॥ श्रीमहालक्ष्मीपूजन ॥
आदौ उत्तराभिमुखो भूत्वा
ॐ केशवाय नमः ॐ नारायणाय नमः ॐ माधवाय नमः इति त्रिबारं आचम्य गोविन्दाय नमः
इत्यनेन हस्त शुद्धिं कृत्वा पवित्रीधारणं कृत्वा प्राणनायाम्य पूजासामग्रीं आत्मानं च अभिषिञ्चेत् ।
मार्जनम्
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
ॐ यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
ॐ पुण्डरीकाक्ष पुनातु ॐ पुण्डरीकाक्ष पुनातु ॐ पुण्डरीकाक्ष पुनातु ।
आसनशुद्धि
ॐ पृथ्वी त्वया धृता लोका देवी त्वं विष्णुणा धृता।
त्वञ्च धारय मां देवी पवित्रं कुरु चासनम्।।
हस्ते गन्ध पुष्पादिकमादाय
स्वस्ति वाचनम्
श्रीगौरीगणेशं स्थापनं कृत्वा हस्ते जलमादाय पूजनस्य संकल्पं पठेत्
संकल्प-
ॐ विष्णुर्विष्णुर्विष्णुः अद्य ब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे कलिप्रथमचरणे
जम्बूद्वीपे भरतखण्डे भारतवर्षे….स्थाने….नामसंवत्सरेः….मासोत्तमे मासे कार्तिकमासे कृष्णपक्षे पुण्यायाममावास्यायां तिथौ अमुक वासरे अमुक गोत्रोत्पन्नः अमुक नाम शर्मा (वर्मा, गुप्तः, दासः) अहं श्रुतिस्मृतिपुराणोक्तफलावाप्तिकामनया ज्ञाताज्ञातकायिक-वाचिकमानसिक-सकलपापनिवृत्तिपूर्वकं स्थिरलक्ष्मीप्राप्तये श्रीमहालक्ष्मीप्रीत्यर्थं महालक्ष्मीपूजनं कुबेरादीनां च पूजनं करिष्ये। तदङ्गत्वेन गौरीगणपत्यादिपूजनं च करिष्ये।
जलक्षता स्थापितगौरीगणेशयोः निवेदयेत्
गौरीगणेशयोः प्राणप्रतिष्ठा
हस्ते गन्धपुष्पादिकमादाय प्राणप्रतिष्ठां कुर्यात्
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु।
विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ।
ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
गौरीगणेशयोः षोडशोपचार पूजन करे। तदनन्तर नवग्रह, षोडशमातृका तथा कलश-पूजन पुस्तकमें पहले दी गयी विधिके अनुसार करे।
प्रधान-पूजा प्रधान-पूजामें गणेशजी तथा भगवती महालक्ष्मीकी नूतन प्रतिमाका पूजन करे। लक्ष्मी-गणेशकी नूतन प्रतिमा तथा द्रव्यलक्ष्मीकी ‘ॐ मनो जूति०’ तथा ‘ॐ अस्यै प्राणाः०’ इत्यादि मन्त्र पढ़कर पूर्वोक्त रीतिसे प्राण-प्रतिष्ठा कर ले।
ध्यान-हाथमें फूल लेकर निम्न मन्त्रसे गणेशजीका तथा भगवती महालक्ष्मीका ध्यान करे
गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम्। उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्।। या सा पद्मासनस्था विपुलकटितटी
पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरनमिता
शुभ्रवस्त्रोत्तरीया। या लक्ष्मीदिव्यरूपैर्मणिगणखचितैः
स्नापिता हेमकुम्भैः सा नित्यं पद्महस्ता मम वसतु गृहे
सर्वमाङ्गल्ययुक्ता॥ ॐ लक्ष्मीगणपतिभ्यां नमः। ध्यानार्थे पुष्पाणि समर्पयामि। (कहकर हाथके फूल गणेशजी तथा महालक्ष्मीपर चढ़ा दे।) इसी प्रकार आगे भी उपचारोंको गणेश-लक्ष्मीपर चढ़ाता जाय।
आवाहन-एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष। माङ्गल्यपूजाप्रथमप्रधान
गृहाण पूजां भगवन् नमस्ते॥ ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ।। ॐ लक्ष्मीगणपतिभ्यां नमः। आवाहनार्थे पुष्पाणि समर्पयामि। (आवाहनके लिये पुष्प अर्पित करे।) आसन-तप्तकाञ्चनवर्णाभं मुक्तामणिविराजितम्।
अमलं कमलं दिव्यमासनं प्रतिगृह्यताम्। ॐ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्।यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। आसनार्थे पुष्पाणि समर्पयामि। (आसनके लिये पुष्प अर्पित करे।)
