॥ श्रीरुद्रयामले तन्त्रे उमाहरसंवादे दशविद्यारहस्ये महासरस्वतीसहस्रनामस्तोत्रम् ॥

॥ महासरस्वतीसहस्रनामस्तोत्रम् ॥

देव्युवाच ।
भगवन् देवदेवेश शरणागतवत्सल ।
वागेश्या नामसाहस्रां कथयस्वानुकम्पया ॥ १॥

भैरव उवाच ।
श‍ृणु देवि प्रवक्ष्यामि नामसाहस्रामुत्तमम् ।
प्रकाश्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ २॥

महापातककोटीनां परमैश्वर्यदायकम् ।
सर्वागमरहस्याढ्यं देवानामपि दुर्लभम् ॥ ३॥

समस्तशोकशमनं मूलविद्यामयं परम् ।
सर्वमन्त्रमयं दिव्यं भोगमोक्षफलप्रदम् ॥ ४॥

देवीसरस्वतीनामसहस्रं पापनाशनम् ।

अस्य श्रीसरस्वतीसहस्रनामस्तोत्रस्य श्रीकण्वऋषिः विराट् छन्दः
श्रीसरस्वती देवता ॐ बीजं ह्रीं शक्तिः ऐं कीलकं
श्रीभोगापवर्गसिद्ध्यर्थे जपे पाठे विनियोगः ।

ॐ ह्रीं ऐं ह्रीं महावाणी विद्या विद्येश्वरी तथा ॥ ५॥

सरस्वती च वागीशा देवी श्रीभगमालिनी ।
महाविद्या महामाता महादेवो महेश्वरी ॥ ६॥

वेणा वेणमुखी भव्या कुलाकुलविचारिणी ।
अमूर्तामूर्तरूपा च विद्या चैकादशाक्षरी ॥ ७॥

स्वरूपा निर्गुणा सत्त्वा मदिरारुणलोचना ।
साध्वो शूलवती शाला सुधाकलशधारिणी ॥ ८॥

खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता ।
धराधरेन्द्रजनिता दक्षिणा दक्षजा दया ॥ ९॥

दयावती महामेधा मोदिनी बोधिनी गदा ।
गदाधरार्चिता गोपा गङ्गा गोदावरी गया ॥ १०॥

महाप्रभावसहिता महामेधा महाधृतिः ।
महामोहा महातुष्टिः महापुष्टिर्महायशाः ॥ ११॥

वरप्रदा वीरगम्या वीरमाता वसुन्धरा ।
वयोधाना वयस्या च वीरभूर्वीरनन्दिनी ॥ १२॥

बाला सरस्वती लक्ष्मीः दुर्गा दुर्गतिहारिणी ।
खेटकायुधहस्ता च खरेशी खरसन्निभा ॥ १३॥

शरीरशीर्षमध्यस्था वैखरी च खरेश्वरी ।
वेद्या वेदप्रिया वैद्या चामुण्डा मुण्डधारिणी ॥ १४॥

मुण्डमालार्चिता मुद्रा क्षोभनाकर्षणक्षमा ।
ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ १५॥

रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी ।
नारसिंही भैरवेशी भैरवाकारभीषणा ॥ १६॥

नानालङ्कारशोभाढ्या नागयज्ञोपवीतिनी ।
वाणो वेणामुखी वीरा वीरेशो वीरमर्दिनी ॥ १७॥

वीरारण्यकभाव्या च वैरहा शत्रुघातिनी ।
वेदा वेदमयी विद्या विधातृवरदा विभा ॥ १८॥

बटुकी बटुकेशी च वसुधा वसुधारिणी ।
वटुप्रिया वामनेत्रा लास्यहास्यैकवल्लभा ॥ १९॥

अरूपा निर्गुणा सत्या भवानी भवमोचिनी ।
संसारतारिणी तारा त्रिपुरा त्रिपुरेश्वरी ॥ २०॥

