अथ श्रावणीस्नानम्
अथ श्रावणीस्नानम्
श्रावणीस्नानमुपाकर्म च कदा भवतीति जिज्ञासायाम्—
“श्रावण्यां पौर्णमास्यां श्रवणयुक्तायां श्रवणरहितायां श्रावणस्य शुक्लपञ्चम्यां हस्तयुक्तायामयुक्तायां वा उपाकर्म (अध्यायोपाकर्म) भवति ।”
“ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्यां पञ्चमी हस्तेन वा इति वचनात्।”—पारस्करगृह्यसूत्रम्
अथ प्रयोगः
ॐ श्रीपरमात्मने नमः
श्रावणीस्नाने आवश्यकान्युपकरणानि कुशाः, तिलाः, यवाः, मृत्तिका, गोमयम्, भस्म, अपामार्गः, सुमनसः, दूर्वादीनि ।
तत्र सशिष्यो गुरूर्नद्यादौ तडागे वा गत्वा शुचौ देशे आवश्यकान्युपकरणानि संस्थाप्य हस्तौ पादौ प्रक्षाल्य बद्धशिखी यज्ञोपवीत्याचम्य प्रवाहाभिमुखः प्राङ्मुखो वा कुशोपग्रहः
सङ्कल्पं कुर्यात्।
सङ्कल्पः
हरिः ॐ तत्सत् ३ ॐ विष्णुः ३ अद्य श्रीमद्भगवतो महापुराणपुरुषोत्तमस्य विष्णोराज्ञया प्रवर्तमानस्य सकलजगत्सृष्टिकारिणो ब्रह्मणो द्वितीये परार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे अह्नोर्द्वितीययामे तृतीये मुहूर्ते रथन्तरादिद्वात्रिंशत्कल्पानां मध्ये अष्टमे श्वेतवाराहकल्पे स्वायम्भुवादिमन्वन्तराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृतत्रेताद्वापरकलिसंज्ञकानां चतुर्ण्णां युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गतैकदेशे नेपालदेशे पाशुपतक्षेत्रे वा (अमुक) पुण्यभूमौ बौद्धावतारे षष्टिसंवत्सराणां मध्येऽमुकनाम्नि संवत्सरे दक्षिणगोलावलम्बिनि श्रीमार्तण्डमण्डले अमुकर्तौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे यथाराशिस्थिते श्रीसूर्ये यथाराशिस्थिते चन्द्रमसि यथा राशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं स्थानस्थितेषु सत्सु एवं सकलग्रहगणविशेषेणविशिष्टायां शुभपुण्यतिथौ (अमुक) गोत्रोत्पन्नः (अमुक) प्रवरः (अमुक) वेदान्तर्गत (अमुक) शाखाध्यायी (अमुक) शर्माहं स्वात्मनः श्रुतिस्मृतिपुराणागमोक्तफलप्राप्तये इह जन्मनि जन्मान्तरे वा कायिकवाचिकमानसिकसांसर्गिकज्ञाताज्ञातस्पर्शास्पर्शासनशयनभोजनगमनानृतभाषणादिजनित– दुरितनिरसनफूर्वकमधीतानाम् अध्येष्यमाणानां चाध्यायानां स्थान–विच्छेदव्रोशघोषणदन्तविवृत्तिदुर्वृत्त– द्रुतोच्चारितवर्णानां पूर्वसवर्णानां गलोपलम्बितविवृत्तोच्चारितवर्णानां श्लिष्टास्पष्टवर्णविघट्टनादिभिः पठितानाञ्च श्रुतीनां यद्यातयामत्वं तत्परिहारार्थम् अष्टत्रिंशदनध्यायाध्ययने रथ्यासञ्चरतः शूद्रस्य श्रृण्वतोऽध्ययने म्लेच्छान्त्यजातेः श्रृण्वतोऽध्ययनेऽशुचिदेशेऽध्ययने आत्मनोऽशुचित्वेऽध्ययनेऽक्षरस्वरानुस्वार– पदच्छेदकण्डिकाव्यञ्जनह्रस्वदीर्घप्लुतकण्ठतालुमूर्धन्योष्ठ्यदन्त्यनासिकानुनासिक– रेफजिह्वामूलीयोपध्मानीयोदात्तानुदात्त– स्वरितादीनां व्यत्ययेनोच्चारे माधुर्याक्षरव्यक्तिहीनत्वाद्यनेकप्रत्यवायपरिहारपूर्वकं सर्वस्य वेदस्य सवीर्यत्वसम्पादनद्वारा यथावत्फलप्राप्तिपूर्वकं श्रीपरमेश्वरप्रीत्यर्थं देवब्राह्मणसवितृसूर्यनारायणसन्निधौ (अमुकतीर्थे) प्रवाहाभिमुखः स्नानमहं करिष्ये। ॥
