वैनायकत्रिशतीनामावलिः
वैनायकत्रिशतीनामावलिः
॥ श्री गणेशत्रिशतीनामावलिः ॥
॥ ॐ गं गणपतये नमः ॥
ॐ गणेश्वराय नमःनमः ॐ गणक्रीडायनमः ॐ गणनाथायनमः ॐ गणाधिपायनमः ॐ गजाननायनमः ॐ गणपतयेनमः ॐ नित्यानित्यायनमः ॐ निरामयायनमः ॐ निर्मलायनमः ॐ निष्कलाय ॥ १०॥
ॐ नित्याय नमःनमः ॐ नादमध्ये प्रतिष्ठितायनमः ॐ निधयेनमः ॐ निधिप्रियपतयेनमः ॐ नादातीतायनमः ॐ निधिप्रदायनमः ॐ नदीनदभुजायनमः ॐ नादजनकायनमः ॐ विघ्ननायकायनमः ॐ विनायकाय नमः ॥ २०॥
ॐ विरूपाक्षाय नमःनमः ॐ वरदायनमः ॐ विश्वपालकायनमः ॐ विघ्नकृन्निघ्नचरणायनमः ॐ गजदन्तायनमः ॐ गजध्वनयेनमः ॐ गणराजायनमः ॐ गजश्रीदायनमः ॐ गणपूज्यायनमः ॐ गणेष्टदाय नमः ॥ ३०॥
ॐ नागाननाय नमःनमः ॐ निम्ननाभयेनमः ॐ नित्यानन्दायनमः ॐ निरङ्कुशायनमः ॐ नलिनीकामुकायनमः ॐ नित्यन्नित्यानित्यावतंसितायनमः ॐ पूर्णानन्दायनमः ॐ परस्मै धाम्नेनमः ॐ परमात्मनेनमः ॐ परात्पराय नमः ॥ ४०॥
ॐ परस्मै पदाय नमःनमः ॐ पशुपतयेनमः ॐ तत्त्वम्पदनिरूपितायनमः ॐ तत्त्वानां परमाय तत्त्वायनमः ॐ तारकायनमः ॐ तारककान्तकायनमः ॐ तारकान्तरसंस्थानायनमः ॐ तारकान्तकपूर्वजायनमः ॐ हिरण्मयपुरान्तस्थायनमः ॐ हृदयालाननिश्चलाय नमः ॥ ५०॥
ॐ हृत्पद्मकर्णिकाशालिवियत्केलिसरोवराय नमःनमः ॐ हेरम्बायनमः ॐ हवनायनमः ॐ हव्यायनमः ॐ विधात्रेनमः ॐ विश्वतोमुखायनमः ॐ विकर्त्रेनमः ॐ विश्वतचक्षुषेनमः ॐ वन्द्यायनमः ॐ वेदान्तगोचराय नमः ॥ ६०॥
ॐ मदोत्कटाय नमःनमः ॐ मयूरेशायनमः ॐ मोहिनीशायनमः ॐ महाबलायनमः ॐ महागणपतयेनमः ॐ मेघनादायनमः ॐ हृत्पद्मसंस्थितायनमः ॐ हंसायनमः ॐ हस्तिपिशाचीशायनमः ॐ हृल्लेखामन्त्रमध्यगाय नमः ॥ ७०॥
ॐ हर्षाय नमःनमः ॐ हव्यकव्यभुजेनमः ॐ कपर्दिनेनमः ॐ कलभाननायनमः ॐ कर्मसाक्षिणेनमः ॐ कर्मकर्त्रेनमः ॐ कल्पायनमः ॐ कर्माग्रपूजितायनमः ॐ वक्रतुण्डायनमः ॐ विघ्नराजाय नमः ॥ ८०॥
ॐ विद्यादाय नमःनमः ॐ विजयस्थिरायनमः ॐ विश्वकर्त्रेनमः ॐ विश्वमुखायनमः ॐ कामदात्रेनमः ॐ कटङ्कटायनमः ॐ कल्पकायनमः ॐ कुमारगुरवेनमः ॐ किरीटिनेनमः ॐ कुलपालनाय नमः ॥ ९०॥
ॐ वैमुख्यहतदैत्यश्रिये नमःनमः ॐ वराहरदनायनमः ॐ वशिनेनमः ॐ वागीश्वरीपतयेनमः ॐ वाचासिद्धायनमः ॐ वायुसुकीलकायनमः ॐ नन्दिप्रियायनमः ॐ नगसुतानन्दनायनमः ॐ निजसंस्थितायनमः ॐ नष्टद्रव्यप्रदाय नमः ॥ १००॥
ॐ नादाय नमःनमः ॐ नारायणसुपूजितायनमः ॐ उच्छिष्टगणायनमः ॐ उच्छिष्टायनमः ॐ उच्छिष्टगणनायकायनमः ॐ उपेन्द्रायनमः ॐ उडुभृन्मौलयेनमः ॐ उदारत्रिदशाग्रण्येनमः ॐ पद्मप्रसन्ननयनायनमः ॐ प्रणताज्ञानमोचनाय नमः ॥ ११०॥