त्रिकूटा त्रिपुरेशानी त्र्यम्बकेशी त्रिलोकधृक् ।
त्रिवर्गेशी त्रयी त्र्यक्षी त्रिवर्गफलदायिनी ॥ २१॥

अतीवसुन्दरी रम्या रेवा रावप्रिया रवा ।
देवेशी देवमाता च देवी देववरप्रदा ॥ २२॥

धवप्रिया धवहरा दुष्पूरा दुःखहा धवा ।
धर्मा धर्मप्रिया धीरा धनदा धनहारिणी ॥ २३॥

श्रीः कान्तिः कमला लक्ष्मीः पद्मा पद्मप्रिया हरा ।
कमला कमलेशानी कामदा कामपालिनी ॥ २४॥

कुलका कालकूटा न काली कपालिनी शिवा ।
खड्गा खड्गधरा खेटा खेटेशी खलनाशिनी ॥ २५॥

खट्वाङ्गधारिणी ख्याता खेला खेलप्रिया सदा ।
शाम्भवी शाङ्करी शाम्बी शिवा शुभप्रियङ्करी ॥ २६॥

शिवरूपा शिवा भूताशिवहा शिवभूषणा ।
शिवदाशिवहर्त्री च शान्ता श्रद्धा प्रबोधिनी ॥ २७॥

शुभदा शुद्धरूपा च साधकानां वरप्रदा ।
जीवरूपा जीवनादा जैनमार्गप्रबोधिनी ॥ २८॥

जेता जयत्री जयदा जगदभयकारिणी ।
साङ्ख्यरूपा साङ्ख्यमुखा साङ्ख्येशी साङ्ख्यनाशिनी ॥ २९॥

साङ्ख्यदा बुद्धिदा नित्या योगमार्गप्रदर्शिनी ।
योगप्रिया योगगम्या योगेशी योगधारिणी ॥ ३०॥

योगयुजा योगयज्ञा योगज्ञा रोगनाशिनी ।
रोगप्रिया रोगहर्त्री रोगघ्नी रोगहा शिवा ॥ ३१॥

रोगराज्ञी रोगकरा रोग्यारोगप्रदा सदा ।
गङ्गा गोदावरी तापी तमसा वज्रदायिनी ॥ ३२॥

गया सरस्वती देवो गयारूपा गयाश्रया ।
गोदा गोवर्द्धनेशानी गरलाशनवल्लभा ॥ ३३॥

गां ज्ञातबीजनिलया गारुडी गरुडात्मिका ।
गतिरूपा गतिशिवा गतिका राजभासिनी ॥ ३४॥

गमनी गमकारी च गमकाभागमप्रदा ।
यमुना यामिनी यामी यमरूपा यमप्रदा ॥ ३५॥

यमेश्वरी यमी धात्री यमा यमविधारिणी ।
यमका यागविद्या च यशःपाप(?)यशःप्रदा ॥ ३६॥

यशोदा पतिसेव्या च यशा यशःप्रदा शिवा ।
वितस्ता वैतिशीरूपा विद्या विद्यावरप्रदा ॥ ३७॥

वैद्या विस्ताररूपा च वित्तरूपा वित्तेश्वरी ।
सरी सरस्वतीरूपा सारसी च शशिप्रभा ॥ ३८॥

शारदा शारहन्त्री च चारचरण्यभूषणा ।
गोदावरी गदाहस्ता गोपाला गोपवर्द्धिनी ॥ ३९॥

गोश‍ृङ्गा गारुडरूपा प्रियाप्रियकरा सदा ।
प्रीतिदा प्रीतिहन्त्री च प्रेतस्था प्रेतनाशिनी ॥ ४०॥

प्रीतिभुक्ता स्पृहा चैव प्रीतानां क्षयकारिणी ।
प्रीतेशी प्रमदा सिद्धा प्रकृष्टा प्रकृतोत्तमा ॥ ४१॥

प्रवृत्तिर्वृत्तरूपा च वृत्तदा वृत्तिनाशिनी ।
वर्त्तुला वर्त्तुलेशाती वृत्तता वर्तुलप्रदा ॥ ४२॥

