दुर्गार्चनागीतिः
दुर्गार्चनागीतिः
जगदम्ब देवि जय जय! जगदम्ब देवि! जय जय ॥ ध्रुवम्॥
सुरसङ्घ-पूजनीया त्रैलोक्य-माननीया ।
दुःखौघनाशकर्त्री, जननी जनार्तिहर्त्री ।
दुर्गें दयां प्रदर्शय । जगदम्ब देवि! जय जय ॥ १॥
प्रथमाऽसि “शैलपुत्री” त्वं “ब्रह्मचारिणी” द्वितीया ।
त्वं चारु “चन्द्रघण्टा” संराजिता तृतीया ।
सन्मार्गमिह प्रदर्शय । जगदम्ब देवि! जय जय ॥ २॥
“कूष्माण्डजा” प्रणम्या, ब्रह्मादितोऽप्यगम्या ।
श्री “स्कन्द-मातृ”रूपा, या शक्तिशिवस्वरूपा ।
दुर्दैंवमाशु भञ्जय, जगदम्ब देवि! जय जय ॥ ३॥
“कात्यायनी” भवित्री, दनुजावलीसवित्री ।
त्वं “कालरात्रि”रेषा, दुद्धर्ष-भीम-वेषा ।
निज-भक्त-भीरूतां जय । जगदम्ब देवि! जय जय ॥ ४॥
“गौरीं” महाप्रसिद्धां, प्रणमन्ति यां सुसिद्धाः।
सा “सिद्धिदात्र्यवित्री”, कुशलेष्वलं भवित्री ।
आशां च मेऽत्र पूरय । जगदम्ब देवि! जय जय ॥ ५॥
काली करालिनी त्वं, जनलोकपालिनी त्वम् ।
लक्ष्मीसमा गिरा त्वं भक्तेष्वनुग्रहा त्वम् ।
लोकानशेषमीरय । जगदम्ब देवि! जय जय ॥ ६॥
दुर्गासि दुर्गहन्त्री क्लेशाद्यविघ्नहन्त्री ।
त्वं हे महासरस्वति, संगृह्यतां स्तवोऽयम् ।
सौभाग्यमत्र कल्पय । जगदम्ब देवि! जय जय ॥ ७॥
जननि! “द्विजेन्द्र” बालः, शरणागतोऽनवद्यः ।
नीराजनां प्रणामान्, चाङ्गीकुरुष्व सद्यः ।
विजयं विधीयतां जय । जगदम्ब देवि! जय जय ॥ ८॥
इति श्रीसरयूप्रसादशास्त्रीद्विजेन्द्रेण लिखितता दुर्गार्चनागीतिः