पाद्य-गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम्। पाद्यं ददाम्यहं देव गृहाणाशु नमोऽस्तु ते॥ ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम्।
श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। पादयोः पाद्यं समर्पयामि। (पाद्यके लिये चन्दनपुष्पादियुक्त जल आचमनीद्वारा अर्पण करे।)
अर्घ्य-गन्धपुष्पाक्षतैर्युक्तमयँ सम्पादितं मया।
गृहाणाऱ्या मया दत्तं प्रसन्नो वरदो भव ॥ ॐ कां सोस्मितां हिरण्यप्राकारामार्दा ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मस्थितां पद्मवर्णा तामिहोप ह्वये श्रियम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। हस्तयोरर्घ्यं समर्पयामि। (अष्टगन्धमिश्रित* जल अर्घ्यपात्रसे हाथोंमें दे।)
* अगर, तगर, चन्दन, कस्तूरी, लालचन्दन, कुंकुम, देवदारु तथा केसर-ये अष्टगन्ध कहलाते हैं। आचमन-कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्।
तोयमाचमनीयार्थं गृहाण परमेश्वर ॥ ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।
तां पद्मनीमी शरणं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ ॐ लक्ष्मीगणपतिभ्यां नमः। आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे।) स्नान-मन्दाकिन्यास्तु यद् वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्॥ ॐ आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ।।
ॐ लक्ष्मीगणपतिभ्यां नमः। स्नानं समर्पयामि। (स्नानके लिये जल चढ़ाये।)
स्नानान्ते आचमनीयं जलं समर्पयामि। (स्नानके बाद ‘ॐलक्ष्मीगणपतिभ्यां नमः’ ऐसा उच्चारण कर आचमनके लिये जल दे।)
दुग्धस्नान-कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥ ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः।
पयस्वतीः प्रदिशः सन्तु मह्यम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। पयःस्नानं समर्पयामि। पयःस्नानान्ते शुद्धोदकस्तानं समर्पयामि। (गौके कच्चे दूधसे स्नान कराये, पुनः शुद्ध जलसे स्नान कराये।) दधिस्नान-पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥ ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः सुरभि नो मुखा करत्प्र ण आयूषि तारिषत्।।
ॐ लक्ष्मीगणपतिभ्यां नमः। दधिस्नानं समर्पयामि। दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि। (दधिसे स्नान कराये, फिर शुद्ध जलसे स्नान कराये।)
घृतस्नान- नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥ ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा। दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा॥
ॐ लक्ष्मीगणपतिभ्यां नमः। घृतस्नानं समर्पयामि। घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि। (घृतसे स्नान कराये तथाफिर शुद्ध जलसे स्नान कराये।)
मधुस्नान-तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु।
तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥ ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीनः सन्त्वोषधीः॥ मधु नक्तमुतोषसो मधुमत्पार्थिव रजः। मधु द्यौरस्तु नः पिता॥ मधुमान्नो वनस्पतिर्मधुमाँर अस्तु सूर्यः। माध्वीवो भवन्तु नः॥