अकाररूपा अमला निर्मला निर्मलेश्वरी ।
अःस्वरूपा अकारेशी पापहा पाशहारिणी ॥ ४३॥

परेशी परहारीच परापरविहारिणी ।
परदा परमेशानी परमा परमेश्वरी ॥ ४४॥

चित्तदा चित्तहारी च चित्ता चित्तप्रदा परा ।
फलदा स्फीतवक्त्रा च फकारा भीमनादिनी ॥ ४५॥

फवर्णरूपा विमला फाल्गुणी विजयप्रदा ।
फेसखस्तुरता पात्री पुत्रदा पुत्रिका प्रभा ॥ ४६॥

प्रभाकरी प्रभेशानी प्रभुरूपा प्रभुः शिवा ।
चान्द्री चन्द्रकरा चिन्ता ज्योत्स्नाजालविनाशिनी ॥ ४७॥

तोरीचण्यकवर्णा च कृशाङ्गी कुलकूजिता ।
सर्वानन्दस्वरूपा च सर्वसङ्कष्टतारिणी ॥ ४८॥

नित्या नित्यमया नन्दा भद्रा नीलसरस्वती ।
गायत्री सुचरित्रा च कौलव्रतपरायणा ॥ ४९॥

हिरण्यगर्भा भूगर्भा विश्वगर्भा यशस्विनी ।
हेमचन्दनरम्याङ्गी दिव्यैश्वर्यविभूषिता ॥ ५०॥

जगन्माता जगद्धात्री जगतामुपकारिणी ।
ऐन्द्री सौम्या तथापाप्मा ब्रह्माणी वायवी तथा ॥ ५१॥

आग्नेयी नैरृती चैव ईशानी चन्द्रिकाधिका ।
सुमेरुतनया वन्द्या सर्वेषामुपकारिणी ॥ ५२॥

लक्षजिह्वा सरोजाक्षी मुण्डस्रजविभूषणा ।
सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी ॥ ५३॥

धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगशायिनी ।
रुक्मिणी जानकी दुर्गा शून्या शून्यवती रतिः ॥ ५४॥

कामाख्या मोक्षदानन्दा नारसिंही जयप्रदा ।
महादेवरता चण्डी चण्डमुण्डविनाशिनी ॥ ५५॥

दीर्घकेशी सुकेशी च पिङ्गकेशा महाकचा ।
भवानी भवपत्नी च भवभीतिहरा शची ॥ ५६॥

पौरन्दरी तथा विष्णुमाया माहेश्वरी तथा ।
सर्वेषां जननी नित्या सर्वाङ्गी वैरिमर्दिनी ॥ ५७॥

काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा ।
सर्वसिद्धिप्रदा देवी सर्वाणी सिद्धसेविता ॥ ५८॥

योगेश्वरी योगगम्या योगा योगेश्वरप्रिया ।
ब्रह्मेशरुद्रनमिता सुरेश्वरी वरप्रदा ॥ ५९॥

त्रिवृत्तस्था त्रिलोकस्था त्रिविक्रमपदोद्भवा ।
खतारा तारिणी तारा दुर्गा सन्तारिणी परा ॥ ६०॥

सुतारिणी तारगतिर्भृतिस्तारेश्वरप्रभा ।
गुह्यविद्या महाविद्या यज्ञविद्या सुशोभना ॥ ६१॥

अध्यात्मविद्या वै पूज्या वप्रस्था परमेश्वरी ।
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च यामिनी ॥ ६२॥

गौरी वागीश्वरी गोश्रीर्गायत्री कमलोद्भवा ।
विश्वम्भरा विश्वरूपा विश्वमाता वसुन्धरा ॥ ६३॥

सिद्धिः स्वाहा स्वधा स्वस्ति सुधा सर्वार्थसाधिनी ।
इच्छा सृष्टिः धृतिर्भूतिः कीर्तिः श्रद्धा दया मतिः ॥ ६४॥

