॥ नवग्रहमङ्गलाष्टकम् ॥

भास्वानर्कसमिच्च रक्तकिरणः सिंहाधिपः काश्यपो –
गुर्विन्दोश्च कुजस्य मित्रमरिगः त्रिस्थः शुभः प्राङ्मुखः।
शत्रुर्भार्गवसौरयोः प्रियः कुजः कालिङ्गदेशाधिपो –
मध्ये वर्तुलमण्डले स्थितिमितः कुर्यात्सदा मङ्गलम्॥१॥

चन्द्रः कर्कटकप्रभुः सितरुचिश्चात्रेयगोत्रोद्भवः
चाग्नेये चतुरश्रकोऽपरमुखो गौर्यर्चया तर्पितः।
षट्सप्ताग्निदशाद्यशोभनफलोऽशत्रुर्बुधार्कप्रियः
सौम्यो यामुनदेशपर्णजसमित्कुर्यात्सदा मङ्गलम्॥२॥

भौमो दक्षिणदिक्त्रिकोणनिलयोऽवन्तीपतिः खादिर-
प्रीतो वृश्चिकमेषयोरधिपतिर्गुर्वर्कचन्द्रप्रियः।
ज्ञारिः षट्त्रिशुभप्रदश्च वसुधादाता गुहाधीश्वरो
भारद्वाजकुलाधिपोऽरुणरुचिः कुर्यात्सदा मङ्गलम्॥३॥

सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रिगोत्रोद्भवो –
बाणेशानगतः सुहृद्रविसुतो वैरीकृतानुष्णरुक्।
कन्यायुग्मपतिर्दशाष्टमचतुःषण्णेत्रगः शोभनो –
विष्ण्वाराधनतर्पितो मगधपः कुर्यात्सदा मङ्गलम्॥४॥

जीवश्चोत्तरदिङ्मुखोत्तरककुभ्जातोऽङ्गिरो गोत्रदः
पीतोऽश्वत्थसमिच्च सिन्ध्वधिपतिः चापर्क्षमीनाधिपः।
सूर्येन्दुक्षितिजप्रियः सितबुधारातिः समो भानुजे –
सप्तापत्यतपोऽर्थगः शुभकरः कुर्यात्सदा मङ्गलम्॥५॥

शुक्रो भार्गवगोत्रजः सितरुचिः पूर्वाननः पूर्वदिक्
काम्बोजाधिपतिस्तुलावृषभगश्चौदुम्बरैस्तर्पितः।
सौम्यर्क्योः सुहृदम्बिकास्तुतिवशात् प्रीतोर्कचन्द्राहितो –
नारीभोगकरः शुभो भृगुसुतः कुर्यात्सदा मङ्गलम्॥६॥

सौरिः कृष्णरुचिश्च पश्चिममुखः सौराष्ट्रपः काश्यपो –
नाथः कुम्भमृगर्क्षयोः प्रियसुहृत् शुक्रज्ञयोर्रुद्रगः।
षट्त्रिस्थः शुभदो शुभो धनुगतिश्चापाकृतौ मण्डले
सन्तिष्ठन् चिरजीवितादिफलदः कुर्यात्सदा मङ्गलम्॥७॥

राहुर्बर्बरदेशपो निऱ्तौ कृष्णाङ्गशूर्पासनो
याम्याशाभिमुखश्च चन्द्ररविरुध् पैडीनसिः क्रौर्यवान्।
षट्त्रिस्थः शुभकृत् करालवदनः प्रीतश्च दूर्वाहुतौ
दुर्गापूजनतः प्रसन्नहृदयः कुर्यात्सदा मङ्गलम्॥८॥

केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः
चित्राङ्कध्वजलाञ्छनो हि भगवान् याम्याननः शोभनः।
सन्तुष्टो गणनाथपूजनवशात् गङ्गादितीर्थप्रदः
षट्त्रिस्थः शुभकृच्च चित्रिततनुः कुर्यात्सदा मङ्गलम्॥९॥

॥ इति श्री नवग्रहमङ्गलाष्टकं सम्पूर्णम् ॥

You cannot copy content of this page