ॐ लक्ष्मीगणपतिभ्यां नमः। मधुस्नानं समर्पयामि। मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि। (मधु (शहद)-से स्नान कराये, पुनः शुद्ध जलसे स्नान कराये।) शर्करास्नान-इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम्॥ ॐ अपा रसमुद्रयसः सूर्ये सन्त समाहितम्। अपा रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्॥
ॐ लक्ष्मीगणपतिभ्यां नमः। शर्करास्नानं समर्पयामि, शर्करास्नानान्ते पुनः शुद्धोदकस्नानं समर्पयामि। (शर्करासे स्नान कराकर पश्चात् शुद्ध जलसे स्नान कराये।)
पञ्चामृतस्नान- दूध, दही, घी, मधु तथा शर्कराको एक पात्रमें मिलाकर पंचामृत तैयार कर ले और उस पञ्चामृतसे एकतन्त्रसे निम्न मन्त्रसे स्नान कराये
पयो दधि घृतं चैव मधुशर्करयान्वितम्। पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्। ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः।
सरस्वती तु पञ्चधा सो देशेऽभवत् सरित् ।। ॐ लक्ष्मीगणपतिभ्यां नमः। पञ्चामृतस्नानं समर्पयामि, पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि। (पञ्चामृतस्नानके अनन्तर शुद्ध जलसे स्नान कराये।)
(यदि भगवती महालक्ष्मीका अभिषेक करना अभीष्ट हो तो शुद्ध जल या दुग्धादिसे ‘श्रीसूक्त’ का पाठ करते हुए अखण्ड जलधारासे स्नान (अभिषेक) कराये। मृण्मय प्रतिमा अखण्ड जलधारासे क्षरित न हो जाय, इस आशयसे धातुकी मूर्ति या द्रव्यलक्ष्मीपर अभिषेक किया जाता है, इसे पृथक् पात्रमें कराना चाहिये।) गन्धोदकस्नान-मलयाचलसम्भूतं चन्दनागरुसम्भवम् ।
चन्दनं देवदेवेश स्नानार्थं प्रतिगृह्यताम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। गन्धोदकस्नानं समर्पयामि। (गन्ध (चन्दन)-मिश्रित जलसे स्नान कराये।) शुद्धोदकस्नान-मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। शुद्धोदकस्नानं समर्पयामि। (गङ्गाजल अथवा शुद्ध जलसे स्नान कराये)।
आचमन-शुद्धोदकस्नानके बाद ‘ॐ लक्ष्मीगणपतिभ्यां नमः’ (ऐसा कहकर आचमनीय जल अर्पित करे।)
तदनन्तर प्रतिमाका अङ्ग-प्रोक्षण कर (पोंछकर) उसे यथास्थान आसनपर स्थापित करे और निम्नरूपसे उत्तराङ्ग-पूजन करे। वस्त्र-शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥ ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह। प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥ ॐ लक्ष्मीगणपतिभ्यां नमः। वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि। (वस्त्र अर्पित करे, आचमनीय जल दे।)। उपवस्त्र-यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥ ॐ लक्ष्मीगणपतिभ्यां नमः। उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि। (गणेशजीको रक्तसूत्र तथा देवीको कञ्चुकी आदि उत्तरीय वस्त्र चढ़ाये, आचमनके लिये जल दे।)
मधुपर्क-कांस्ये कांस्येन पिहितो दधिमध्वाज्यसंयुतः।
मधुपर्को मयानीतः पूजार्थं प्रतिगृह्यताम् ।। ॐ लक्ष्मीगणपतिभ्यां नमः। मधुपर्कं समर्पयामि, आचमनीयं जलं च समर्पयामि। (काँस्यपात्रमें स्थित मधुपर्क समर्पित कर आचमनके लिये जल दे।)
आभूषण-रत्नकङ्कणवैदूर्यमुक्ताहारादिकानि च।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भोः॥ ॐ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मी नाशयाम्यहम्।
अभूतिमसमृद्धिं च सर्वां निर्गुद मे गृहात्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। नानाविधानि कुण्डलकटकादीनि आभूषणानि समर्पयामि। (आभूषण समर्पित करे।)