श्रुतिर्मेधा धृतिश्चैव विश्वा विबुधवन्दिता ।
अनसूया गतिर्धात्री काशश्वासहरा तथा ॥ ६५॥

प्रतिज्ञा सत्कविर्भूतिर्द्यौः प्रभा विश्वभाविनी ।
स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा ॥ ६६॥

सन्ध्या मेधा प्रभा भीमा सर्वाकाराभयप्रदा ।
काञ्ची काया महामाया मोहिनी माधवप्रिया ॥ ६७॥

सौम्या भोगा महाभोगा भोगिनी भोगदायिका ।
प्रतीची कनकप्रख्या सुवर्णकमलासना ॥ ६८॥

हिरण्यवर्णा सुश्रोणिर्हरिणी रमणी रमा ।
चन्द्रा हिरण्मयी ज्योत्स्ना रमा शोभा शुभावहा ॥ ६९॥

त्रैलोक्यसुन्दरी रामा रमा विभववाहिनी ।
पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥ ७०॥

पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता ।
महानारायणी देवी वैष्णवी वीरवन्दिता ॥ ७१॥

कालसङ्कर्षिणी घोरा तत्त्वसङ्कर्षिणी हरा ।
जगत्सम्पूरणी विश्वा महाभैरवभूषणा ॥ ७२॥

वारुणी वरदा वाच्या घण्टाकर्णप्रपूजिता ।
नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥ ७३॥

ऐन्द्री कामधनुःसृष्टिः कामयोनिर्महाप्रभा ।
वृक्षवेशा महाशक्तिः बीजशक्त्यात्मदर्शना ॥ ७४॥

गरुडारूढहृदया चान्द्री च मधुरानना ।
महोग्ररूपा वाराही नारसिंही हतापरा ॥ ७५॥

युगान्तहुतभुग्ज्वाला कराला पिङ्गला करा ।
त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥ ७६॥

महोत्कटा महारामा महाचण्डा महाशना ।
शङ्गिनी लेखिनी स्वस्था खिङ्खिनी(?) खेचरीश्वरी ॥ ७७॥

भद्रकाली चित्ररूपा कौमारी भगमालिनी ।
कल्याणी कामधुक् ज्वालामुखी चोत्पलमालिका ॥ ७८॥

बन्धूका धनदा सूर्यहृदया नागहस्तिका ।
अजिता कर्षिणी रीतिर्भुशुण्डी गरुडासना ॥ ७९॥

वैश्वानरी महामारी महाकालविभूषिता ।
महामयूरी विभवा सर्वानन्दा रतिप्रदा ॥ ८०॥

तद्गतिः पद्ममाला च वधूर्वेगविभाविनी ।
भाविनी सत्क्रिया देवसेना हिरण्यरञ्जिनी ॥ ८१॥

सहस्रदा यज्ञमाता हस्तिनादप्रबोधिनी ।
विरूपाक्षी विशालाक्षी भक्तानां जयरक्षिणी ॥ ८२॥

बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
घण्टानिनादबहुला जीमीतघननिःस्वना ॥ ८३॥

आर्या सौर्या सुमध्या च धर्मकामार्थमोक्षदा ।
भक्तार्तिशमनी भव्या भवबन्धविमोचिनी ॥ ८४॥

दीक्षा वीक्षा परोक्षा च समीक्षा वीरवत्सला ।
अतिसिद्धा सुसिद्धा च वेदविद्या धनार्चिता ॥ ८५॥

स्वदीप्तलिलिहाना च कराली विश्वपूरकी ।
चिदाकाशरुचा राज्ञी तोषिनी विन्दुमालिनी ॥ ८६॥

क्षीरधारा सजलदा स्वप्रभा च स्वरार्चिता ।
हव्यगर्भा चाज्यगर्भा जुह्वती यज्ञसम्भवा ॥ ८७॥

सर्वकामप्रभा भद्रा सुभद्रा सर्वमङ्गला ।
श्वेता सशुक्लवसना शुक्लमाल्यानुलेपना ॥ ८८॥

