॥ स्वागतगीतम् त्वदीयं स्वागतं कुर्मः ॥

स्वागतगीतम् 

रचना – श्रीवासुदेवद्विवेदी शास्त्री

महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः।
गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।।

दिनं नो धन्यतममेतत्, इयं मङ्गलमयी वेला।
वयं यद्बालका एते, त्वदीयं स्वागतं कुर्मः।।

न काचिद् भावना भक्तिः, न काचित् साधना शक्तिः।
परं श्रद्धाकुसुमाञ्जलिभिः, त्वदीयं स्वागतं कुर्मः।।

किमधिकं ब्रूमहे श्रीमन्, निवेदनमेतदेवैकम् ।
न बाला विस्मृतिं नेयाः, त्वदीयं स्वागतं कुर्मः।।

इति स्वागतगीतम्

You cannot copy content of this page