॥ श्रीविघ्नेश्वरगीतम् ॥

श्रीविघ्नेश्वरगीतम्

विशदवाससं विस्तृतोरसं विमलतेजसं विद्धराक्षसम् ।
विगततामसं विष्टरौकसं विभुमुपास्महे विघ्ननायकम् ॥ १॥

विधिहरिस्तुतं विष्टरस्थितं विपुललोचनं वीर्यशालिनम् ।
विकटविक्रमं विद्ययावृतं विभुमुपास्महे विघ्ननायकम् ॥ २॥

विबुधसत्तमं विप्रपूजितं विधुकुलोज्ज्वलं विघ्ननाशनम् ।
विधृतभूषणं वीतरागिणं विभुमुपास्महे विघ्ननायकम् ॥ ३॥

विभवसंयुतं विभ्रमान्वितं विषधरेट्तनूवेष्टितोदरम् ।
विनुतपौरुषं (विस्तरा)विस्तृतालिकं विभुमुपास्महे विघ्ननायकम् ॥ ४॥

विमतमर्दनं विश्वनायकं वितरणोत्सुकं वारणाननम् ।
विचलितश्रुतिं वीतकल्मषं विभुमुपास्महे विघ्ननायकम् ॥ ५॥

॥ इति श्रीविघ्नेश्वरगीतम् ॥

You cannot copy content of this page