॥ गणाधिपाष्टकम् ॥

गणाधिपाष्टकम्

ॐ श्रीगणेशाय नमः ।

श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः
शिवतनयः शिरोविधृतशीतमयूखशिशुः ।
अविरतकर्णतालजमरुद्गमनागमनै-
रनभिमतं (धुनोति च मुदं) वितनोति च यः ॥ १॥

सकलसुरासुरादिशरणीकरणीयपदः
करटिमुखः करोतु करुणाजलधिः कुशलम् ।
प्रबलतरान्तरायतिमिरौघनिराकरण-
प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः ॥ २॥

द्विरदमुखो धुनोतु दुरितानि दुरन्तमद-
त्रिदशविरोधियूथकुमुदाकरतिग्मकरः ।
नतशतकोटिपाणिमकुटीतटवज्रमणि-
प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः ॥ ३॥

कलुषमपाकरोतु कृपया कलभेन्द्रमुखः
कुलगिरिनन्दिनीकुतुकदोहनसंहननः ।
तुलितसुधाझरस्वकरशीकरशीतलता-
शमितनताशयज्वलदशर्मकृशानुशिखः ॥ ४॥

गजवदनो धिनोतु धियमाधिपयोधिवल-
त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम् ।
करटकटाहनिर्गलदनर्गलदानझरी-
परिमललोलुपभ्रमददभ्रमदभ्रमरः ॥ ५।

दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ-
द्दितिजचमूचमूरुमृगराडिभराजमुखः ।
प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा-
घनकुचकुम्भगाढपरिरम्भणकण्टकितः । ६।

अतुलबलोऽतिवेलमघवन्मतिदर्पहरः
स्फुरदहितापकारिमहिमा वपुषीढविधुः ।
हरतु विनायकः स विनताशयकौतुकदः
कुटिलतरद्विजिह्वकुलकल्पितखेदभरम् । ७॥

निजरदशूलपाशनवशालिशिरोरिगदा-
कुवलयमातुलुङ्गकमलेक्षुशरासकरः ।
दधदथ शुण्डया मणिघटं दयितासहितो
वितरतु वाञ्छितं झटिति शक्तिगणाधिपतिः ॥ ८॥

पठतु गणाधिपाष्टकमिदं सुजनोऽनुदिनं
कठिनशुचाकुठावलिकठोरकुठारवरम् ।
विमतपराभवोद्भटनिदाघनवीनघनं
विमलवचोविलासकमलाकरबालरविम् ॥ ९॥

इति गणाधिपाष्टकम्

You cannot copy content of this page