॥ हनुमान् प्रार्थना ॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्ण-लोचनं मारुतिं नमत राक्षसान्तकम्॥
असाध्यसाधक स्वामिन् असाध्यं तव किं वद।
रामदूतकृपसिन्धो मत्कार्यं साधय प्रभो॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगता।
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत्॥
॥ इति हनुमान् प्रार्थना ॥