ॐ प्रत्यूहाज्ञानविज्ञानाय नमःनमः ॐ प्रत्यूहहिमहव्यभुजेनमः ॐ प्रत्यूहाम्भोधिकालाग्नयेनमः ॐ प्रत्यूहगरलामृतायनमः ॐ मृत्युञ्जयायनमः ॐ मुक्तिदात्रेनमः ॐ महानादायनमः ॐ मदोत्कटायनमः ॐ मदनावत्याश्रिताङ्घ्रयेनमः ॐ मुद्गरायुधधारकाय नमः ॥ १२०॥
ॐ शाकलाय नमःनमः ॐ शम्भुतनयायनमः ॐ शक्तिजायनमः ॐ शम्भुहास्यभुवेनमः ॐ शिवासुखावहायनमः ॐ शम्भुतेजोभुवेनमः ॐ शम्भुकोपघ्नेनमः ॐ वाणीजिह्वायनमः ॐ व्योमनाभयेनमः ॐ वाग्मिने नमः ॥ १३०॥
ॐ वासवनासिकाय नमःनमः ॐ वैनायकीसहचरायनमः ॐ विधृतालिसमूहकायनमः ॐ स्तवायनमः ॐ स्तुतिपरायनमः ॐ स्तव्यायनमः ॐ स्तुतितुष्टायनमः ॐ स्तुतिप्रियायनमः ॐ महालक्ष्मीप्रियतमायनमः ॐ मातुलिङ्गधराय नमः ॥ १४०॥
ॐ महते नमःनमः ॐ मदनावत्याश्रिताङ्घ्रयेनमः ॐ महाबुद्धिमनोरमायनमः ॐ मोहिनीमोहनायनमः ॐ ज्येष्ठायनमः ॐ ज्येष्ठराजायनमः ॐ जगन्मयायनमः ॐ ज्येष्ठपूजितायनमः ॐ ज्येष्ठेशायनमः ॐ ज्येष्ठराजपदे स्थिताय नमः ॥ १५०॥
ॐ षडक्षराय नमःनमः ॐ षडाधारायनमः ॐ षट्चक्रोपरिसंस्थितायनमः ॐ षडृतुकुसुमस्रग्विणेनमः ॐ षण्मुखायनमः ॐ षण्मुखाग्रजायनमः ॐ रौद्रीमुद्रितपादाब्जायनमः ॐ रुष्टचित्तप्रसादनायनमः ॐ रुद्रप्रियायनमः ॐ रुद्रपत्निपुत्राय नमः ॥ १६०॥
ॐ रुद्रशिरोधराय नमःनमः ॐ रत्नमण्डपमध्यस्थायनमः ॐ जपपूजनतोषितायनमः ॐ जप्यायनमः ॐ जपायनमः ॐ जपपरायनमः ॐ जिह्वासिंहासनप्रभवेनमः ॐ जितेन्द्रियेष्टसन्दात्रेनमः ॐ ब्रह्मेशायनमः ॐ ब्रह्मणस्पतये नमः ॥ १७०॥
ॐ ब्रह्माण्डकुम्भाय नमःनमः ॐ ब्रह्मस्थायनमः ॐ ब्रह्मचारिणेनमः ॐ बृहस्पतयेनमः ॐ हंसायनमः ॐ हरायनमः ॐ हस्तिपतयेनमः ॐ हर्षदायनमः ॐ हव्यकव्यभुजेनमः ॐ हादिविद्याशक्तिपतये नमः ॥ १८०॥
ॐ हृल्लेखामन्त्रमध्यगाय नमःनमः ॐ नामपारायणप्रीतायनमः ॐ नामनिष्ठवरप्रदायनमः ॐ नार्मदार्चनसन्तुष्टायनमः ॐ नागेन्द्रतनयायनमः ॐ नटायनमः ॐ निजानन्दसन्निषण्णायनमः ॐ बालकेलिकुतूहलिनेनमः ॐ ब्रह्ममूर्ध्नेनमः ॐ ब्रह्ममुखाय नमः ॥ १९०॥
ॐ ब्रह्माण्डावलिमेखलाय नमःनमः ॐ बृहदारण्यसंवेद्यायनमः ॐ ब्रह्मणां ब्रह्मणस्पतयेनमः ॐ मयूरनायकायनमः ॐ मायापतयेनमः ॐ मूषकवाहनायनमः ॐ मन्दारपूजनप्रीतायनमः ॐ मन्दारकुसुमप्रियायनमः ॐ मन्दारमूलसञ्जातायनमः ॐ नागभूषणभूषिताय नमः ॥ २००॥
ॐ नागहारकटीसूत्राय नमःनमः ॐ नागयज्ञोपवीतवतेनमः ॐ नागराजयोगदात्रेनमः ॐ नागकन्यासुशान्तिदायनमः ॐ नारायणार्चितपदायनमः ॐ संयोगानन्दविग्रहायनमः ॐ सृष्टिस्थितिलयक्रीडायनमः ॐ सर्वभेषजभेषजायनमः ॐ सिन्दूरितमहाकुम्भायनमः ॐ
सामगानरताय ॥ २१०॥