गन्ध-गन्धं कर्पूरसंयुक्तं दिव्यं चन्दनमुत्तमम्।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम्॥ ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरी सर्वभूतानां तामिहोप ह्वये श्रियम्।। ॐ लक्ष्मीगणपतिभ्यां नमः। गन्धं समर्पयामि। (अनामिका अँगुलीसे कर्पूर-केसरादिमिश्रित चन्दन अर्पित करे।) रक्तचन्दन-श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥ रक्तचन्दनसम्मिश्रं पारिजातसमुद्भवम्।
मया दत्तं महालक्ष्मि चन्दनं प्रतिगृह्यताम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। रक्तचन्दनं समर्पयामि। (अनामिकासे रक्त चन्दन चढ़ाये।) सिन्दूर-सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥ ॐ सिन्धोरिव प्राध्वने शूघनासो वात प्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः।।
ॐ लक्ष्मीगणपतिभ्यां नमः। सिन्दूरं समर्पयामि। (सिन्दूर चढ़ाये।) कुङ्कम-कुङ्कम कामदं दिव्यं कुङ्कम कामरूपिणम्।
अखण्डकामसौभाग्यं कुङ्कुमं प्रतिगृह्यताम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। कुङ्कुमं समर्पयामि। (कुङ्कुम अर्पित करे।) पुष्पसार (इतर)-दिव्यगन्धसमायुक्तं महापरिमलाद्भूतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। सुगन्धिततैलं पुष्पसारं च समर्पयामि। (सुगन्धित तेल एवं इतर चढ़ाये।) अक्षत*-अक्षताश्च सुरश्रेष्ठ कुङ्कमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ लक्ष्मीगणपतिभ्यां नमः। अक्षतान् समर्पयामि। (कुङ्कमाक्त अक्षत अर्पित करे।)
* देशाचारसे कहीं-कहीं महालक्ष्मीको अक्षतके स्थानपर हल्दी या धनिया तथा भोगमें गुड़का प्रसाद दिया जाता है। पुष्य एवं पुष्पमाला-माल्यादीनि सुगन्धीनि मालत्यादीनि वै
प्रभो। मयानीतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥ ॐ मनसः काममाकूतिं वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ।। ॐ लक्ष्मीगणपतिभ्यां नमः । पुष्पं पुष्पमालां च समर्पयामि। (पुष्पों तथा पुष्पमालाओंसे अलङ्कत करे, देवीजीका यथासम्भव लाल कमलके फूलोंसे शृंगार करे।)
दूर्वा-दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक। विष्णवादिसर्वदेवानां प्रियां सर्वसुशोभनाम्।
क्षीरसागरसम्भूते दूर्वां स्वीकुरु सर्वदा॥
ॐ लक्ष्मीगणपतिभ्यां नमः। दूर्वाङ्कुरान् समर्पयामि। (दूर्वाङ्कुर अर्पित करे।)
अङ्ग-पूजा देवी महालक्ष्मीकी रोली, कुङ्कममिश्रित अक्षत-पुष्पोंसे निम्नाङ्कित एक-एक नाम-मन्त्र पढ़ते हुए अङ्ग-पूजा करे
ॐ चपलायै नमः, पादौ पूजयामि। ॐ चञ्चलायै नमः, जानुनी पूजयामि।
ॐ कमलायै नमः, कटिं पूजयामि। ॐ कात्यायन्यै नमः, नाभिं पूजयामि।
ॐ जगन्मात्रे नमः, जठरं पूजयामि। ॐ विश्ववल्लभायै नमः, वक्षःस्थलं पूजयामि। ॐ कमलवासिन्यै नमः, हस्तौ पूजयामि।
ॐ पद्माननायै नमः, मुखं पूजयामि। ॐ कमलपत्राक्ष्यै नमः, नेत्रत्रयं पूजयामि।
ॐ श्रियै नमः, शिरः पूजयामि। ॐ महालक्ष्म्यै नमः, सर्वाङ्गं पूजयामि।
अष्टसिद्धि-पूजन इस प्रकार अङ्ग-पूजाके अनन्तर पूर्वादि-क्रमसे आठों दिशाओंमें आठों सिद्धियोंकी पूजा कुङ्कमाक्त अक्षतोंसे देवी महालक्ष्मीके पास निम्नाङ्कित मन्त्रोंसे करे
