॥ षष्ठीदेवी स्तोत्रम् ॥

प्रियव्रत उवाच
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः॥१॥

वरदायै पुत्रदायै धनदायै नमो नमः।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः॥२॥

शक्तेः षष्ठांशरूपायै सिद्धायै च नमो नमः।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः॥३॥

पारायै पारदायै च षष्ठीदेव्यै नमो नमः।
सारायै सारदायै च पारायै सर्वकर्मणाम्॥४॥

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम्।
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः॥५॥

पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु।
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः॥६॥

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा।
हिंसाक्रोधैर्वर्जितायै षष्ठीदेव्यै नमो नमः॥७॥

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि।
धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः॥८॥

भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते।
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः॥९॥

इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः।
यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः॥१०॥

षष्ठीस्तोत्रमिदं ब्रह्मण् यः शृणोति च वत्सरम्।
अपुत्रो लभते पुत्रं वरं सुचिरजीवनम्॥११॥

वर्षमेकं च या भक्त्या संयतेदं शृणोति च।
सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते॥१२॥

वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम्।
सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः॥१३॥

काकवन्ध्या च या नारी मृतापत्या च या भवेत्।
वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः॥१४॥

रोगयुक्ते च बाले च पिता माता शृणोति च।
मासं च मुच्यते बालः षष्ठीदेवीप्रसादतः॥१५॥

॥ इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे श्री नारदनारायणसंवादे षष्ठ्युपाख्याने श्रीप्रियव्रतविरचितं श्री षष्ठीदेवीस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page