॥ शिवसहस्रनामस्तोत्रम् ॥
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरये॥
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणम्
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥
॥ पूर्वभागः॥
युधिष्ठिर उवाच
त्वयाऽऽपगेय नामानि श्रुतानीह जगत्पतेः।
पितामहेशाय विभोर्नामान्याचक्ष्व शम्भवे॥१॥
बभ्रवे विश्वरूपाय महाभाग्यं च तत्त्वतः।
सुरासुरगुरौ देवे शङ्करेऽव्यक्तयोनये॥२॥
भीष्म उवाच
अशक्तोऽहं गुणान् वक्तुं महादेवस्य धीमतः।
यो हि सर्वगतो देवो न च सर्वत्र दृश्यते॥३॥
ब्रह्मविष्णुसुरेशानां स्रष्टा च प्रभुरेव च।
ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते॥४॥
प्रकृतीनां परत्वेन पुरुषस्य च यः परः।
चिन्त्यते यो योगविद्भिऱ्षिभिस्तत्त्वदर्शिभिः॥५॥
प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा।
ब्रह्माणमसृजत् तस्माद्देवदेवः प्रजापतिः॥६॥
को हि शक्तो गुणान् वक्तुं देवदेवस्य धीमतः।
गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः॥७॥
को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम्।
ऋते नारायणात् पुत्र शङ्खचक्रगदाधरात्॥८॥
एष विद्वान् गुणश्रेष्ठो विष्णुः परमदुर्जयः।
दिव्यचक्षुर्महातेजा वीक्ष्यते योगचक्षुषा॥९॥
रुद्रभक्त्या तु कृष्णेन जगद्व्याप्तं महात्मना।
तं प्रसाद्य तदा देवं बदर्यां किल भारत॥१०॥
अर्थात् प्रियतरत्वं च सर्वलोकेषु वै तदा।
प्राप्तवानेव राजेन्द्र सुवर्णाक्षान्महेश्वरात्॥११॥
पूर्णं वर्षसहस्रं तु तप्तवानेष माधवः।
प्रसाद्य वरदं देवं चराचरगुरुं शिवम्॥१२॥
युगे युगे तु कृष्णेन तोषितो वै महेश्वरः।
भक्त्या परमया चैव प्रीतश्चैव महात्मनः॥१३॥
ऐश्वर्यं यादृशं तस्य जगद्योनेर्महात्मनः।
तदयं दृष्टवान् साक्षात् पुत्रार्थे हरिरच्युतः॥१४॥
यस्मात् परतरं चैव नान्यं पश्यामि भारत।
व्याख्यातुं देवदेवस्य शक्तो नामान्यशेषतः॥१५॥
एष शक्तो महाबाहुर्वक्तुं भगवतो गुणान्।
विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप॥१६॥
सुरासुरगुरो देव विष्णो त्वं वक्तुम् अर्हसि।
शिवाय शिवरूपाय यन्माऽपृच्छद्युधिष्ठिरः॥१७॥
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मवादिना।
निवेदितं ब्रह्मलोके ब्रह्मणो यत् पुराऽभवत्॥१८॥
द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः।
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव॥१९॥
वासुदेव उवाच
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः।
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः॥२०॥
न विदुर्यस्य निधनम् आदिं वा सूक्ष्मदर्शिनः।
स कथं नाममात्रेण शक्यो ज्ञातुं सतां गतिः॥२१॥
तस्याहम् असुरघ्नस्य कांश्चिद्भगवतो गुणान्।
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम्॥२२॥
वैशम्पायन उवाच
एवमुक्त्वा तु भगवान् गुणांस्तस्य महात्मनः।
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः॥२३॥
वासुदेव उवाच
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर।
प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहामादितः॥२४॥
उपमन्युरुवाच
ब्रह्मप्रोक्तैऱ्षिप्रोक्तैर्वेदवेदाङ्गसम्भवैः।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः॥२५॥
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना॥२६॥
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः।
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम्॥२७॥
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः।
सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम्।
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम॥२८॥
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम्।
तेन ते श्रावयिष्यामि यत् तद्ब्रह्म सनातनम्॥२९॥
न शक्यं विस्तरात् कृत्स्नं वक्तुं शर्वस्य केनचित्।
युक्तेनापि विभूतीनामपि वर्षशतैरपि॥३०॥
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते।
कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव॥३१॥
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम्।
शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः॥३२॥
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः।
यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया॥३३॥
अनादिनिधनस्याहं जगद्योनेर्महात्मनः।
नाम्नां कञ्चित् समुद्देश्यं वक्ष्याम्यव्यक्तयोनिनः॥३४॥
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः।
शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना॥३५॥
दशनामसहस्राणि यान्याह प्रपितामहः।
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम्॥३६॥
गिरेः सारं यथा हेम पुष्पसारं यथा मधु।
घृतात् सारं यथा मण्डस्तथैतत् सारमुद्धृतम्॥३७॥
सर्वपापापहमिदं चतुर्वेदसमन्वितम्।
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना॥३८॥
सर्वभूतात्मभूतस्य हरस्यामिततेजसः।
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु।
यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि॥३९॥
ध्यानम्
शान्तं पद्मानस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रम्
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम्।
नागं पाशं घण्टां प्रलयहुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि॥
स्तोत्रम्
ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः॥१॥
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः॥२॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः॥३॥
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः॥४॥
महारूपो महाकायो वृषरूपो महायशाः।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः॥५॥
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः।
पवित्रं च महांश्चैव नियमो नियमाश्रितः॥६॥
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः॥७॥
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः।
अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः॥८॥
महातपा घोरतपा अदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः॥९॥
योगी योज्यो महाबीजो महारेता महाबलः।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः॥१०॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः।
विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः॥११॥
गणकर्ता गणपतिर्दिग्वासाः काम एव च।
मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः॥१२॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान्।
अशनी शतघ्नी खड्गी पट्टिशी चऽऽयुधी महान्॥१३॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः।
उष्णिषी च सुवक्त्रश्च उदग्रो विनतस्तथा॥१४॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च।
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः॥१५॥
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः॥१६॥
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः।
अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः॥१७॥
गजहा दैत्यहा कालो लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः॥१८॥
कालयोगी महानादः सर्वकामश्चतुष्पथः।
निशाचरः प्रेतचारी भूतचारी महेश्वरः॥१९॥
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः॥२०॥
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः॥२१॥
