॥ बृहस्पतिस्तोत्रम् ॥

गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदां वरः।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा॥ १॥

सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुङ्मलद्युतिः॥ २॥

लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः।
तारापतिश्चाङ्गिरसो वेदवेद्यः पितामहः॥ ३॥

भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत्।
अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः॥ ४॥

जीवेद्वर्षशतं मर्त्यः पापं नश्यति नश्यति।
यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः॥ ५॥

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम्।
ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद्गुरोः॥ ६॥

॥ इति श्रीस्कान्दपुराणे श्री बृहस्पतिस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page