१-ॐ अणिम्ने नमः (पूर्वे), २-ॐ महिम्ने नमः (अग्निकोणे), ३-ॐ गरिम्णे नमः (दक्षिणे), ४-ॐ लघिम्ने नमः (नैर्ऋत्ये), ५-ॐ प्राप्त्यै नमः (पश्चिमे), ६-ॐ प्राकाम्यै नमः (वायव्ये), ७-ॐ ईशितायै नमः (उत्तरे) तथा ८-ॐ वशितायै नमः (ऐशान्याम् )।
अष्टलक्ष्मी-पूजन
तदनन्तर पूर्वादि-क्रमसे आठों दिशाओंमें महालक्ष्मीके पास कुङ्कमाक्त अक्षत तथा पुष्पोंसे एक-एक नाम-मन्त्र पढ़ते हुए आठ लक्ष्मियोंका पूजन करे
१-ॐ आद्यलक्ष्यै नमः, २-ॐ विद्यालक्ष्म्यै नमः, ३-ॐ सौभाग्यलक्ष्यै नमः, ४-ॐ अमृतलक्ष्यै नमः, ५-ॐ कामलक्ष्यै नमः, ६-ॐ सत्यलक्ष्यै नमः, ७-ॐ भोगलक्ष्यै नमः ८-ॐ योगलक्ष्यै नमः।
धूप-वनस्पतिरसोद्भूतो गन्धाढ्यः सुमनोहरः। आनेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥ ॐ कर्दमेन प्रजा भूता मयि संभव कर्दम।
श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। धूपमाघ्रापयामि। (धूप आघ्रापित करे।)
दीप-कार्पासवर्तिसंयुक्तं घृतयुक्तं मनोहरम्।
तमोनाशकरं दीपं गृहाण परमेश्वर॥ ॐ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले। ॐ लक्ष्मीगणपतिभ्यां नमः। दीपं दर्शयामि। (दीपक दिखाये और फिर हाथ धो ले।) नैवेद्य-शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥ ॐ आर्द्रा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ ॐ लक्ष्मीगणपतिभ्यां नमः। नैवेद्यं निवेदयामि, नैवेद्यान्ते आचमनीयं जलं समर्पयामि, मध्ये पानीयम्, उत्तरापोऽशनार्थं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि। (नैवेद्य निवेदित कर आचमनीय जल, पानीय जल एवं हस्तादि प्रक्षालनके लिये भी जल अर्पित करे।)
ॐ लक्ष्मीगणपतिभ्यां नमः। प्रदक्षिणां समर्पयामि। (प्रदक्षिणा करे।) पुष्पांजलि-अंजलिमें फूल लेकर यह मन्त्र पढ़े
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पञ्चदशचं च श्रीकामः सततं जपेत्। ॐ लक्ष्मीगणपतिभ्यां नमः पुष्पाजलिं समर्पयामि। (पुष्पांजलि अर्पित करे।) प्रार्थना-हाथ जोड़कर प्रार्थना करे
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय। नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥ सुरासुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तव पादपङ्कजम्।
परावरं पातु वरं सुमङ्गलं नमामि भक्त्याखिलकामसिद्धये॥ भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनी। सुपूजिता प्रसन्ना स्यान्महालक्ष्मि नमोऽस्तु ते॥
नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्त्वत्प्रपन्नानां सा मे भूयात् त्वदर्चनात्॥ ॐ लक्ष्मीगणपतिभ्यां नमः। प्रार्थनापूर्वकं नमस्कारान् समर्पयामि। (प्रार्थना करते हुए नमस्कार करे।)
समर्पण-पूजनके अन्तमें—’कृतेनानेन पूजनेन लक्ष्मीगणपती प्रीयेताम्, न मम।’ (यह वाक्य उच्चारणकर समस्त पूजन-कर्म निवेदित करे तथा जल गिराये।)
इस प्रकार गणेशजी तथा भगवती महालक्ष्मीके यथालब्धोपचारपूजनके अनन्तर महालक्ष्मीपूजनके अंग-रूप-श्रीदेहलीविनायक, मसिपात्र, लेखनी, सरस्वती, कुबेर, तुला-मान तथा दीपकोंकी पूजा की
जाती है। संक्षेपमें उन्हें भी यहाँ दिया जा रहा है। सर्वप्रथम ‘देहलीविनायक’ की पूजा की जाती है
देहलीविनायक-पूजन व्यापारिक प्रतिष्ठानादिमें दीवालोंपर ‘ॐ श्रीगणेशाय नमः’, ‘स्वस्तिक चिह्न’, ‘शुभ-लाभ’ आदि मांगलिक एवं कल्याणकर शब्द सिन्दूरादिसे लिखे जाते हैं। इन्हीं शब्दोंपर ‘ॐ देहलीविनायकाय नमः’ इस नाम-मन्त्रद्वारा गन्ध-पुष्पादिसे पूजन करे।
