आपटीकरविरचितं श्रीगणेशाष्टकम् (भुजङ्गप्रयातम्)
श्रीगणेशाष्टकम्
(भुजङ्गप्रयातम्)
अविद्यानिहन्त्रे सुविद्याप्रदात्रे
नमो विघ्नहन्त्रे सदानन्ददात्रे ।
उमाकान्तपुत्राय विघ्नान्तकाय
नमस्ते नमस्तेऽन्तरायान्तकाय ॥ १॥
नमो भालचन्द्राय सिद्धिप्रदाय
चिदानन्दरूपाय दुःखान्तकाय ।
अनन्ताय शान्ताय नागान्तकाय
नमस्ते नमस्तेऽन्तरायान्तकाय ॥ २॥
नमस्ते भवानीसुपुत्राय नित्यं
नमस्ते सदा भक्तचित्तार्तिनाशिन् ।
नमस्ते प्रभो ज्ञानदात्रे नमस्ते
नमस्ते मनोवाञ् छितानन्ददाय ॥ ३॥
सुदूर्वाङ्कुरै रक्तपुष्पर्लसन्तं
सदा मोदकैर्मोदमानं गजास्यम् ।
शमीपत्रतुष्टं सुगन्धप्रियं त्वां
भवाम्भोधिमग्नो भवन्तं भजेऽहम् ॥ ४॥
अनाथार्तिनाशिन् पुरारातिपुत्र
मयूरेश हेरम्ब हे ढुण्ढिराज ।
विनाशाय विघ्नस्य बद्धाञ्जलिस्त्वां
अहं प्रार्थये भक्तियुक्तो गणेश ॥ ५॥
त्वदीयाय भक्ताय दत्त्वा वरांस्त्वं
शुभैराशिभी रक्ष संसारसिन्धौ ।
अरे सिन्धुरारे दयाब्धे भवाब्धौ
निमग्नं विपन्नं जनं पाहि नित्यम् ॥ ६॥
गणेश त्वदीयं पदाब्जं शरण्यं
प्रसीद प्रसीद प्रभो पाशपाणे ।
वरेण्य प्रभो क्षेमदातर्नमस्ते
सदा प्रार्थये त्वामहं भक्तियुक्तः ॥ ७॥
प्रसीद प्रसीद प्रतापार्क देव
प्रसीद प्रसीदैकदन्त प्रभो त्वम् ।
प्रसीद प्रसीद प्रभो विघ्नहर्तः
प्रसीद प्रसीद प्रभो वक्रतुण्ड ॥ ८॥
भुजङ्गप्रयाते निबद्धं मया यो
गणेशाष्टकं भक्तियक्तश्च चित्ते ।
सदा ध्यायति स्तोत्रमेतत्स धन्यः
सुखं शान्तिमाप्त्वाधिगच्छेत् स पुण्यम् ॥ ९॥
सखारामसूनुर्महादेवशर्मा
लिखित्वा गणेशाष्टकं भक्तियुक्तः ।
परां शान्तिमाप्नोद् विनाशं विपत्ते-
र्मनोवाञ्छितं श्रीगणेशकृपातः ॥ १०॥
इति श्री आपटीकरविरचितं श्रीगणेशाष्टकम् सम्पूर्णम् ।
