॥ गायत्र्यष्टकम् ॥

॥ गायत्री स्तोत्रम् ॥
॥ गायत्र्यष्टकम् ॥

सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदाम्
शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम् ।
परं शक्तिं स्रष्टुं विविधविध रूपां गुणमयीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ १॥

विशुद्धां सत्त्वस्थामखिल दुरवस्थादिहरणीं
निराकारां सारां सुविमल तपो मूर्तिमतुलाम् ।
जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ २॥

तपो निष्ठाभीष्टांस्वजनमनसन्तापशमनीं
दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् ।
वरेण्यां पुण्यां तां निखिल भव बन्धापहरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ३॥

सदाराध्यां साध्यां सुमति मति विस्तारकरणीं
विशोकामालोकां हृदयगत मोहान्धहरणीम् ।
परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ४॥

अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां
तमो हन्त्रीं-तन्त्रीं श्रुति मधुरनादां रसमयीम् ।
महामान्यां धन्यां सततकरुणाशील विभवां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ५॥

जगद्धात्रीं पात्रीं सकल भव संहारकरणीं
सुवीरां धीरां तां सुविमल तपो राशि सरणीम् ।
अनेकामेकां वै त्रिजगसदधिष्ठानपदवीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ६॥

प्रबुद्धां बुद्धां तां स्वजनमति जाड्यापहरणां
हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीम् ।
सुविद्यां निरवद्याममल गुणगाथां भगवतीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ७॥

अनन्तां शान्तां यां भजति बुध वृन्दः श्रुतिमयीं
सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः ।
सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ८॥

शुद्ध चित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम् ।
अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति ॥ ९॥

॥ इति गायत्र्यष्टकं अथवा स्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page