॥ भज गोविन्दम् ॥

भज गोविन्दं भज गोविन्दम्
गोविन्दं भज मूढमते।
सम्प्राप्ते सन्निहिते काले
न हि न हि रक्षति डुकृञ् करणे॥१॥

मूढ जहीहि धनागमतृष्णाम्
कुरु सद्बुद्धिं मनसि वितृष्णाम्।
यल्लभसे निजकर्मोपात्तम्
वित्तं तेन विनोदय चित्तम्॥२॥

नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम्।
एतन्मांसावसादि विकारम्
मनसि विचिन्तय वारं वारम्॥३॥

नलिनीदलगतजलमतितरलम्
तद्वज्जीवितमतिशयचपलम्।
विद्धि व्याध्यभिमानग्रस्तम्
लोकं शोकहतं च समस्तम्॥४॥

यावद्वित्तोपार्जन-सक्तः
तावन्निज-परिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे॥५॥

यावत् पवनो निवसति देहे
तावत् पृच्छति कुशलं गेहे।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये॥६॥

बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः।
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः॥७॥

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः।
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः॥८॥

सत्सङ्गत्वे निःसङ्गत्वम्
निस्सङ्गत्वे निर्मोहत्वम्।
निर्मोहत्वे निश्चलितत्त्वम्
निश्चलितत्त्वे जीवन-मुक्तिः॥९॥

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः॥१०॥

मा कुरु धनजनयौवनगर्वम्
हरति निमेषात् कालः सर्वम्।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा॥११॥

दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः॥१२॥

(द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः।
उपदेशो भूद्विद्यानिपुणैः
श्रीमच्छङ्करभगवच्छरणैः॥)

का ते कान्ता धनगतचिन्ता
वातुल किं तव नास्ति नियन्ता।
त्रिजगति सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका॥१३॥

जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः।
पश्यन्नपि चन पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः॥१४॥

अङ्गं गलितं पलितं मुण्डम्
दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डम्
तदपि न मुञ्चत्याशापिण्डम्॥१५॥

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुकसमर्पितजानुः।
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः॥१६॥

कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम्।
ज्ञानविहीनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन॥१७॥

सुरमन्दिर-तरुमूल-निवासः
शय्या भूतलमजिनं वासः।
सर्व-परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः॥१८॥

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव॥१९॥

भगवद्गीता किञ्चिदधीता
गङ्गाजललव-कणिका पीता।
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा॥२०॥

पुनरपि जननं पुनरपि मरणम्
पुनरपि जननी-जठरे शयनम्।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे॥२१॥

रथ्या-चर्पट-विरचित-कन्थः
पुण्यापुण्य-विवर्जित-पन्थः।
योगी योगनियोजित चित्तो
रमते बालोन्मत्तवदेव॥२२॥

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्नविचारम्॥२३॥

त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम्॥२४॥

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ।
भव समचित्तः सर्वत्र त्वम्
वाञ्छस्यचिराद्यदि विष्णुत्वम्॥२५॥

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं भावय कोऽहम्।
आत्मज्ञानविहीना मूढाः
ते पच्यन्ते नरकनिगूढाः॥२६॥

गेयं गीता नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम्।
नेयं सज्जन-सङ्गे चित्तं
देयं दीनजनाय च वित्तम्॥२७॥

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम्॥२८॥

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम्।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः॥२९॥

प्राणायामं प्रत्याहारं
नित्यानित्य-विवेकविचारम्।
जाप्यसमेत-समाधिविधानं
कुर्ववधानं महदवधानम्॥३०॥

गुरुचरणाम्बुज-निर्भर-भक्तः
संसारादचिराद्भव मुक्तः।
सेन्द्रियमानस-नियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम्॥३१॥

मूढः कश्चन वैयाकरणो
डुकृञ्करणाध्ययन-धुरिणः।
श्रीमच्छङ्कर-भगवच्छिष्यैः
बोधित आसिच्छोधितकरणः॥३२॥

भज गोविन्दं भज गोविन्दम्
गोविन्दं भज मूढमते।
नामस्मरणादन्यमुपायं
न हि पश्यामो भवतरणे॥३३॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं भज गोविन्दं सम्पूर्णम्॥

You cannot copy content of this page