श्रीदुर्गानीराजनपञ्चकम्

श्रीदुर्गानीराजनपञ्चकम्

कर्पूरेण वरेण पावकशिखा शाखायते तेजसा
वासस्तेन सुकम्पते प्रतिपलं घ्राणं मुहुर्मोदते ।
नेत्राह्लादकरं सुपात्रलसितं सर्वाङ्गशोभाकरं
दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ १॥

आदौ देवि ! ददे चतुस्तव पदे त्वं ज्योतिषा भाससे
दृष्ट्वैतन् मम मानसे बहुविधा स्वाशा जरीजृम्भते ।
प्रारब्धानि कृतानि यानि नितरां पापानि मे नाशय
दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ २॥

नाभौ द्विः प्रददे नगेशतनये ! त्वद्भा बहु भ्राजते
तेन प्रीतमना नमामि सुतरां याचेपि मे कामनाम् ।
शान्तिर्भूतिततिर्विभातु सदने निःशेषसौख्यं सदा
दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ३॥

आस्ये तेऽपि सकृद् ददे द्युतिधरे ! चन्द्राननं दीप्यते
दृष्ट्वा मे हृदये विराजति महा-भक्तिर्दयासागरे ! ।
नत्वा त्वच्चरणौ रणाङ्गनमनः ! शक्तिं सुखं कामये
दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ४॥

मातो मङ्गलसाधिके ! शुभतनौ ते सप्तकृत्वो ददे
तस्मात् तेन मुहुर्जगद्धितकरं सञ्जायते सन्महः ।
तद्भासा विपदः प्रयान्तु दुरितं दुःखानि सर्वाणि मे
दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ५॥

इति श्रीव्रजकिशोरः त्रिपाठीविरचितं श्रीदुर्गानीराजनपञ्चकम्

You cannot copy content of this page