॥ विघ्नेश्वरप्रार्थना ॥
॥ गणेश प्रार्थना ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥
अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥ २ ॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥ ३ ॥
यं ब्रह्म वेदान्तविदो वदन्ति
परे प्रधानं पुरुषं तथाऽन्ये।
विश्वोद्गतेः कारणमीश्वरं वा
तस्मै नमो विघ्नविनायकाय ॥ ४ ॥
गजाननं भूतगणादिसेवितं
कपित्थजम्बूफलसारभक्षितम्।
उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वरपादपङ्कजम् ॥ ५ ॥
मूषकवाहन मोदकहस्त
चामरकर्ण विलम्बितसूत्र।
वामनरूप महेश्वरपुत्र
विघ्नविनायक पाद नमस्ते ॥ ६ ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ ७ ॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः ॥ ८ ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ९ ॥
॥ इति गणेशप्रार्थना ॥
