॥ गणाष्टकम् ॥
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम्॥१॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम्।
बालेन्दुशकलं मौलौ वन्देऽहं गणनायकम्॥२॥
चित्ररत्न-विचित्राङ्ग-चित्रमालाविभूषितम्।
कामरूपधरं देवं वन्देऽहं गणनायकम्॥३॥
मूषकोत्तमम् आरुह्य देवासुरमहाहवे।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम्॥४॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम्।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम्॥५॥
यक्षकिन्नर-गन्धर्व-सिद्ध-विद्याधरैः सदा।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम्॥६॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम्।
भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम्॥७॥
सर्वविघ्नकरं देवं सर्वविघ्नविवर्जितम्।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम्॥८॥
गणाष्टकमिदं पुण्यं यः पठेत् सततं नरः।
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत्॥
॥ इति गणाष्टकम् ॥
