॥ ललिता पञ्चरत्नम् ॥

प्रातः स्मरामि ललितावदनारविन्दम्
बिम्बाधरं पृथुलमौक्तिकशोभिनासम्।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यम्
मन्दस्मितं मृगमदोज्ज्वलभालदेशम्॥१॥

प्रातर्भजामि ललिताभुजकल्पवल्लीम्
रत्नाङ्गुलीयलसदङ्गुलिपल्लवाढ्याम्।
माणिक्यहेमवलयाङ्गदशोभमानाम्
पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम्॥२॥

प्रातर्नमामि ललिताचरणारविन्दम्
भक्तेष्टदाननिरतं भवसिन्धुपोतम्।
पद्मासनादिसुरनायकपूजनीयम्
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम्॥३॥

प्रातः स्तुवे परशिवां ललितां भवानीम्
त्रय्यन्तवेद्यविभवां करुणानवद्याम्।
विश्वस्य सृष्टिविलयस्थितिहेतुभूताम्
विश्वेश्वरीं निगमवाङ्मनसातिदूराम्॥४॥

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति।
श्रीशाम्भवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति॥५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम्॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्री ललितापञ्चकं सम्पूर्णम् ॥

You cannot copy content of this page