श्रीमहाकाली (दावात)-पूजन स्याही-युक्त दावातको भगवती महालक्ष्मीके सामने पुष्प तथा अक्षतपुंजमें रखकर उसमें सिन्दूरसे स्वस्तिक बना दे तथा मौली लपेट दे। ‘ॐ श्रीमहाकाल्यै नमः’ इस नाम-मन्त्रसे गन्ध-पुष्पादि पञ्चोपचारोंसे या षोडशोपचारोंसे दावातमें भगवती महाकालीका पूजन करे और अन्तमें इस प्रकार प्रार्थनापूर्वक उन्हें प्रणाम करे
कालिके! त्वं जगन्मातर्मसिरूपेण वर्तसे। उत्पन्ना त्वं च लोकानां व्यवहारप्रसिद्धये।
या कालिका रोगहरा सुवन्द्या भक्तैः समस्तैर्व्यवहारदक्षैः।
जनैर्जनानां भयहारिणी च सा लोकमाता मम सौख्यदास्तु॥
लेखनी-पूजन लेखनी (कलम)-पर मौली बाँधकर सामने रख ले और–
लेखनी निर्मिता पूर्वं ब्रह्मणा परमेष्ठिना।
लोकानां च हितार्थाय तस्मात्तां पूजयाम्यहम्॥ ‘ॐ लेखनीस्थायै देव्यै नमः’ इस नाम-मन्त्रद्वारा गन्ध-पुष्पाक्षत आदिसे पूजनकर इस प्रकार प्रार्थना करे
शास्त्राणां व्यवहाराणां विद्यानामाप्नुयाद्यतः।
अतस्त्वां पूजयिष्यामि मम हस्ते स्थिरा भव॥
सरस्वती-(पञ्जिका-बही-खाता) पूजन पञ्जिका-बही, बसनामें रोली या केसरयुक्त चन्दनसे स्वस्तिकचिह्न बनाये तथा उसमें सरस्वतीका पूजन करे। सर्वप्रथम सरस्वतीजीका ध्यान इस प्रकार करे
ध्यान-या कुन्देन्दुतुषारहारधवला
या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा
या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभि
र्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती
निःशेषजाड्यापहा॥ ‘ॐ वीणापुस्तकधारिण्यै श्रीसरस्वत्यै नमः’ इस नाम-मन्त्रसे गन्धादि उपचारोंद्वारा पूजन करे।
कुबेर-पूजन तिजोरी अथवा रुपये रखे जानेवाले संदूक आदिको स्वस्तिकादिसे अलङ्कत कर उसमें निधिपति कुबेरका आवाहन करे
आवाहयामि देव त्वामिहायाहि कृपां कुरु।
कोशं वर्द्धय नित्यं त्वं परिरक्ष सुरेश्वर ॥ आवाहनके पश्चात् ‘ॐ कुबेराय नमः’ इस नाम-मन्त्रसे यथालब्धोपचार पूजनकर अन्तमें इस प्रकार प्रार्थना करे
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च।
भवन्तु त्वत्प्रसादेन धनधान्यादिसम्पदः॥ -इस प्रकार प्रार्थना कर पूर्वपूजित हल्दी, धनिया, कमलगट्टा, द्रव्य, दूर्वादिसे युक्त थैली (द्रव्यलक्ष्मीको) तिजोरीमें रखे।
तुला तथा मान-पूजन
सिन्दूरसे तराजू आदिपर स्वस्तिक बना ले। मौली लपेटकर तुलाधिष्ठातृदेवताका इस प्रकार ध्यान करना चाहिये
नमस्ते सर्वदेवानां शक्तित्वे सत्यमाश्रिता।
साक्षीभूता जगद्धात्री निर्मिता विश्वयोनिना। ध्यानके बाद ‘ॐ तुलाधिष्ठातृदेवतायै नमः’ इस नाम-मन्त्रसे गन्धाक्षतादि उपचारोंद्वारा पूजनकर नमस्कार करे।।
दीपमालिका-(दीपक)-पूजन किसी पात्रमें ग्यारह, इक्कीस या उससे अधिक दीपकोंको प्रज्वलित कर महालक्ष्मीके समीप रखकर उस दीप-ज्योतिका ‘ॐ दीपावल्यै नमः’ इस नाम-मन्त्रसे गन्धादि उपचारोंद्वारा पूजनकर इस प्रकार प्रार्थना करे
त्वं ज्योतिस्त्वं रविश्चन्द्रो विद्युदग्निश्च तारकाः।
सर्वेषां ज्योतिषां ज्योतिर्दीपावल्यै नमो नमः॥ दीपमालिकाओंका पूजन कर अपने आचारके अनुसार संतरा, ईख, पानीफल, धानका लावा इत्यादि पदार्थ चढ़ाये। धानका लावा (खील) गणेश, महालक्ष्मी तथा अन्य सभी देवी-देवताओंको भी अर्पित करे। अन्तमें अन्य सभी दीपकोंको प्रज्वलित कर सम्पूर्ण गृह अलङ्कत करे।
