॥ पञ्चायुधस्तोत्रम् ॥
पञ्चायुधस्तोत्रम्
स्फुरत्सुहस्रार शिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम्।
सुरद्विषां प्राणविनाशि विष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिल पूरितस्य यस्य ध्वनिर्दानव दर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटि शुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां कौमोदकी दैत्यकुलैकहंत्रीम्।
वैकुंठ वामाग्र कराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
रक्षोऽसुराणां कठिनोग्र कण्ठछेदक्षरच्छोणितदिग्धधारम्।
तं नंदकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
यज्ज्यानिनाद श्रवणात्सुराणां चेतांसि निर्मुक्त भयानि सद्यः।
भवन्ति दैत्याशनि बाणवर्षि शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरे पञ्चमहायुधानां स्तवं पठेत् योऽनुदिनं प्रभाते।
समस्त दुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु ।
इदं पठन् स्तोत्र मनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः॥ ७ ॥
सशंखचक्रं सगदाऽसि शार्ङ्गं पीतांबरं कौस्तुभवत्स चिह्नम्।
श्रिया समेतोज्ज्वलशोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये ॥ ८ ॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः॥ ९ ॥
॥ इति पञ्चायुधस्तोत्रम् ॥