ॐ सुखिने नमःनमः ॐ तत्पदायनमः ॐ तत्पदाराध्यायनमः ॐ तत्पदार्थस्वरूपवतेनमः ॐ तत्त्वमस्याकृतिधरायनमः ॐ तत्त्वमस्यर्थविग्रहायनमः ॐ तत्त्वमस्यर्थसंवेद्यायनमः ॐ आनन्दमूर्तिधारकायनमः ॐ आधारपीठायनमः ॐ आमोदाय नमः ॥ २२०॥
ॐ आश्रिताभीष्टदायकाय नमःनमः ॐ आदिमध्यान्तरहितायनमः ॐ आखुराजमहारथायनमः ॐ निजभक्तप्रियतमायनमः ॐ नरनारायणार्चितायनमः ॐ नारायणश्रीपूर्वाङ्गायनमः ॐ नटराजसुपूजितायनमः ॐ निरालम्बयोगगम्यायनमः ॐ निदिध्यासवरप्रियायनमः ॐ श्रीङ्कारशक्तिसंयुक्ताय नमः ॥ २३०॥
ॐ श्रीपतये नमःनमः ॐ श्रीनिकेतनायनमः ॐ श्रीङ्कारविग्रहायनमः ॐ श्रीदायनमः ॐ सिद्धिबुद्धिविनायकायनमः ॐ विराजेनमः ॐ विश्वायनमः ॐ वेदपतयेनमः ॐ वेदकर्त्रेनमः ॐ विराट्सुताय नमः ॥ २४०॥
ॐ विराट्पतये नमःनमः ॐ ऊर्ध्वलोकगतायनमः ॐ ऊर्ध्वविनायकायनमः ॐ ऊर्जस्वतेनमः ॐ ऊष्मलमदायनमः ॐ ऊहापोहदुरासदायनमः ॐ ऊनषोडशवर्षाढ्यायनमः ॐ तिर्यग्गतिविनाशकायनमः ॐ तिथिमात्रसुसम्पूज्यायनमः ॐ स्थितिमात्रवरप्रदाय नमः ॥ २५०॥
ॐ तत्त्वेष्टदाय नमःनमः ॐ तत्त्वपतयेनमः ॐ तत्त्वातत्त्वविवेकदायनमः ॐ भीमरूपायनमः ॐ भूतपतयेनमः ॐ भूपतयेनमः ॐ भुवनेश्वरायनमः ॐ भूक्षेपदत्तलक्ष्मीकायनमः ॐ भूतिदायनमः ॐ सोमभूषणाय नमः ॥ २६०॥
ॐ स्वतन्त्राय नमःनमः ॐ सत्यसङ्कल्पायनमः ॐ सत्यसङ्कल्पदायकायनमः ॐ स्वसंवेद्यायनमः ॐ सर्वज्ञायनमः ॐ दण्डभृतेनमः ॐ दण्डनायकायनमः ॐ दक्षयज्ञप्रमथनायनमः ॐ दयावतेनमः ॐ दैत्यमोहनाय नमः ॥ २७०॥
ॐ दिव्यवैभवसन्दात्रे नमःनमः ॐ असुरकुञ्जरभेदनायनमः ॐ साक्षिणेनमः ॐ समुद्रमथनायनमः ॐ सदसद्व्यक्तिदायकायनमः ॐ
स्वसंवेद्यासम्प्रज्ञात योगगम्यायनमः ॐ दन्तप्रभिन्नाभ्रमालायनमः ॐ देवार्थनृगजाकृतयेनमः ॐ दंष्ट्रालग्नद्विप घटायनमः ॐ दैत्यवारणदारणाय ॥ २८०॥
ॐ दुरासदगर्वहराय नमःनमः ॐ दिवोदासवरप्रदायनमः ॐ नेतिकर्त्रेनमः ॐ नेतिपदायनमः ॐ नेतिब्रह्मवरप्रदायनमः ॐ नेतिस्वानन्दपददायनमः ॐ नेतिशक्तिसमन्वितायनमः ॐ नेत्यसम्प्रज्ञातमययोगलभ्यसुविग्रहायनमः ॐ ओङ्कारशक्तिसहितायनमः ॐ ओङ्कारमुखराजिताय नमः ॥ २९०॥
ॐ ओङ्कारवाच्याय नमःनमः ॐ ओङ्कारायनमः ॐ ओङ्कारपूर्णविग्रहायनमः ॐ ओङ्कारमयविश्वात्मनेनमः ॐ गङ्कारमन्त्रविग्रहायनमः ॐ गङ्कारजपसन्तुष्टायनमः ॐ गङ्कारभूमरूपवतेनमः ॐ गङ्कारायनमः ॐ गम्मन्त्रवेद्यायनमः ॐ गम्ब्रह्मस्थितिदायकाय नमः ॥ ३००॥
इति विनायकरहस्ये ग्रन्थे ज्ञानसारं प्रथमभागे
नारदादि मुनीनां सूर्यभगवता प्रोक्ता
त्रयोदशाध्यायान्तर्गता वैनायक त्रिशति नामावलिः समाप्तानमः ॐ
