॥ श्रीदुर्गाष्टोत्तर शतनामास्तोत्रम् ॥

॥ विनियोगः ॥

अस्य श्रीदुर्गाष्टोत्तर शतनामास्तोत्रमालामन्त्रस्य
महाविष्णुमहेश्वराः ऋषयः। अनुष्टुप् छन्दः।
श्रीदुर्गापरमेश्वरी देवता।
ह्रां बीजम्। ह्रीं शक्तिः। ह्रूं कीलकम्।
सर्वाभीष्टसिद्ध्यर्थे जपहोमार्चने विनियोगः।

॥ स्तोत्रम् ॥

सत्या साध्या भवप्रीता भवानी भवमोचनी।
आर्या दुर्गा जया चऽऽद्या त्रिनेत्रा शूलधारिणी॥१॥

पिनाकधारिणी चित्रा चन्डघण्टा महातपाः।
मनो बुद्धिरहङ्कारा चिद्रूपा च चिदाकृतिः॥२॥

अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः।
शाम्भवी देवमाता च चिन्ता रत्नप्रिया तथा॥३॥

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी।
अपर्णाऽनेकवर्णा च पाटला पाटलावती॥४॥

पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी।
ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा॥५॥

रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी।
वनदुर्गा च मातङ्गी मतङ्गमुनिकन्यका॥६॥

ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा।
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः॥७॥

विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा।
बहुला बहुलप्रेमा महिषासुरमर्दिनी॥८॥

मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी।
सर्वशास्त्रमयी चैव सर्वदानवघातिनी॥९॥

अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी।
भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः॥१०॥

प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी।
बलप्रदा घोररूपा महोत्साहा महाबला॥११॥

अग्निज्वाला रौद्रमुखी कालरात्री तपस्विनी।
नारायणी महादेवी विष्णुमाया शिवात्मिका॥१२॥

शिवदूती कराली च ह्यनन्ता परमेश्वरी।
कात्यायनी महाविद्या महामेधास्वरूपिणी॥१३॥

गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी।
सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी॥१४॥

॥ फलश्रुतिः ॥

इदं स्तोत्रं महादेव्या नाम्नाम् अष्टोत्तरं शतम्।
यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा॥१५॥

शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत्।
सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम्॥१६॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
कन्यार्थी लभते कन्यां कन्या च लभते वरम्॥१७॥

ऋणी ऋणाद्विमुच्येत ह्यपुत्रो लभते सुतम्।
रोगाद्विमुच्यते रोगी सुखमत्यन्तमश्नुते॥१८॥

भूमिलाभो भवेत् तस्य सर्वत्र विजयी भवेत्।
सर्वान् कामानवाप्नोति महादेवीप्रसादतः॥१९॥

कुङ्कुमैर्बिल्वपत्रैश्च सुगन्धै रक्तपुष्पकैः।
रक्तपत्रैर्विशेषेण पूजयन् भद्रमश्नुते॥२०॥

॥ इति दुर्गाष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page