नारदमुनिना प्रोक्ता गणेशस्तुतिः

गणेशस्तुतिः

नारद उवाच
नमामि गणनाथं तं सर्वविघ्नविनाशिनम् ।
वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥

मनोवाणीविहीनं नो मनोवाणीमयं न च ।
ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥

त्वद्दर्शनेन हेरम्ब! कृतकृत्योऽहमञ्जसा ।
इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥

नमो नमो गणेशाय विघ्नराजाय ते नमः ।
भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४॥

अमेयमायया चैव संयुक्ताय नमो नमः ।
योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५॥

विनायकाय सर्वेश! नमश्चिन्तामणे नमः ।
अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६॥

एकदन्ताय देवाय मायिभ्यो मोहदाय ते ।
नमो नमः परेशाय परात्परतमाय ते ॥ ४७॥

निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे ।
महाऽऽखुवाहनायैव मूषकध्वजधारिणे ॥ ४८॥

अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये ।
हर्ते कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९॥

त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् ।
मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५०॥

न भिन्नं परिपश्यामि त्वदृते गणनायक ! ।
शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१॥

भक्तिं देहि गणाधीश! परां त्वत्पादपद्मयोः ।
कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२॥

इत्युक्ता विररामाथ तं पुनर्गणपोऽवदत् ।
मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३॥

न योगाच्चलनं क्वापि भविष्यति महामुने ! ।
सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४॥

त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५॥

इत्युक्ता तस्य हृदये ययौ लीनो गजाननः ।
सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६॥

इत्याख्यानं नारदीयं कथितं ते प्रजापते! ।
श‍ृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७॥

इति नारदमुनिना प्रोक्ता गणेशस्तुतिः

You cannot copy content of this page