श्रीरुद्रयामले श्रीविनायकस्तवराजः

श्रीविनायकस्तवराजः

बीजापूरगदेक्षुकार्मुक रुजा चक्राब्जपाशोत्पल-
त्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद्भषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ १॥

नमस्ते सिद्धिलक्ष्मीश गणाधिप महाप्रभो ।
विघ्नेश्वर जगन्नाथ गौरीपुत्र जगत्प्रभो ॥ २॥

जय विघ्नेश्वर विभो विनायक महेश्वर ।
लम्बोदर महाबाहो सर्वदा त्वं प्रसीद मे ॥ ३॥

महादेव जगत्स्वामिन् मूषिकारूढ शङ्कर ।
विशालाक्ष महाकाय मां त्राहि परमेश्वर ॥ ४॥

कुञ्जरास्य सुराधीश महेश करुणानिधे ।
दशबाहो महाराज महावक्त्र चतुर्भुज ॥ ५॥

शूर्पकर्ण महाकर्ण गणनाथ प्रसीद मे ।
मातुलुङ्गधर स्वामिन् गदाचक्रसमन्वित ॥ ६॥

शङ्खशूलसमायुक्त बीजापूरसमन्वित ।
इक्षुकार्मुकसंयुक्त पद्महस्त प्रसीद मे ॥ ७॥

नानाभरणसंयुक्त रत्नकुम्भकर प्रभो ।
सर्गस्थितिलयाधीश परमात्मन् जय प्रभो ॥ ८॥

अनाथनाथ विश्वेश विघ्नसङ्घविनाशन ।
त्रयीमूर्ते सुरपते ब्रह्मविष्णुशिवात्मक ॥ ९॥

त्रयीगुण महादेव पाहि मां सर्वपालक ।
अणिमादिगुणाधार लक्ष्मीभूविष्णुपूजित ॥ १०॥

गौरीशङ्करसम्पूज्य जय त्वं गणनायक ।
रतिमन्मथसंसेव्य महीभूदारसंस्तुत ॥ ११॥

सिद्ध्याऋद्ध्यामोदादिसंसेव्य महागणपते जय ।
शङ्खपद्मादिसंसेव्य निरालम्ब निरीश्वर ॥ १२॥

निष्कलङ्क निराधार पाहि मां नित्यमव्यय ।
अनाद्य जगतामाद्य पितामहसुपूजित ॥ १३॥

धूमकेतो गणाध्यक्ष महामूषकवाहन ।
अनन्तपरमानन्द जय विघ्नेश्वरेश्वर ॥ १४॥

रत्नसिंहासनासीन किरीटेन सुशोभित ।
परात्पर परेशान परपूरुष पाहि माम् ॥ १५॥

निर्द्वन्द्व निर्गुणाभास जपापुष्पसमप्रभ ।
सर्वप्रमथसंस्तुत्य त्राहि मां विघ्ननायक ॥ १६॥

कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक ।
सर्वाभीष्टप्रद स्वामिन् सर्वप्रत्यूहनाशक ॥ १७॥

शरण्य सर्वलोकानां शरणागतवत्सल ।
महागणपते नित्यं मां पालय कृपानिधे ॥ १८॥

एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् ।
यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥ १९॥

अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् ।
वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥ २०॥

रमते देवकन्याभिः स नित्यं साधकोत्तमः ।
सर्वान् भोगान् प्रभुङ्क्तेऽसौ दुर्लभांश्च दिने दिने ॥ २१॥

सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् ।
महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥ २२॥

॥ इति श्रीरुद्रयामले श्रीविनायकस्तवराजः॥

You cannot copy content of this page