प्रधान आरती इस प्रकार भगवती महालक्ष्मी तथा उनके सभी अंग-प्रत्यङ्गों एवं उपाङ्गोंका पूजन कर लेनेके अनन्तर प्रधान आरती करनी चाहिये। इसके लिये एक थालीमें स्वस्तिक आदि माङ्गलिक चिह्न बनाकर अक्षत तथा पुष्पोंके आसनपर किसी दीपक आदिमें घृतयुक्त बत्ती प्रज्वलित करे। एक पृथक् पात्रमें कर्पूर भी प्रज्वलित कर वह पात्र भी थालीमें यथास्थान रख ले, आरती-थालका जलसे प्रोक्षण कर ले। पुनः आसनपर खड़े होकर अन्य पारिवारिक जनोंके साथ घण्टानादपूर्वक निम्न आरती गाते हुए साङ्ग-महालक्ष्मीजीकी मंगल आरती करे
श्रीलक्ष्मीजीकी आरती
ॐ जय लक्ष्मी माता, (मैया) जय लक्ष्मी माता। तुमको निसिदिन सेवत हर-विष्णू-धाता ।। ॐ।।
उमा, रमा, ब्रह्माणी, तुम ही जग-माता। सूर्य-चन्द्रमा ध्यावत, नारद ऋषि गाता॥ॐ॥
दुर्गारूप निरञ्जनि, सुख-सम्पति-दाता। जो कोइ तुमको ध्यावत, ऋधि-सिधि-धन पाता ।। ॐ॥
तुम पाताल-निवासिनि, तुम ही शुभदाता। कर्म-प्रभाव-प्रकाशिनि, भवनिधिकी त्राता॥ॐ॥
जिस घर तुम रहती, तहँ सब सद्गुण आता। सब सम्भव हो जाता, मन नहिं घबराता।। ॐ।।
तुम बिन यज्ञ न होते, वस्त्र न हो पाता। खान-पानका वैभव सब तुमसे आता॥ ॐ॥ शुभ-गुण-मन्दिर सुन्दर, क्षीरोदधि-जाता। रत्न चतुर्दश तुम बिन कोई नहिं पाता॥ ॐ॥ महालक्ष्मी (जी) की आरति, जो कोई नर गाता।
उर आनन्द समाता, पाप उतर जाता॥ ॐ॥ मन्त्र-पुष्याञ्जलि-दोनों हाथोंमें कमल आदिके पुष्प लेकर हाथ जोड़े और निम्न मन्त्रोंका पाठ करे
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥ ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणायकुर्महे। स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु॥ कुबेराय वैश्रवणाय महाराजाय नमः।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुष आऽन्तादा परार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति॥
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति सं पतत्रैावाभूमी जनयन् देव एकः॥ महालक्ष्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात्।
ॐ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम्॥ ॐ महालक्ष्यै नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि। (हाथमें लिये फूल गणेशजी तथा महालक्ष्मीपर चढ़ा दे।) प्रदक्षिणा कर साष्टाङ्ग प्रणाम करे, पुनः हाथ जोड़कर क्षमा-प्रार्थना करे
क्षमा-प्रार्थना-नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात्॥ आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न जानामि क्षमस्व परमेश्वरि॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि। यत्पूजितं मया देवि परिपूर्णं तदस्तु मे।
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव। त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि।।
सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्।।
पुनः प्रणाम करके ‘ॐ अनेन यथाशक्त्यर्चनेन श्रीमहालक्ष्मीः प्रसीदतु’ यह कहकर जल छोड़ दे। ब्राह्मण एवं गुरुजनोंको प्रणाम कर चरणामृत तथा प्रसाद वितरण करे।
विसर्जन-पूजनके अन्तमें हाथमें अक्षत लेकर नूतन गणेश एवं महालक्ष्मीकी प्रतिमाको छोड़कर अन्य सभी आवाहित, प्रतिष्ठित एवं पूजित देवताओंको अक्षत छोड़ते हुए निम्न मन्त्रसे विसर्जित करे
यान्तु देवगणाः सर्वे पूजामादाय मामकीम्।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥
