॥श्रीवैष्णव भगवद आराधना हिंदी तथा नेपाली सहित ॥
अथ आराधना
Read In Nepali
भगवद आराधना सम्बन्धि
प्रतिष्ठा गरिएको प्रतिमा मण्डलमा रहेको घडामाथि स्थापना गर्नुपर्दछ। भगवत्सेवाका लागि आवश्यक वस्तुहरू तयार पारी एउटा घडामा शुद्ध जल भरेर त्यसमा पहिले शोषण, दहन र प्लवन गर्ने जस्तै देब्रे हत्केलामा यं (वायुबीज) लेखेर ॐ यं वायवे नमः शोषयामि भनेर जलपात्रमा घुमाउने । दाहिने हत्केलामा रम् (अग्निबीज) लेखेर ॐ रम् अग्नये नमः दाहयामि भनेर जलपात्रमा घुमाउने। फेरि देब्रे हत्केलामा व (वरुणबीज) लेखेर ॐ वं वरुणाय नमः प्लावयामि भनेर जलपात्रमा घुमाउने । अब त्यस घडाको जलमा तुलसीपत्र, गन्ध, पुष्प आदि सुगन्धित द्रव्य राखेर मूलमन्त्रको अनुसन्धान गर्दै सम्पूर्ण तीर्थको भावना गर्ने र भगवान्का अगाडि राखिएको टेबुलमा थाली राखी त्यसको आग्नेय कोणमा अर्घ्य ( भगवान्को हात धुने जल) पात्र, नैऋत्यकोणमा पाद्य ( श्रीचरण धुने जल) पात्र र वायव्यकोणमा आचमनीय (श्रीमुखमा आचमन गराउने जल ) पात्र, ईशानकोणमा स्नानीय (भगवान्लाई स्नान गराउने जल ) पात्र र मध्यभागमा शुद्धजल ( प्रत्येक उपचार पछि शुद्धि गर्नको लागि जल) पात्र राखेर पहिले अभिमन्त्रण गरेको घडाको जल पाँच कटौरीमा भरी हातले सबैलाई क्रमशः हुँदै इदमर्घ्यम्, इदं पाद्यम्, इदमाचमनीयम्, इदं स्नानीयम्, इदं शुद्धोदकम् परिकल्पयामि भन्ने । त्यसपछि अर्घ्यपात्रमा अरु चारै पात्रहरूबाट एक-एक आचमनी जल मिलाउने। अब अर्घ्यपात्रको एक आचमनी जल शिरको माथितिर विं विरजायै नमः” भन्दै विरजाको आवाहन गरेर पाँच कटौरीमा त्यो जल मिलाउने र आचमनीयमा रहेको शेषजल सबै सामग्रीमा र आफ्ना शिरमा पनि छिटेर पवित्र गर्ने ।
अनुष्ठान दीपिका
नामको पुस्तक अर्डर गर्न सम्पर्क गर्नुहोस ( 9817927029 ) मूल्य 750 मात्र )
अब
तलका श्लोकहरू पाठ गर्दै भगवान्को ध्यान गर्ने
॥ ध्यानम् ॥
सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा
जानुन्याधाय सव्येतरमितरभुजं नागभोगे निधाय ।
पश्चाद् बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
देवीभूषादिजुष्टो जनयतु जगतां शर्म वैकुण्ठनाथः॥
कूर्मादीन् दिव्यलोकान् तदनुमणिमयं मण्डपं तत्र शेषं
तस्मिन् धर्मादिपीठं तदुपरिकमलं चामरग्राहिणीश्च ।
विष्णुं देवीविभूषायुधगणमुरगं पादुके वैनतेय
सेनेशं द्वारपालान् कुमुदमुखगणान् विष्णुभक्तान् प्रपद्ये ॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥
स्वशेषभूतेन मया स्वीयैः सर्वपरिच्छदैः ।
विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥
समस्तपरिवारविशिष्टाय सर्वदिव्यमङ्गलविग्रहाय
॥ श्रीमते नारायणाय नमः ॥
नित्य भगवान्को सन्निधिमा साष्टाङ्ग गरी उठेर सर्वप्रथम माथि बताइएअनुसार अर्घ्यादि परिकल्पना गरेर भगवान्को उत्थापन र मङ्गल-आरती गर्नुपर्छ । अनि मात्र प्रार्थनाबाट क्रमशः आराधना सुरु हुन्छ। साँझको आराधना सम्पन्न गरी भगवान्लाई शयन गराउनुपर्छ ।
अथ आराधना विधिः
अथ संहार न्यासः
ॐ वां नमः पराय निवृत्यात्मने नमः उपस्थे स्पर्शः (उपस्थ स्पर्श गर्ने)
ॐ रां नमः पराय विश्वात्मने नमः हृदये स्पर्शः (हृदयमा स्पर्श गर्ने)
ॐ यां नमः पराय विश्वात्मने नमः नासिकाग्रभागे स्पर्शः (नासिकाका अग्र भागमा स्पर्श गर्ने)
ॐ षां नमः पराय परमेष्ठ्यात्मने नमः शिरसि स्पर्शः (शिरमा स्पर्शगर्ने) अथ सृष्टि न्यासः
ॐ यां नमः पराय विश्वात्मने नमः नासिकाग्रभागे स्पर्शः (नाकका अगाडि स्पर्श गर्ने)
ॐ वां नमः पराय निवृत्यात्मने नमः उपस्थे स्पर्शः (उपस्थमा छुने)
ॐ लां नमः पराय सर्वात्मने नमः पादयोः स्पर्शः (पाउमा छुने) हस्तौ प्रक्षालयेत्। (हात धुने)
ॐ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥
आगच्छ भगवन् देव स्थाने चात्र स्थिरो भव ।
यावत् पूजां करिष्यामि तावत् त्वं सन्निधौ भव ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः ।
समस्तपरिवारं श्रीमन्तं नारायणम् आवाहयामि ।
समस्तपरिवाराय श्रीमते नारायणाय नमः आसनं समर्पयामि ।
गृह्णातु सोऽर्घ्यं परिपूर्णकामः प्रसीदतां ब्रह्ममहाविभूतिः ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः हस्तयोः अर्घ्यं समर्पयामि ।
ततो विष्वङ् व्यक्क्रामत्साशनानशनेऽअभिः ॥
यो राजते यज्ञपतिश्च यज्ञे सर्वस्य लोकस्य शरण्यभूतः ।
यज्ञेश्वरो यज्ञवपुश्च विष्णुः पाद्यं प्रगृह्णातु स वासुदेवः ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः पादयोः पाद्यं समर्पयामि ।
सत्वं कुरुष्वाचमनं वरेण्य भव प्रसन्नो मयि दीननाथ ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः मुखे आचमनीयं समर्पयामि ।
समस्तपरिवाराय श्रीमते नारायणाय नमः दन्तधावनार्थे तुलसीपत्र समर्पयामि ।
तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः गण्डूषणं समर्पयामि इति त्रिवारम् आचमानीयं जलं समर्पयेत् ।
समस्तपरिवाराय श्रीमते नारायणाय नमः मुखप्रक्षालनार्थे शुद्धोदकं समर्पयामि ।
अनु- शुद्धपात्रमा चन्दनले अष्टदल बनाएर बीचमा मूलमन्त्र लेखेर त्यसमाथि तुलसीपत्र राखी वस्त्र बिच्छ्याएर त्यहाँ भगवान् (शालग्राम वा प्रतिमा) लाई राख्ने।
पशूंस्ताँश्चक्रे व्वायव्यानारण्याग्राम्याश्च ये॥
समाहृतैः स्वर्णघटैश्च स्वच्छैः स्वर्लोकस्रोतस्विनिदिव्यतीर्थैः ।
स्नानं कुरुष्वाच्युतदिव्यमूर्ते देवाग्रजानां निधनप्रदायिन् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः सर्वाङ्गे स्नानीयं समर्पयामि ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
समस्तपरिवाराय श्रीमते नारायणाय नमः दुग्धस्नानं समर्पयामि ।
समस्तपरिवाराय श्रीमते नारायणाय नमः दधिस्नानं समर्पयामि ।
दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि। (ॐ शुद्धवालः…… फेरि शुद्धजल)
घृतस्नानम् – (घ्यूले स्नान गराउने)
अनुष्वधमा वह मादयस्व स्वाहा कृतं वृषभ वक्षि हव्यम् ॥
समस्त परिवाराय श्रीमते नारायणाय नमः घृतस्नानं समर्पयामि ।
घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि। ॐ शुद्धवाल ……. फेरि शुद्धजल)
मधुस्नानम् ( महले स्नान गराउने)
ॐ मधुनक्तमुतोषसो मधुमत्पार्थिव ᳮ रजः । मधु द्यौरस्तु नः पिता ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः मधुस्नानं समर्पयामि ।
मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि। ॐ शुद्धवालः….. फेरि शुद्धजल)
शर्करास्नानम् – (सख्खरले स्नान गराउने)
इक्षुरससमुद्भूतं शर्करां पुष्टिदां शुभाम् ।
समस्त परिवाराय श्रीमते नारायणाय नमः शर्करास्नानं समर्पयामि ।
शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि। ॐ शुद्धवालः…. फेरि शुद्धजल)
छन्दा ᳩ सिजज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
वस्त्राणि गृह्णीष्व मयार्पितानि दुकूलकौशेयसुपट्टकानि ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः वस्त्रं समर्पयामि ।
उपवस्त्रम् – (उपवस्त्र अर्पण गर्ने)
ॐ सुजातो ज्योतिषा सह शर्म्म वरूथमासदत्स्वः ।
वासो अग्ने विश्वरूपसंव्ययस्व विभावसो ।
उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।
भक्त्या समर्पितं देव प्रसीद परमेश्वर ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः उपवस्त्रं समर्पयामि ।
यज्ञोपवीतम् – (जनै अर्पण गर्ने)
गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ॥
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः यज्ञोपवीतं समर्पयामि ।
ॐ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः ।
आनन्दनो यः सुमतां परात्मा तापत्रयस्योपशमश्च यस्मात् ।
तस्मै प्रयच्छामि सुचन्दनं वै काश्मीरकर्पूरविभावितं च ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः ऊर्ध्वपुण्ड्रार्थे चन्दनं समर्पयामि ।
मुखङ्किमस्यासीत्किम्बाहू किमूरू पादाऽउच्येते ॥
कदम्बजातीवकुलोद्भवानि कुशेशय श्रीतुलसीदलानि ॥
समस्त परिवाराय श्रीमते नारायणाय नमः पुष्प माला-तुलसीदलानि समर्पयामि ।
समर्पये दिव्यनभास्पदाय क्षीराब्धिजासेवितसत्पदाय ॥
समस्त परिवाराय श्रीमते नारायणाय नमः दशाङ्गधूपं समर्पयामि ।
ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायतश्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥
आदित्यचन्द्राग्निप्रकाशकाय वै सदा चिदानन्दमयाव्ययाय च ।
स्वाज्येन युक्तं शुभवर्त्तिभूषितं दीपं प्रयच्छामि तमः प्रणाशकम् ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः दीपं दर्शयामि ।
ततो घृतदधिमधुकर्पूरान्वितं मधुपर्क भगवते निवेदयेत् –
(घ्यू, दहि, मह र कपूर मिलाएर मधुपर्क समर्पण गर्ने) :
समस्तपरिवाराय श्रीमते नारायणाय नमः मधुपर्क समर्पयामि ।
(नैवेद्यमा तुलसीपत्र राखी चक्रमुद्रा र सुरभिमुद्रा देखाई मूलमन्त्र जप्दै तुलसीपत्र लिएर ग्रासमुद्राद्वारा ‘भगवान्लाई भोजन गराउँदैछु’ भन्ने भावनाले भोग लगाउने)
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये।
गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः नैवेद्य निवेदयामि ।
ॐ यत्पुरुषेण हविषा देवायज्ञमतन्वत ।
वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः ॥
एलादिपूगीफलचन्द्रसंयुतं प्रशस्तदेशोद्भवसौरभास्पदम् ।
ताम्बूलपत्र भगवन् समर्पये भवप्रवाहोपरमाय तेऽच्युत ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः ताम्बूलं समर्पयामि ।
सदाधार पृथिवीन्द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
दक्षिणा प्रेमसहिता यथाशक्तिसमर्पिता तव तुष्टिकरीमेनां गृहाण पुरुषोत्तम ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः दक्षिणां समर्पयामि ।
देवायद्यज्ञन्तन्वानाऽअबध्नन्पुरुषं पशुम् ॥
नीराजये त्वामहमप्रमेय दिव्येन दीपेन दिवप्रदेन ॥
कलितललितवनमाल जय जय देव हरे ॥१॥
दिनमणिमण्डलमण्डन भवखण्डन ए।
मुनिजनमानसहंस जय जय देव हरे ॥२॥
कालियविषधरगञ्जन जनरञ्जन ए।
यदुकुलनलिनदिनेश जय जय देव हरे ॥३॥
मधुमुरनरकविनाशन गरुडासन ए।
सुरकुलकेलिनिदान जय जय देव हरे ॥४॥
अमलकमलदललोचन भवमोचन ए ।
त्रिभुवनभवननिधान जय जय देव हरे ॥५॥
जनकसुताकृतभूषण जितदूषण ए।
समरशमितदशकण्ठ जय जय देव हरे ॥६॥
अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुखचन्द्रचकोर जय जय देव हरे ॥७॥
तव चरणे प्रणता वयमिति भावय ए ।
कुरु कुशलं प्रणतेषु जय जय देव हरे॥८॥
श्रीजयदेवकवेरिदं कुरुते च मुदम् ।
मङ्गलमुज्वललगीतं जय जय देव हरे ॥९॥
समस्तपरिवाराय श्रीमते नारायणाय नमः नीराजनं समर्पयामि ।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
तेह नाकम्महिमानः सचन्त यत्र पूर्व्वे साध्याः सन्ति देवाः ॥
समस्तपरिवाराय श्रीमते नारायणाय नमः पुष्पाञ्जलिं समर्पयामि ।
इति श्लोक त्रयोदितज्ञानिनं मां कुरूष्व ॥
ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ।
केशवादिचतुर्विंशतिनामावलिः
अर्चना गर्ने, विशेष अर्चनाहरू अर्चनावलि खण्डमा रहेका छन्
॥ चतुर्विंशतिनामावलिः॥
केशवादि चतुर्विंशतिनामावलिः
१. ॐ केशवाय नमः
२. ॐ नारायणाय नमः
३. ॐ माधवाय नमः
४. ॐ गोविन्दाय नमः
५. ॐ विष्णवे नमः
६. ॐ मधुसूदनाय नमः
७. ॐ त्रिविक्रमाय नमः
८. ॐ वामनाय नमः
९. ॐ श्रीधराय नमः
१०. ॐ हृषीकेशाय नमः
११. ॐ पद्मनाभाय नमः
१२. ॐ दामोदराय नमः
१३. ॐ सङ्कर्षणाय नमः
१४. ॐ वासुदेवाय नमः
१५. ॐ प्रद्युम्नाय नमः
१६. ॐ अनिरुद्धाय नमः
१७. ॐ पुरुषोत्तमाय नमः
१८. ॐ अधोक्षजाय नमः
१९. ॐ नारसिंहाय नमः
२०. ॐ अच्युताय नमः
२१. ॐ जनार्दनाय नमः
२२. ॐ उपेन्द्राय नमः
२३.ॐ हरये नमः
२४.ॐ श्रीकृष्णाय नमः ।
महालक्ष्मीको नामावलिः
१. ॐ श्रियै नमः
२. ॐ लक्ष्म्यै नमः
३. ॐ कमलायै नमः
४. ॐ पद्मायै नमः
५. ॐ पद्मिन्यै नमः
६. ॐ कमलालयै नमः
७. ॐ रमायै नमः
८. ॐ वृषाकव्यै नमः
९. ॐ धन्यायै नमः
१०. ॐ वृक्त्यै नमः
११. ॐ यज्ञायै नमः
१२. ॐ इन्दिरायै नमः
१३. ॐ हरिण्यै नमः
१४. ॐ हिरण्यायै नमः
१५. ॐ सत्यायै नमः
१६. ॐ नित्यानन्दायै नमः
१७. ॐ त्रय्यै नमः
१८. ॐ सुखायै नमः
१९. ॐ सुगन्धायै नमः
२०. ॐ सुन्दर्यै नमः
२१. ॐ विद्यायै नमः
२२. ॐ सुशीलायै नमः
२३. ॐ सुलक्षणायै नमः
२४. ॐ नीलायै नमः ।
१. ॐ महालक्ष्मै नमः
२. ॐ श्रीदेव्यै नमः ।
३. ॐ भूदेव्यै नमः ।
४. ॐ नीलादेव्यै नमः ।
५. ॐ रङ्गनायक्यै नमः ।
