॥ सूर्यप्रातःस्मरणस्तोत्रम् ॥

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यम्
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
सामानि यस्य किरणाः प्रभवादिहेतुम्
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम्॥१॥

प्रातर्नमामि तरणिं तनुवाङ्मनोभि-
र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च।
वृष्टिप्रमोचनविनिग्रहहेतुभूतम्
त्रैलोक्यपालनपरं त्रिगुणात्मकं च॥२॥

प्रातर्भजामि सवितारमनन्तशक्तिम्
पापौघशत्रुभयरोगहरं परं च।
तं सर्वलोककलनात्मककालमूर्तिम्
गोकण्ठबन्धनविमोचनमादिदेवम्॥३॥

श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः।
स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥

॥ इति श्रीसूर्यप्रातःस्मरणस्तोत्रं सम्पूर्णम्॥

You cannot copy content of this page