॥ यमाष्टकम् ॥

॥ यमाष्टकम् ॥

श्रीनारायण उवाच

हरेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः।
साश्रुनेत्रा सपुलका यमं पुनरुवाच सा॥ १॥

सावित्र्युवाच

हरेरुत्कीर्तनं धर्म स्वकुलोद्धारकारणम्।
श्रोतॢणां चैव वक्तॢणां जन्ममृत्युजराहरम्॥२॥
दानानां च व्रतानां च सिद्धीनां तपसां परम्।
योगानां चैव वेदानां सेवनं कीर्तनं हरेः॥३॥
मुक्तत्वममरत्वं च सर्वसिद्धित्वमेव वा।
श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम्॥४॥
भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम्।
मूढां मामबलां तात वद वेदविदां वर॥५॥
शुभकर्मविपाकं च श्रुतं नॢणां मनोहरम्।
कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि॥६॥
इत्युक्त्वा सा सती ब्रह्मन् भक्तिनम्रात्मकन्धरा।
तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च॥७॥

सावित्र्युवाच

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा।
धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम्॥८॥
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम्॥९॥
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम्।
कामानुरूपकालेन तं कृतान्तं नमाम्यहम्॥१०॥
बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे।
नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम्॥११॥
विश्वे च कलयत्येव सर्वायुश्चापि सन्ततम्।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम्॥१२॥
तपस्वी वैष्णवो धर्मी यः संयमी विजितेन्द्रियः।
जीविनां कर्मफलदं तं यमं प्रणमाम्यहम्॥१३॥
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत्।
पापिनां क्लेशदो यस्य पुण्यं मित्रं नमाम्यहम्॥१४॥
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा।
यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम्॥१५॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने।
यमस्तां विष्णुभजनं कर्मपाकमुवाच ह॥१६॥
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत्।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते॥१७॥
महापापी यदि पठेन्नित्यं भक्त्या च नारद।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम्॥१८॥

॥ इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे श्री नारदनारायण-संवादे श्री तुलस्योपाख्याने श्री सावित्रीकृतयमस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page