श्रीमयूरकविविरचितं श्रीगणेश संस्कृतमारात्रिकम्
श्रीगणेश आरती संस्कृते
जयदेव जयदेव गजमुख सुखहेतो ।
नेतर्विघ्नगणानां जाड्यर्णवसेतो ॥ ध्रुवपदम् ॥
येन भवदुपायनतां नीता नवदूर्वा
विद्यासम्पत्कीर्तिस्तेनाप्ताऽपूर्वा ।
मुक्तिर्लभ्या सुखतस्तव नित्याऽपूर्वा
धार्या जगतः स्थितये भूमौ दिवि पूर्वा ॥ जयदेव जयदेव० ॥ १॥
प्रथमनमस्कृतिभाक् त्वं तव लोकप्रथितं
दृष्टं सद्व्यवहारे गुरुभिरपि च कथितम् ।
यः कश्चन विमुखस्त्वयि निजसिद्धेःपथि तं
विविधा विघ्ना भगवन् कुर्वन्ति व्यथितम् ॥ जयदेव जयदेव० ॥ २॥
बालं सकृदनुसरति त्वद्दृष्टिश्चेत्ता
मनुरासीमिव दास्यो विद्याः स हि वेत्ता ।
पविपाणिरिव परं परपक्षाणां भेत्ता
भवति मयूरोऽहेरिव मोहस्यच्छेत्ता ॥ जयदेव जयदेव० ॥ ३॥
इति श्रीमयूरकविविरचितं श्रीगणेश संस्कृतमारात्रिकम्
