सङ्कष्टहरणं गणेशाष्टकम् अथवा वक्रतुण्डस्तोत्रम्

सङ्कष्टहरणं गणेशाष्टकम् अथवा वक्रतुण्डस्तोत्रम्

श्रीगणेशाय नमः ।
ॐ अस्य श्रीसङ्कष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता,
संकष्टहरणार्थ जपे विनियोगः ।

ध्यानम्
ॐ ॐ ॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं
त्रैगुण्यातीतनीलं कलयति मनसस्तेजसिन्दूरमूर्तिम् ।
योगीन्द्रैर्ब्रह्मरन्ध्रैः सकलगुणमयं श्रीहरेन्द्रेण सङ्गं
गं गं गं गं गणेशं गजमुखमभितो व्यापकं चिन्तयन्ति ॥ १॥

वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं
क्रं क्रं क्रं क्रोधमुद्रादलितरिपुबलं कल्पवृक्षस्य मूले ।
दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं
धं धं धं धारयन्तं धनदमतिघियं सिद्धिबुद्धिद्वितीयम् ॥ २॥

तुं तुं तुं तुङ्गरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान्
क्लीं क्लीं क्लींकारनाथं गलितमदमिलल्लोलमत्तालिमालम् ।
ह्रीं ह्रीं ह्रींकारपिङ्गं सकलमुनिवरध्येयमुण्डं च शुण्डं
श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिलनिधिकुलं नौमि हेरम्बबिम्बम् ॥ ३॥

लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां
शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम् ।
डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं
यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च ॥ ४॥

हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकणं कृपालुं
ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत् सर्पयज्ञोपवीतम् ।
स्वाहा हुं फट् नमोऽन्तैष्ठठठठसहितैः पल्लवैः सेव्यमानं
मन्त्राणां सप्तकोटिप्रगुणितमहिमाधारमीशं प्रपद्ये ॥ ५॥

पूर्वं पीठं त्रिकोणं तदुपरिरुचिरं षट्कपत्रं पवित्रं
यस्योर्ध्वं शुद्धरेखा वसुदल कमलं वा स्वतेजश्चतुस्रम् ।
मध्ये हुङ्कार बीजं तदनु भगवतः स्वाङ्गषट्कं षडस्रे
अष्टौ शक्तीश्च सिद्धीर्बहुलगणपतिर्विष्टरश्चाऽष्टकं च ॥ ६॥

धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं
तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम् ।
एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाऽक्षताद्यै
र्नैवेद्यैर्मोदकानां स्तुतियुतविलसद्गीतवादित्रनादैः ॥ ७॥

राजानस्तस्य भृत्या इव युवतिकुलं दासवत् सर्वदास्ते
लक्ष्मीः सर्वाङ्गयुक्ता श्रयति च सदनं किङ्कराः सर्वलोकाः ।
पुत्राः पुत्र्यः पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो
यस्येषो विघ्नराजो निवसति हृदये भक्तिभाग्यस्य रुद्रः ॥ ८॥

॥ इति सङ्कष्टहरणं गणेशाष्टकं अथवा वक्रतुण्डस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page