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः।
दक्षयागापहारी च सुसहो मध्यमस्तथा॥२२॥
तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः॥२३॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः।
सुतीक्ष्णदशनश्चैव महाकायो महाननः॥२४॥
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित्॥२५॥
विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः॥२६॥
उग्रतेजा महातेजा जन्यो विजयकालवित्।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च॥२७॥
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धजो बली।
वैणवी पणवी ताली खली कालकटङ्कटः॥२८॥
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः॥२९॥
विमोचनः सुसरणो हिरण्यकवचोद्भवः।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा॥३०॥
सर्वतूर्यविनोदी च सर्वातोद्यपरिग्रहः।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित्॥३१॥
त्रिदशस्त्रिकालधृक् कर्मसर्वबन्धविमोचनः।
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः॥३२॥
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः।
प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित्॥३३॥
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः।
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः॥३४॥
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः।
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः॥३५॥
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः।
सर्वकालप्रसादश्च सुबलो बलरूपधृक्॥३६॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः॥३७॥
रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी।
वसुवेगो महावेगो मनोवेगो निशाचरः॥३८॥
सर्ववासी श्रियावासी उपदेशकरोऽकरः।
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः॥३९॥
पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः॥४०॥
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः॥४१॥
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः।
महासेनो विशाखश्च षष्ठिभागो गवां पतिः॥४२॥
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः॥४३॥
वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः।
ब्रह्मचारी लोकचारी सर्वचारी विचारवित्॥४४॥
ईशान ईश्वरः कालो निशाचारी पिनाकवान्।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः॥४५॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः॥४६॥
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः॥४७॥
बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः॥४८॥
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः॥४९॥
अक्षरं परमं ब्रह्म बलवच्चक्र एव च।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः॥५०॥
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्।
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः॥५१॥
महामेघनिवासी च महाघोरो वशीकरः।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः॥५२॥
वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः॥५३॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः॥५४॥
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्।
महापादो महाहस्तो महाकायो महायशाः॥५५॥
महामूर्धा महामात्रो महानेत्रो निशालयः।
महान्तको महाकर्णो महोष्ठश्च महाहनुः॥५६॥
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक्।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः॥५७॥
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः॥५८॥
महानखो महारोमो महाकोशो महाजटः।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः॥५९॥
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः॥६०॥
गण्डली मेरुधामा च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः॥६१॥
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः॥६२॥
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः।
नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः॥६३॥
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः।
नक्तं कलिश्च कालश्च मकरः कालपूजितः॥६४॥
सगणो गणकारश्च भूतवाहनसारथिः।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः॥६५॥
लोकपालस्तथा लोको महात्मा सर्वपूजितः।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः॥६६॥
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः॥६७॥
कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः॥६८॥
परश्वधायुधो देव अनुकारी सुबान्धवः।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः॥६९॥
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः॥७०॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः।
सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः॥७१॥
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः।
अमरेशो महादेवो विश्वदेवः सुरारिहा॥७२॥
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा।
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः॥७३॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः॥७४॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः।
उषङ्गुश्च विधाता च मान्धाता भूतभावनः॥७५॥
विभुर्वर्णविभावी च सर्वकामगुणावहः।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः॥७६॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः॥७७॥
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः।
देवदेवः सुखासक्तः सदसत् सर्वरत्नवित्॥७८॥
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः॥७९॥
वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः।
सारग्रीवो महाजत्रुरलोलश्च महौषधः॥८०॥
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः॥८१॥
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः॥८२॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥८३॥
वाहिता सर्वभूतानां निलयश्च विभुर्भवः।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः॥८४॥
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः॥८५॥
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः॥८६॥
गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः॥८७॥
महाकेतुर्महाधातुर्नैकसानुचरश्चलः।
आवेदनीय आदेशः सर्वगन्धसुखावहः॥८८॥
तोरणस्तारणो वातः परिधीः पतिखेचरः।
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः॥८९॥
नित्यमात्मसहायश्च देवासुरपतिः पतिः।
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः॥९०॥
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः॥९१॥
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः।
अक्षश्च रथयोगी च सर्वयोगी महाबलः॥९२॥
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः॥९३॥
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित्।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः॥९४॥
आरोहणोऽधिरोहश्च शीलधारी महायशाः।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः॥९५॥
युगरूपो महारूपो महानागहनो वधः।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः॥९६॥
बहुमालो महामालः शशी हरसुलोचनः।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः॥९७॥
