॥ ऋणमोचनमहागणपतिस्तोत्रम् ॥

॥ ऋणमोचनमहागणपतिस्तोत्रम् ॥

॥ श्रीगणेशायनमः॥
ॐ अस्य श्रीऋणमोचन महागणपतिस्त्रोत्र मंत्रस्य भगवान् शुक्राचार्याऋषि: ऋणमोचनगणपतिर्देवता ऋणमोचनार्थे जपे विनियोगः ॥

ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं ॥
महाविध्नहरं सौम्यं नमामि ऋणमुक्तये ॥१॥

महागणपतिं देवं महासत्यं महाबलं ॥
महाविध्नहरं सौम्यं नमामि ऋणमुक्तये ॥२॥

एकाक्षरं एकदंतं एकब्रह्मसनातनं ॥
एकमेवारव्दितीयं च नममि ऋणमुक्तये ॥३॥

रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं ॥
रक्तपुष्पै: पूजामानं नमामि ऋणमुक्तये ॥४॥

कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं ॥
कृष्णपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ॥५॥

पीतांबरं पीतवर्णं पीतगंधानुलेपनं ॥
पीतपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ॥६॥

धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं ॥
धूम्रपष्पै: पूज्यमानं नमामि ऋणमुक्तये ॥७॥

सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं ॥
सर्वपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ॥८॥

भद्रजातं च रुपं च पाशांकुशधरं शुभं ॥
सर्वविघ्नहरं देवं नमामि ऋणमुक्तये ॥९॥

यः पठेत् ऋणहरस्तोत्रं प्रातःकाले शुचिर्नरः ॥
षण्मासाभ्यंतरे चैव ऋणच्छेदो भविष्यति ॥१०॥

इति श्रीब्रह्मांडपुराणे ऋणमोचनमहागणपतिस्तोत्रं संपूर्णम् 

You cannot copy content of this page