इति सङ्कल्प्य
तीर्थं प्रार्थयेत् ॥
तीर्थप्रार्थना
ॐ नमामि गङ्गे तव पादपङ्कजं सुरासुरैर्वन्दितदिव्यरूपम्।
भुक्तिं च मुक्तिं च ददासि नित्यं भावानुसारेण सदा नराणाम्॥
पापिनामुद्धृतिकृते समुद्भूतासि भूतले।
दह मे सर्वपापानि मां पुनीहि सुरेश्वरि ॥
त्वमेव गतिरस्माकं पततां नरकार्णवे।
समुद्धर महादेव जटाजूटनिवासिनि ॥
या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम्।
सा गतिः सर्वजन्तूनां गौतमीतीरवासिनाम्॥
पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥
त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता ।
याचितं देहि तीर्थं मे तीर्थराज नमोऽस्तु ते॥
अपामधिपतिस्त्वं च तीर्थेषु वसतिस्तव ।
वरुणाय नमस्तुभ्यं स्नानानुज्ञां प्रयच्छ मे॥
अधिष्ठात्र्यश्च तीर्थानां तीर्थेषु विचरन्ति याः ।
देवतास्ताः प्रयच्छन्तु स्नानाज्ञां मम सर्वदा ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
चन्द्रभागे महाभागे शरणागतवत्सले।
गण्डकी सरयूयुक्ता समासाद्य पुनीहि माम्॥
सर्वाणि यानि तीर्थानि पापमोचनहेतवः ।
आयान्तु स्नानकालेऽस्मिन् क्षणं कुर्वन्तु सन्निधिम्॥
इति संप्रार्थ्य ततः
उरुᳯहीति न्युब्जाञ्जलिहस्तेन तोयमभिमन्त्रयेत् ।
जलाभिमन्त्रणम्
ॐ उरुᳯहि राजा वरुणश्चकार सूर्ॺाय पन्थामन्वेतवाऽउ ।
अपदे पादाप्रतिधातवेकरुतापवक्ता हृदयाविधश्चित् ।
नमो वरुणायाभिष्ठितो वरुणस्य पाशः ॥
ततो ॺे ते शतमिति जलमावर्तयेत्।
जलावर्तनम्
ॐ ॺे ते शतं वरुणं ॺे सहस्रं ॺज्ञियाः पाशा वितता महान्तः ।
तेभिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः ।
ततः सुमित्रिया न इत्यपोऽञ्जलिनाऽऽदाय–
जलमादानं निषिञ्चनञ्च
ॐ सुमित्रिया नऽआपऽओषधयः सन्तु। इति ।
“दुर्मित्रिया इति द्वेष्यं प्रति निषिञ्चेत्”
(कामादीन् शत्रूनुद्दिश्य तीर्थतटे स्ववामभागे निषिञ्चेत्) ।
ॐ दुर्मित्रियास्तस्मै सन्तु ॺोस्मान्द्वेष्टि ॺञ्च वयं द्विष्मः । इति ।
कटिं वस्त्यूरु जङ्घे चरणौ करौ मृदा त्रिस्त्रिः प्रक्षाल्याचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति ।
मृत्तिकालेपनम्
मृल्लेपनप्रकारो यथा मृत्स्नामादाय तस्या भागत्रयं कृत्वा प्रथमभागं वामहस्तेनादाय नाभेरधः
कटिप्रदेशमनुलिप्य हस्तं प्रक्षाल्य द्वितीयभागमादाय वामहस्तेन प्राग्वस्तिमूरुः जङ्घे चरणौ करौ च त्रिस्त्रिरनुलिप्य हस्तं प्रक्षाल्याचम्य तीर्थोदकं साञ्जलिः शिरसा प्रणमेत्।