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः॥९८॥
निवेदनः सुखाजातः सुगन्धारो महाधनुः।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम्॥९९॥
मन्थानो बहुलो वायुः सकलः सर्वलोचनः।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान्॥१००॥
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः॥१०१॥
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः॥१०२॥
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः॥१०३॥
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान्।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः॥१०४॥
गभस्तिर्ब्रह्मकृद्-ब्रह्मी ब्रह्मविद्-ब्राह्मणो गतिः।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः॥१०५॥
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः॥१०६॥
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक्।
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः॥१०७॥
वरो वराहो वरदो वरेण्यः सुमहास्वनः।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः॥१०८॥
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृक्।
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः॥१०९॥
चराचरात्मा सूक्ष्मात्मा ह्यमृतो गोवृषेश्वरः।
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः॥११०॥
व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः।
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः॥१११॥
कलाः काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः॥११२॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥११३॥
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः।
देवासुरविनिर्माता देवासुरपरायणः॥११४॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः।
देवासुरमहामात्रो देवासुरगणाश्रयः॥११५॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः॥११६॥
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः॥११७॥
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः॥११८॥
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः॥११९॥
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः॥१२०॥
अभिरामः सुरगणो विरामः सर्वसाधनः।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः॥१२१॥
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः॥१२२॥
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत्॥१२३॥
श्रीमान् श्रीवर्धनो जगत् ओं नम इति।
उत्तरभागः
यथा प्रधानं भगवान् इति भक्त्या स्तुतो मया।
यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः॥१॥
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम्।
भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः॥२॥
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः।
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना॥३॥
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम्।
स्तूयमानो महादेवस्तुष्यते नियमात्मभिः॥४॥
भक्तानुकम्पी भगवान् आत्मसंस्थाकरो विभुः।
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः॥५॥
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः।
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम्॥६॥
कर्मणा मनसा वाचा भावेनामिततेजसः।
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा॥७॥
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः।
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम्॥८॥
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च।
जन्मकोटिसहस्रेषु नानासंसारयोनिषु॥९॥
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते।
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः॥१०॥
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा।
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते॥११॥
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी।
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्।
येन यान्ति परां सिद्धिं तद्भावगतचेतसः॥१२॥
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम्।
प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत्॥१३॥
एवम् अन्ये विकुर्वन्ति देवाः संसारमोचनम्।
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम्॥१४॥
इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः।
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना॥१५॥
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्।
गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ॥१६॥
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्।
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा॥१७॥
एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम्।
या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा॥१८॥
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ।
अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम्॥१९॥
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम्।
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे॥२०॥
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्।
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि॥२१॥
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः।
वैवस्वताय मनवे गौतमः प्राह माधव॥२२॥
नारायणाय साध्याय समाधिष्ठाय धीमते।
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः॥२३॥
नाचिकेताय भगवान् आह वैवस्वतो यमः।
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत॥२४॥
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन।
तवाप्यहम् अमित्रघ्न स्तवं दद्यां ह्यविश्रुतम्॥२५॥
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम्।
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः।
पिशाचा यातुधानाश्च गुह्यका भुजगा अपि॥२६॥
यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः।
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत्॥२७॥
जैगीषव्य उवाच
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा।
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर॥२८॥
वाराणस्यां युधिष्ठिर ओं नम इति।
गर्ग उवाच
चतुःषष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम्।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव॥२९॥
मनोयज्ञेन पाण्डव ओं नम इति।
वैशम्पायन उवाच
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः।
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः।
उपमन्युर्मयि प्राह तपन्निव दिवाकरः॥३०॥
अशुभैः पापकर्माणो ये नराः कलुषीकृताः।
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः।
ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः॥३१॥
एवमेव महादेव भक्ता ये मानवा भुवि।
न ते संसारवशगा इति मे निश्चिता मतिः॥३२॥
इति मे निश्चिता मतिः ओं नम इति।
दुःस्वप्न-दुःशकुन-दुर्गति-दौर्मनस्य
दुर्भिक्ष-दुर्व्यसन-दुःसह-दुर्यशांसि।
उत्पात-ताप-विषभीतिम् असद्-ग्रहार्तिम्
व्याधींश्च नाशयतु मे जगतामधीशः॥
॥ इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्याम् आनुशासनिकपर्वणि अष्टादशोऽध्यायः ॥