६. ॐ गोदादेव्यै नमः ।
७. ॐ श्रीगरुडाय नमः ।
८. ॐ श्रीविष्वक्सेनाय नमः ।
९. ॐ श्रीपरांकुशाय नमः ।
१०. ॐ श्रीमते रामानुजाय नमः . ।
११. ॐ श्रीमद्वरवरमुनये नमः ।
१२. ॐ स्वाचार्येभ्यो नमः ।
१३. ॐ पूर्वाचार्येभ्यो नमः ।
१. अस्मद्गुरुभ्यो नमः ।
२. अस्मत्परमगुरुभ्यो नमः ।
३. अस्मत्सर्वगुरुभ्यो नमः ।
४. श्रीमते रामानुजाय नमः।
५. श्रीपरांकुशदासाय नमः ।
६. श्रीमद्यामुनमुनये नमः ।
७. श्रीराममिश्राय नमः।
८. श्रीपुण्डरीकाक्षाय नमः ।
९. श्रीमन्नाथमुनये नमः ।
१०. ॐ श्रीमते शठकोपाय नमः।
११. श्रीमते विष्वक्सेनाय नमः।
१२. श्रियै नमः।
१३. श्रीधराय नमः ।
ॐ समस्तपरिवाराय सर्वमङ्गलविग्रहाय श्रीमते नारायणाय नमः ।
ॐ नृत्यवाद्यादिगीतादिपुराणपठनादिभिः ।
यथोपचारैः सकलैः सन्तुष्टो भव माधव ॥
चामरम् – (चमर डोलाउने)
यस्य प्रसादकलया बधिरः श्रृणोति
पङ्गुः प्रधावति जवेन च वक्ति मूकः ।
अन्धः प्रपश्यति सुतं लभते च बन्ध्या
तं देवदेववरदं शरणं प्रपद्ये ॥
जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः।
जयतु जयतु मेघश्यामलकोमलाङ्गो ज
यतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥
कर्पूरारार्तिक्यम् – (कपूर आरती गर्ने)
ॐ लक्ष्मीचरणलाक्षाङ्कसाक्षिश्रीवत्सवक्षसे ।
क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवैकुण्ठनिवासाय श्रीनिवासाय मङ्गलम् ॥
अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे ।
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥
कमलाकुचकस्तूरीकर्दमाङ्कितवक्षसे ।
यादवाद्रिनिवासाय सम्पत्पुत्राय मङ्गलम् ॥
नीलाचलनिवासाय नित्याय परमात्मने ।
सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम् ॥
स्वोच्छिष्टमालिकाबंधगंधबंधुरजिष्णवे ।
विष्णुचित्ततनूजायै गोदायै नित्यमङ्गलम् ॥
श्रीनगर्यां महापुर्यां ताम्रपर्ण्यत्तरे तटे ।
श्रीतित्रिणीमूलधाम्ने शठकोपाय मङ्गलम् ॥
शेषो वा सैन्यनाथो वा श्रीपतिर्वेति सात्त्विकैः ।
वितर्क्याय महाप्राज्ञैर्भाष्यकाराय मङ्गलम् ॥
तुलामूलावतीर्णाय तोषिताखिलसूरये ।
सौम्यजामातृमुनये शेषांशायास्तु मङ्गलम् ॥
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥
ॐ समस्तपरिवारविशिष्टाय श्रीमते नारायणाय नमः ।
दर्पणप्रदर्शनम् – (भगवान्लाई ऐना देखाउने)
अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः –
अपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥
साष्टाङ्गप्रणामः (साष्टाङ्ग गर्ने)
न धर्मनिष्ठोऽस्मि न चात्मवेदी
न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिः शरण्य
त्वत्पादमूलं शरणं प्रपद्ये ॥
नारायण दयासिन्धो वात्सल्यगुणसागर ।
एनं रक्ष जगन्नाथ बहुजन्मापराधीनम् ॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥
ॐ समस्तपरिवारविशिष्टाय श्रीमते नारायणाय नमः ॥
यसको स्रोत – आचार्य रामानुज नेपाल द्वारा संकलित अनुष्ठान दीपिका हो।
धेरै अनुष्ठानहरूको संग्रह अनुष्ठान दीपिका अर्डर गर्नु होस् – ( 9817927029 ) मूल्य 750 मात्र
