|| सरस्वती स्तुतिः ||

॥ सरस्वती स्तुतिः ॥

तव नाैमि सरस्वती

रविरुद्रपितामहविष्णुनुतं
हरिचन्दनकुंकुमपंकयुतम् ।
मुनिवृन्दगणेन्द्रसमानयुतं
तव नौमि सरस्वति! पादयुगम्॥

शशिशुद्धसुधाहिमधामयुतं
शरदम्बरबिम्बसमानकरम्।
बहुरत्नमनोहरकान्तियुतं
तव नौमि सरस्वति! पादयुगम्॥

कनकाब्जविभूषितभूतिभवं
भवभावविभावितभिन्नपदम्।
प्रभुचित्तसमाहितसाधुपदं
तव नौमि सरस्वति! पादयुगम्॥

भवसागरमज्जनभीतिनुतं
प्रतिपादितसन्ततिकारमिदम्।
विमलादिकशुद्धविशुद्धपदं
तव नौमि सरस्वति! पादयुगम्॥

मतिहीनजनाश्रयपारमिदं
सकलागमभाषितभिन्नपदम्।
परिपूरितविश्वमनेकभवं
तव नौमि सरस्वति! पादयुगम्॥

परिपूर्णमनोरथधामनिधिं
परमार्थविचारविवेकविधिम्।
सुरयोषितसेवितपादतलं
तव नौमि सरस्वति! पादयुगम्॥

सुरमौलिमणिद्युतिशुभ्रकरं
विषयादिमहाभयवर्णहरम्।
निजकान्तिविलोमितचन्द्रशिवं
तव नौमि सरस्वति! पादयुगम्॥

गुणनैककुलस्थितिभीतिपदं
गुणगौरवगर्वितसत्यपदम्।
कमलोदरकोमलपादतलं
तव नौमि सरस्वति! पादयुगम्॥

॥  सरस्वतीस्तुति समाप्तम् ॥

You cannot copy content of this page