पुनस्तथैव तृतीयभागं वामहस्ते निधाय दक्षिणहस्तेन नाभेरुपरि ललाटमारभ्य नाभिपर्यन्तं लेपयेत्। सर्वत्र लेपने ‘इदं विष्णुरिति’ मन्क्रावृत्तिः ।
ॐ इदं विष्णुर्विचव्रमे त्रेधा निदधे पदम्।
समूढमस्यफाᳩसुरे स्वाहा ॥
ॐ अश्वक्रान्ते रथक्रान्ते विष्णुव्रान्ते वसुन्धरे।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
नमस्ते सर्वभूतानां प्रभवारणि सुव्रते॥
मृत्तिके ब्रह्मभूतासि कश्यपेनाभिवन्दिता ।
त्वया हतेषु पापेषु गच्छेयं परमां गतिम्॥
ततः नाभिपरिमाणं तीर्थजलान्तः प्रविश्य सूर्याभिमुखो निमज्जेदापोऽअस्मानिति ।
स्नानम्
ॐ आपोऽअस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु।
विश्वᳯहिरिप्रम्प्रवहन्ति देवीः ॥
स्नात्वोदिदाभ्य इत्युन्मज्जेत् ।
ॐ उदिदाभ्यः शुचिरापूतऽएमि ॥
इत्युन्मज्ज्य पुनस्तूष्णीं त्रिवारं निमज्ज्योन्मज्ज्याचम्य गोमयेन विलिम्पेन्मानस्तोक इति ।
गोमयलेपनम्
तत्प्रकारो यथा—
पाणिभ्यां गोमयमादाय सूर्यं दर्शयित्वा भागत्रयं कृत्वा प्रथमभागं वामहस्तेनादाय नाभेरधस्ताल्लेपयेत्।
पुनर्हस्तौ प्रक्षाल्य द्वितीयभागं पूर्ववद्वामहस्तेन ऊरुः वस्ति जङ्घे पादौ करौ च लेपयेत्।
पुनर्हस्तौ प्रक्षाल्य दक्षिणेन पाणिना तृतीयं भागमादाय नाभेरूर्ध्वं ललाटमारभ्य नाभिपर्यन्तं लेपयेत् ।
ॐ मानस्तोके तनये मा नऽआयुषि मा नो गोषु मा नोऽअश्वेषु रीरिषः ।
मा नो वीरान्न्रुद्रभामिनो वधीर्हविष्मन्तः सदमिझ्वा हवामहे।
ॐ अग्रमग्रं चरन्तीनामोषधीनां वने वने।
तासामृषभपत्नीनां पवित्रं कायशोधनम्॥
यन्मे रोगं च शोकं च तन्मे दहतु गोमयम्॥ इति ।
पुनः स्नानम्
पुनः पूर्ववदापोऽअस्मानिति प्रागुक्तौ मन्त्रौ पठन् त्रिवारं निमज्ज्य स्नायात्।
ततः सजलं भस्माऽऽदाय दक्षिणेन पाणिना ललाटादिनाभ्यन्तं शरीरं लेपयेत् ।
भस्मलेपनम्
“ॐ अग्निरिति भस्म, ॐ प्रसद्य भस्म” इति द्वौ मन्त्रौ पठेत् ।
ॐ अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म ।
सर्वᳯह वा इदं भस्म । मन एतानि चक्षूंषि भस्मानि ॥
ॐ प्रसद्य भस्मना ॺोनिमपश्च पृथिवीमग्ने।
सᳯसृज्य मातृभिष्ट्वञ्ज्याोतिष्मान्पुनरासदः ॥ इति ।
“ततोऽभिषिञ्चेदिमं मे वरुणेति चतसृभिर्माप उदुत्तमं मुञ्चन्त्ववभृथेति अन्ते चैतत्” यथा कुशोन्नीतेन प्रतिमन्त्रं नाभेरुर्ध्वं दक्षिणपार्श्वमारभ्य शिरो नीत्वा नाभेर्वामपार्श्वान्तं सिञ्चेत् ।
कुशोदकेन सेचनम्
मन्त्राश्च
ॐ इमम्मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके॥
ॐ तत्त्वा ॺामि ब्रह्मणा वन्दमानस्तदाशास्ते ॺजमानोहविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशᳯस मा नऽआयुः प्रमोषीः ॥
ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान्देवस्य हेडोऽअवयासिसीष्ठाः ।
ॺजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाᳩसि प्रमुमुग्ध्यस्मत्॥
ॐ स त्वन्नोऽअग्नेवमो भवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ।
अवयक्ष्व नो वरुणᳯरराणो वीहि मृडीकᳯसुहवो नऽएधि ॥
ॐ मापो मौषधीर्हिᳯसीर्धाम्नो धाम्नो राजँस्ततो वरुण नो मुञ्च ।
ॺदाहुरघ्न्याऽइति वरुणेति शपामहे ततो वरुण नो मुञ्च ॥
ॐ उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमᳩश्रथाय ।
अथावयमादित्यव्रते तवानागसोऽअदितये स्याम ॥
ॐ मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो ॺमस्य पड्वीशात्सर्वस्माद्देव किल्विषात्।
ॐ अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः ।
अव देवैर्देवकृतमेनोॺासिषमव मर्त्यैर्मर्त्यकृतं पुरुराव्णो देव रिषस्पाहि ॥
इत्यभिषिच्य—
“निमज्ज्योन्मज्ज्याचम्य दर्भैः पावयेत् ।
आपो हिष्ठेति तिसृभिरिदमापो हविष्मतीर्देवीराप इति द्वाभ्यामपो देवा द्रुपदादिव शन्नोदेवीरपाᳩरसमपोदेवीः पुनन्तु मेति नवभिः कुशोन्नीतेन जलेनात्मानमभिषिञ्चेत्” ।
त्रिभिर्दर्भैर्दक्षिणकरधृतैः सोदकैर्नाभिमारभ्य प्रदक्षिणं नाभिपर्यन्तं वक्ष्यमाणैः प्रणवादिभिर्गायत्रीपूर्वैरापोहिष्ठेत्यादिभिर्मन्त्रैरात्मानं पावयेत्।
आदौ गायत्र्याभिषिच्य –
ततः कुशान् जले निक्षिप्य स्नायात्।
ॐ आपो हिष्ठा मयो भुवस्तानऽऊर्जे दधातन । महे रणाय चक्षसे॥
ॐ ॺोवः शिवतमो रसस्तस्य भाजयते ह नः । उशतीरिव मातरः
ॐ तस्माऽअरङ्गमामवो ॺस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
ॐ इदमापः प्रवहतावद्यञ्च मलञ्च ॺत्। ॺच्चाभिदुद्रोहानृतँॺच्च शेपेऽअभीरुणम्। आपो मा तस्म्मादेनसः पवमानश्च मुञ्चतु॥
ॐ हविष्मतीरिमाऽआपोहविष्माँ२आविवासति । हविष्मान्देवोऽअध्वरो हविष्माँऽअस्तु सूर्ॺः ॥
ॐ देवीरापोऽअपान्नपाद्यो वऽऊर्मिर्हविष्यइन्द्रियावान्मदिन्तमः ।
तन्देवेभ्यो देवक्रा दत्त शुव्रपेभ्यो ॺेषां भागस्थ स्वाहा ॥
ॐ कार्षिरसि समुद्रस्य त्वा क्क्षित्त्याऽउन्नयामि । समापोऽअद्भिरग्मत समोषधीभिरोषधीः ॥
ॐ अपो देवा मधुमतीरगृब्भ्णन्नूर्जस्वती राजस्वश्चितानाः ।
ॺाभिर्मित्रावरुणावभ्यषिञ्चन्याभिरिन्द्रमनयन्नत्यरातीः ॥
ॐ द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव । पूतं पवित्रेणे वाज्यमापः शुन्धन्तु मैनसः ॥
ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये। शं ॺोरभिस्रवन्तु नः ॥
ॐ अपाᳩरसमुद्वयसᳯसूर्ॺे सन्तᳯसमाहितम् ।
अपाᳩरसस्य ॺो रसस्तँव्वो गृह्णाम्युत्तममुपयामगृहीतोसीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते ॺोनिरिन्द्राय त्वा जुष्टतमम्॥
ॐ अपो देवीरुप सृज मधुमतीरयक्ष्माय प्रजाब्भ्यः । तासामास्त्थानादुज्जिहतामोषधयः सुपिप्पलाः ॥
