॥ शिवप्रातःस्मरणस्तोत्रम् ॥
॥ शिवप्रातःस्मरणस्तोत्रम् ॥
प्रातः स्मरामि भवभीतिहरं सुरेशम्
गङ्गाधरं वृषभवाहनमम्बिकेशम्।
खट्वाङ्गशूलवरदाभयहस्तमीशम्
संसाररोगहरमौषधमद्वितीयम्॥१॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहम्
सर्गस्थितिप्रलयकारणमादिदेवम्।
विश्वेश्वरं विजितविश्वमनोभिरामम्
संसाररोगहरमौषधमद्वितीयम्॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यम्
वेदान्तवेद्यमनघं पुरुषं महान्तम्।
नामादिभेदरहितं षड्भावशून्यम्
संसाररोगहरमौषधमद्वितीयम्॥३॥
॥ इति शिवप्रातःस्मरणस्तोत्रं सम्पूर्णम् ॥
