॥ आपदुद्धारकद्वादशमुखहनुमान् स्तोत्रम् ॥

ओं अस्य श्री आपदुद्धारकद्वादशमुखहनुमान् स्तोत्रमहामन्त्रस्य विभीषण ऋषिः।
अनुष्टुप् छन्दः। श्री द्वादशमुख-प्रचण्ड-हनुमान् देवता। मारुतात्मज इति बीजम्। अञ्जनासूनुरिति शक्तिः।
वायुपुत्रेति कीलकम्। श्रीहनुमत्प्रसादसिद्धिद्वारा सर्वापन्निवारणार्थे जपे विनियोगः।

ध्यानम्

उष्ट्रारूढ-सुवर्चलासहचरन् सुग्रीवमित्राञ्जना-
सूनो वायुकुमार केसरितनूजाऽक्षादिदैत्यान्तक।
सीतशोकहराग्निनन्दन सुमित्रासम्भवप्राणद
श्रीभीमाग्रज शम्भुपुत्र हनुमान् सूर्यास्य तुभ्यं नमः॥

खड्गं खेटकभिन्दिपालपरशुं पाशत्रिशूलद्रुमान्
चक्रं शङ्खगदाफलाङ्कुशसुधाकुम्भान् हलं पर्वतम्।
टङ्कं पर्वतकार्मुकाहिडमरूनेतानि दिव्यायुधान्
एवं विंशतिबाहुभिश्च दधतं ध्यायेत् हनूमत्प्रभुम्॥

स्तोत्रम्
ओं नमो भगवते तुभ्यं नमो मारुतसूनवे।
नमः श्रीरामभक्ताय श्यामास्याय च ते नमः॥१॥

नमो वानरवीराय सुग्रीवसख्यकारिणे।
लङ्काविदाहकायाथ हेलासागरतारिणे॥२॥

सीताशोकविनाशाय राममुद्राधराय च।
रावणस्य कुलच्छेदकारिणे ते नमो नमः॥३॥

मेघनादमखध्वंसकारिणे ते नमो नमः।
अशोकवनविध्वंसकारिणे भयहारिणे॥४॥

वायुपुत्राय वीराय आकाशोदरगामिने।
वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने॥५॥

ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे।
सौमित्रिजयदात्रे च रामदूताय ते नमः॥६॥

अक्षस्य वधकर्त्रे च ब्रह्मशक्तिनिवारिणे।
लक्ष्मणाङ्गमहाशक्ति-घात-क्षत-विनाशिने॥७॥

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः।
ऋक्षवानरवीरौघ-प्राणदायक ते नमः॥८॥

परसैन्यबलघ्नाय शस्त्रास्त्रविघनाय च।
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः॥९॥

महाभयरिपुघ्नाय भक्तत्राणैककारिणे।
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे॥१०॥

पयः-पाषाण-तरण-कारणाय नमो नमः।
बालार्कमण्डलग्रासकारिणे भवतारिणे॥११॥

नखायुधाय भीमाय दन्तायुधधराय च।
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे॥१२॥

प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने।
करालशैलशस्त्राय द्रुमशस्त्राय ते नमः॥१३॥

बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च।
विहङ्गमाय शर्वाय वज्रदेहाय ते नमः॥१४॥

कौपीनवाससे तुभ्यं रामभक्तिरताय च।
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने॥१५॥

कृत्या-क्षत-व्यथघ्नाय सर्वक्लेशहराय च।
स्वाम्याज्ञा-पार्थसङ्ग्राम-सङ्ख्ये सञ्जयधारिणे॥१६॥

भक्तानां दिव्यवादेषु सङ्ग्रामे जयदायिने।
किलकिल्याबूबुरोच्चघोरशब्दकराय च॥१७॥

सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे।
सदा वनफलाहार-सत्तृप्ताय विशेषतः।
महार्णव-शिला-बद्ध-सेतवे ते नमो नमः॥१८॥

वादे विवादे सङ्ग्रामे भये घोरे महावने।
सिंहव्याघ्रादि चौरेभ्यः स्तोत्रपाठाद्भयं न हि॥१९॥

दिव्ये भूतभये व्याधौ गृहे स्थावरजङ्गमे।
राजशस्त्रभये चोग्रबाधा ग्रहभयेषु च॥२०॥

जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे।
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः।
तस्य क्वापि भयं नास्ति हनुमत् स्तवपाठतः॥२१॥

सर्वथा वै त्रिकालं च पठनीयमिमं स्तवम्।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा॥२२॥

विनतायाः स्वमातुश्च दासीत्वस्य निवृत्तये।
सुधार्णं यातुकामाय महापौरुषशालिने॥२३॥

विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम्।
ये पठन्ति सदा भक्त्या सिद्धयस्तत्करे स्थिताः॥२४॥

॥  इति श्रीसुदर्शनसंहितायां श्रीविभीषणगरुडसंवादे श्रीविभीषणकृतमापदुद्धारक श्रीद्वादशमुखहनुमान् स्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page