॥ श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् ॥

चिदंशं विभुं निर्मलं निर्विकल्पम्
निरीहं निराकारमोङ्कारगम्यम्।
गुणातीतमव्यक्तमेकं तुरीयम्
परं ब्रह्म यं वेद तस्मै नमस्ते॥१॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यम्
जगज्जीवनं ज्योतिरानन्दरूपम्।
अदिग्देशकालव्यवच्छेदनीयम्
त्रयी वक्ति यं वेद तस्मै नमस्ते॥२॥
महायोगपीठे परिभ्राजमाने
धरण्यादितत्त्वात्मके शक्तियुक्ते।
गुणाहस्करे वह्निबिम्बार्धमध्ये
समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे॥३॥
समानोदितानेकसूर्येन्दुकोटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्षम्।
न शीतं न चोष्णं सुवर्णावदात-
प्रसन्नं सदानन्दसंवित्स्वरूपम्॥४॥
सुनासापुटं सुन्दरभ्रूललाटम्
किरीटोचिताकुञ्चितस्निग्धकेशम्।
स्फुरत् पुण्डरीकाभिरामायताक्षम्
समुत्फुल्लरत्नप्रसूनावतंसम्॥५॥
लसत् कुण्डलामृष्टगण्डस्थलान्तम्
जपारागचोराधरं चारुहासम्।
अलिव्याकुलामोलिमन्दारमालम्
महोरस्फुरत्कौस्तुभोदारहारम्॥६॥
सुरत्नाङ्गदैरन्वितं बाहुदण्डैः
चतुर्भिश्चलत्कङ्कणालङ्कृताग्रैः।
उदारोदरालङ्कृतं पीतवस्त्रम्
पदद्वन्द्वनिर्धूतपद्माभिरामम्॥७॥
स्वभक्तेषु सन्दर्शिताकारमेवम्
सदा भावयन् सन्निरुद्धेन्द्रियाश्वः।
दुरापं नरो याति संसारपारम्
परस्मै परेभ्योऽपि तस्मै नमस्ते॥८॥
श्रिया शातकुम्भद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या।
कलत्रद्वयेनामुना तोषिताय
त्रिलोकीगृहस्थाय विष्णो नमस्ते॥९॥
शरीरं कलत्रं सुतं बन्धुवर्गम्
वयस्यं धनं सद्म भृत्यं भुवं च।
समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम्॥१०॥
जरेयं पिशाचीव हा जीवतो मे
वसामक्ति रक्तं च मांसं बलं च।
अहो देव सीदामि दीनानुकम्पिम्
किमद्यापि हन्त त्वयोदासितव्यम्॥११॥
कफव्याहतोष्णोल्बणश्वासवेग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम्।
विचिन्त्याहमन्त्यामसङ्ख्यामवस्थाम्
बिभेमि प्रभो किं करोमि प्रसीद॥१२॥
लपन्नच्युतानन्त गोविन्द विष्णो
मुरारे हरे नाथ नारायणेति।
यथाऽनुस्मरिष्यामि भक्त्या भवन्तम्
तथा मे दयाशील देव प्रसीद॥१३॥
भुजङ्गप्रयातं पठेद्यस्तु भक्त्या
समाधाय चित्ते भवन्तं मुरारे।
स मोहं विहायाशु युष्मत्प्रसादात्
समाश्रित्य योगं व्रजत्यच्युतं त्वाम्॥१४॥

॥ इति श्रीमच्छङ्कराचर्यविरचितं श्रीविष्णुभुजङ्गप्रयातस्तोत्रं सम्पूर्णम्‌ ॥

You cannot copy content of this page