॥ द्वादशार्यासूर्यस्तुतिः ॥
उद्यन्नद्य विवस्वान् आरोहन्नुत्तरां दिवं देवः।
हृद्रोगं मम सूर्यो हरिमाणं चऽऽशु नाशयतु ॥१॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे।
क्रममाण योजनानां नमोऽस्तु ते नळिननाथाय ॥२॥
कर्म ज्ञान ख दशकं मनश्च जीव इति विश्वसर्गाय।
द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥३॥
त्वं हि यजू ऋक् सामस्त्वमागमस्त्वं वषट्कारः।
त्वं विश्वं त्वं हंसस्त्वं भानो परमहंसश्च॥४॥
शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात्।
शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि॥५॥
त्वचि दोषा दृशि दोषा हृदि दोषा येऽखिलेन्द्रियजदोषाः।
तान् पूषा हतदोषः किञ्चित् रोषाग्निना दहतु॥६॥
धर्मार्थकाममोक्ष प्रतिरोधानुग्रतापवेग करान्।
बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः॥७॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम्।
धृतबोधं तं नळिनीभर्तारं हर्तारमापदामीडे॥८॥
यस्य सहस्राभीशोरभीशुलेशो हिमांशुबिम्बगतः।
भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः॥९॥
तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः।
काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात्॥१०॥
वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च।
ग्रहणीभगन्दराख्या महतीस्त्वं मे रुजो हंसि॥११॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः।
त्वं त्राता त्वं हर्ता विपदाम् अर्क प्रसीद मम भानो॥१२॥
इत्यार्याद्वादशकं साम्बस्य पुरो नभःस्थलात्पतितम्।
पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात्॥ १३ ॥
॥ इति श्री द्वादशार्यासूर्यस्तुतिः सम्पूर्णः॥
