॥ कृष्णद्वादशनामस्तोत्रम् ॥
॥ कृष्णद्वादशनामस्तोत्रम् ॥
शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः।
अनन्तस्याप्रमेयस्य नामद्वाशकं स्तवम्॥
अर्जुनाय पुरा गीतं गोपालेन महात्मना।
द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ॥
॥ ध्यानम् ॥
जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरम्।
सकुण्डलालकं बालं गोपालं चिन्तयेदुषः॥
॥ स्तोत्रम् ॥
प्रथमं तु हरिं विद्यात् द्वितीयं केशवं तथा।
तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा॥ १॥
पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनं।
सप्तमं वासुदेवं च वराहं चाष्टमं तथा॥ २॥
नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम्।
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा॥ ३॥
एतद्द्वादशनामानि मया प्रोक्तानि फाल्गुन।
कालत्रये पठेद्यस्तु तस्य पुण्यफलं शृणु॥ ४॥
चान्द्रायणसहस्रस्य कन्यादानशतस्य च।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः॥ ५॥
॥ इति श्रीकृष्णद्वादशनामस्तोत्रं सम्पूर्णम् ॥