हंसाहितकरी हंसी हृज्जा हृत्कमलालया ।
सितातपत्रा सुश्रोणिः पद्मपत्रायतेक्षणा ॥ ८९॥

सावित्री सत्यसङ्कल्पा कामदा कामदायिनी ।
दर्शनीया दशा दक्षा स्पृश्या सेवा वराङ्गना ॥ ९०॥

भोगप्रिया भोगवती भोगीन्द्रशयनासना ।
अद्रिपुष्करिणी पुण्या पोषिणी पापसूदिनी ॥ ९१॥

श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ।
अचिन्त्यानन्तविभवा भावाभावविभाविनी ॥ ९२॥

सुश्रोणिः सर्वदेहस्था सर्वभूजनसंस्कृता ।
वाला वलाहका देवी गौतमी गोकुलालया ॥ ९३॥

तोषणी पूर्णचन्द्राभा एकानना शतानना ।
शतक्रतुप्रिया शर्मदायिनी शर्मसुन्दरी ॥ ९४॥

शिवप्रिया श्येनहस्ता सुकेशी शुक्रसुन्दरी ।
शुक्रप्रिया शुक्ररतिः शुक्रेष्टा शुक्रसुन्दरी ॥ ९५॥

शुक्रानन्दा शुक्ररसा शुक्रिणी शुक्रसूदनी ।
शोकहा शोकमालाढ्या शुक्ला शोकैकसुन्दरी ॥ ९६॥

शुक्लावासा शुक्लमुखी शोभनाश्वशुभा स्मृता ।
भगेश्वरी भगावासा भोगिनी भोगवल्लभा ॥ ९७॥

नवपीठनिवासस्था शिवदा शिवसुन्दरी ।
नवेन्द्रियैकनिलया गौरी गीर्वाणसुन्दरी ॥ ९८॥

नवगाथा रमाकाशा गाथा गुगणसुन्दरी ।
नवरत्नविभूषाढ्या ब्राह्मी ब्रह्माण्डसुन्दरी ॥ ९९॥

नवदीपैकवसना पीता पावनसुन्दरी ।
नवपन्नगहाराढ्यप्रान्ता पन्नगसुन्दरी ॥ १००॥

नवमातृक्रमोल्लासा नव्या नक्षत्रसुन्दरी ।
कलापिनी कालगम्या भयदा भयनाशिनी ॥ १०१॥

सौदामनी मेघरवा दैत्यदानवमर्दिनी ।
जगन्माता भवकरी भूतधात्री सुदुर्लभा ॥ १०२॥

धन्या धन्येश्वरी भव्या रत्नधामाशुवर्द्धिनी ।
गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥ १०३॥

दुर्गशान्तिकरी चैव तापसी मलयालया ।
आज्या च वस्त्रकौमारी खेशया कुसुमाश्रया ॥ १०४॥

जगच्छ्रीपा सिंहरथा दुर्जया खगवाहना ।
मनोभवा कामचरी सिद्धिदा सिद्धसेविता ॥ १०५॥

व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः स्वतेजसा ।
रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥ १०६॥

श्रावणे श्रुतिदा नेत्रा रसनाप्रान्तचारिणी ।
विरिञ्चिमाता विभवा वरदा ऋजुवाहना ॥ १०७॥

वीरा वीरेश्वरी वन्द्या विशोका वसुवर्धिनी ।
अनाहता कुण्डलिनी नलिनी वनवासिनी ॥ १०८॥

राजगन्धर्ववनिता सुरेन्द्रनमिता सती ।
सिनीवाली कुहू राका महोत्पलनिवासिनी ॥ १०९॥

अरुन्धती वसुमती भार्गवी विष्णुदेवता ।
मायूरी वज्रवेताली वज्रहस्ता वरानना ॥ ११०॥

अनघा धारिणी धीरा धमनी मणिभूषणा ।
राजश्रीरूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥ १११॥

जयत्री जयदा जेया स्वर्गश्रीः स्वर्गतिः सदा ।
वलाका त्वङ्करहिता विशाला दीपनी रतिः ॥ ११२॥

सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ।
अमृतस्यन्दिनी जीवजननी घटिकाश्रिता ॥ ११३॥

धूम्रा कलावती प्राणा भास्वरांशुमती शुभा ।
शुण्डाध्वनिः सती सृष्टिर्विकृष्टीरेवतीति च ॥ ११४॥

प्रायणी प्रायदा प्रख्या विश्वा पाण्डववासिनी ।
ओं ऐं ह्रीं श्रीं सरस्वती देवी चैकादशाक्षरी ॥ ११५॥

इति वाण्याः परं नाम्नां सहस्रं शिवभाषितम् ।
सर्वमन्त्रैकनिलयं सुन्दरीमानसप्रियम् ॥ ११६॥

नवतत्त्वमयं दिव्यं ब्रह्माण्डान्तसुधामयम् ।
भोगापवर्गदं पुण्यं सर्वतीर्थैकसाधकम् ॥ ११७॥

वरदं सर्वदा शान्तं ग्रहाणां शान्तिकृत् परम् ।
भूतप्रेतपिशाचानां यक्षराक्षसभीतिषु ॥ ११८॥

पठेद्वा पाठयेन्नाम्नां सहस्रं मन्त्रगर्भकम् ।
दूरादेव पलायन्ते खगेशादिव पन्नगाः ॥ ११९॥

कुष्ठादयो महारोगाः शममेष्यन्ति पाठनात् ।
साधकस्य सदा पुण्यवर्द्धनं धनवर्द्धनम् ॥ १२०॥

सर्वयज्ञैकफलदं सर्वमन्त्रैकसाधनम् ।
भूर्जत्वचि लिखेन्मन्त्री रविवारे च साधकः ॥ १२१॥

मारयेद्रिपुसङ्घातान् साधयेन्मन्त्रसञ्चयम् ।
आकर्षयेदप्सरसः उच्चाटयति वैरिणः ॥ १२२॥

पठनाच्छ्रवणात् सत्यं धारणात्साधकोत्तमः ।
इह लोके सुखी भूत्वा परत्र त्रिदिवं व्रजेत् ॥ १२३॥

पठेन्नाम्नां सहस्रं तु साधको मुच्यते भयात् ।
कल्पकोटिशतैरम्यैः कल्पकोटिशतैरपि ॥ १२४॥

प्रभावमेषां नाम्नां वै सहस्रस्य च वर्णितुम् ।
न शक्तोऽस्मि न शक्तोऽस्मि पञ्चास्ये न युतः शिवे ॥ १२५॥

अलं विस्तारमात्रेण यः पठेत् साधकोत्तमः ।
विचरेद्भुवनेऽप्येको यथाहं भैरवोत्तमः ॥ १२६॥

इति नाम्नां सहस्रं तु सर्वमन्त्रैकरूपकम् ।
वागीश्याः सर्वसर्वस्वे रहस्यं स्वर्गवासिनाम् ॥ १२७॥

गुह्यं गुप्तं सदा गोप्यं गोप्तव्यं पशुसङ्कटे ।
अदीक्षिते शठे क्रूरे निःसत्त्वे शुचिवर्जिते ॥ १२८॥

दाम्भिके च खले मूर्खे प्रमत्ते विस्मृतेऽलसे ।
गुरुशास्त्रसदाचारदूषके कलहप्रिये ॥ १२९॥

अदीक्षिताय यो ददात् कुशीलाय दुरात्मने ।
निन्दकायान्यशिष्याय स मन्त्री निरयीभवेत् ॥ १३०॥

देयं शिष्याय शान्ताय कुलीनाय कृतार्थिने ।
साधकाय समर्थाय गोपनीयं मुमुक्षुभिः ॥ १३१॥

इति श्रीरुद्रयामले तन्त्रे उमाहरसंवादे दशविद्यारहस्ये
सरस्वतीसहस्रनामस्तोत्रं समाप्तम् ।

You cannot copy content of this page