श्लोकद्वयम्

(गजेन्द्रमोक्षम्:)
ग्राहग्रस्ते गजेन्द्रे रुवति सरभसंतार्क्ष्यमारूह्य धावन्
व्याघूर्णन् माल्यभूषावसन परिकरो मेघ गम्भीरघोषः।
अबिभ्राणो रथाङ्गं  शरमसिमभयं शंखचापौ सखेटौ।
हस्तैः कौमदकीमप्यवतु हरिरसावंहसां संहतेर्नः ।। १ ।।

नक्राक्रांते करीन्द्रे  मुकुळितनयने  मूलमूलेति खिन्ने
नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यत् प्रादुरासीत् स दिशतु भगवान् मंगळं संततं नः।। २ ।।

You cannot copy content of this page