॥ श्री आञ्जनेयाष्टोत्तरशतनामस्तोत्रम् ॥

॥ श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम् ॥

आञ्जनेयो महावीरो हनुमान् मारुतात्मजः।
तत्त्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः॥ १॥

अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः।
सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः॥२॥

परविद्यापरीहर्ता परशौर्यविनाशकः।
परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः॥३॥

सर्वग्रहविनाशी च भीमसेनसहायकृत्।
सर्वदुःखहरः सर्वलोकचारी मनोजवः॥४॥

पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान्।
सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मिकस्तथा॥५॥

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः।
बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः॥६॥

कपिसेनानायकश्च भविष्यच्चतुराननः।
कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान्॥७॥

चञ्चलद्वालसन्नद्धो लम्बमानशिखोज्ज्वलः।
गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः॥८॥

कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः।
सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान्॥९॥

वानरः केसरीसूनुः सीताशोकनिवारणः।
अञ्जनागर्भसम्भूतो बालार्कसदृशाननः॥१०॥

विभीषणप्रियकरो दशग्रीवकुलान्तकः।
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः॥११॥

चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः।
अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः॥१२॥

लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः।
गन्धमादनशैलस्थो लङ्कापुरविदाहकः॥१३॥

सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः ।
सुरार्चितो महातेजो रामचूडामणिप्रदः॥१४॥

कामरूपी पिङ्गलाक्षो वर्धिमैनाकपूजितः।
कबलीकृतमार्ताण्डमण्डलो विजितेन्द्रियः॥१५॥

रामसुग्रीवसन्धाता महिरावणमर्दनः।
स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः॥१६॥

चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः।
सञ्जीवननगाहर्ता शुचिर्वाग्मी धृतव्रतः॥१७॥

कालनेमिप्रमथनो हरिमर्कटमर्कटः।
दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहः॥१८॥

योगी रामकथालोलः सीतान्वेषणपण्डितः।
वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः॥१९॥

इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः।
पार्थध्वजाग्रसंवासी शरपञ्जरहेलकः॥२०॥

दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः।
सीतासमेतश्रीरामपादसेवाधुरन्धरः॥२१॥

॥  इति श्री आञ्जनेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page