॥ रामद्वादशनामस्तोत्रम् ॥

प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम्।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम्॥१॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम्।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा॥२॥

नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम्।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम्॥३॥

द्वादशैतानि नामानि यः पठेछ्रद्धयान्वितः।
अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम्॥४॥

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम्।
ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम्॥५॥

सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम्।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः।
अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यति॥ ६ ॥

॥ इति श्री स्कान्दपुराणे उत्तरखण्डे श्री उमामहेश्वरसंवादे श्री रामद्वादशनामस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page