इति बिल्वाष्टकं सम्पूर्णम् ॥