ॐ पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा । पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा विश्वमायुर्व्यश्नवै॥
ॐ अग्नऽआयूᳩषि पवसऽआसुवोर्जमिषञ्च नः । आरे बाधस्व दुच्छुनाम्॥
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥
ॐ पवित्रेण फुनीहि मा शुक्रेण देव दीद्यत्। अग्ने क्रत्वा व्रतूँ१॥रनु॥
ॐ ॺत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनातु मा ॥
ॐ पवमानः सोऽअद्य नः पवित्रेण विचर्षणिः । ॺः पोता स पुनातु मा ॥
ॐ उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः ।
ॐ वैश्वदेवी पुनती देव्यागाद्यस्यामिमा बह्व्यस्तन्न्वो वीतपृष्ठाः ॥
तया मदन्तः सधमादेषु वयᳯस्याम पतयो रयीणाम् पश्चात्तूष्णीमाचम्य
“चित्पतिर्मेत्योङ्कारेण व्याहृतिभिर्गायत्र्या चादावन्ते , च इमम्मे इत्यष्टौ”—
ॐ चित्पतिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्ॺस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य ॺत्कामः पुने तच्छकेयम्॥
ॐ वाक्पतिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्ॺस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य ॺत्कामः पुने तच्छकेयम्॥
ॐ देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्ॺस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य ॺत्कामः पुने तच्छकेयम्॥
ॐ पुनातु। ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके॥
ॐ भूः पुनातु। ॐ तत्त्वा ॺामि ब्रह्मणा वन्दमानस्तदाशास्ते ॺजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशᳯसमा नऽआयुः प्रमोषीः ॥
ॐ भुवः पुनातु। ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्य हेडोऽअवयासिसीष्ठाः ।
ॺजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाᳩसि प्रमुमुग्ध्यस्मत्॥
ॐ स्वः पुनातु। ॐ सत्वन्नोऽअग्ने ववोभवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ।
अव यक्ष्वनो वरुणᳯरराणो वीहि मृडीकᳯसुहवो नऽएधि । ॐ महः पुनातु।
ॐ मापो मौषधीर्हिᳯसीर्धाम्नो धाम्नो राजँस्ततो वरुण नो मुञ्च ।
ॺदाहुरघ्न्याऽइति वरुणेति शपामहे ततो वरुण नो मुञ्च । ॐ जनः पुनातु।
ॐ उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमᳩश्रथाय ।
अथावयमादित्य व्रते तवानागसोऽअदितये स्याम । ॐ सत्यं पुनातु।
ॐ अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः ।
अवदेवैर्देवकृतमेनोयासिषमव मत्यैर्मर्त्यकृतम्पुरुराव्णो देव रिषस्पाहि ॥
ॐ ऊर्ध्वं पुनातु। ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो ॺो नः प्रचोदयात्॥ ॐ सर्वं पुनातु ।
अपामार्गेण मार्जनम्
पुनरपामार्गमादाय दक्षिणपाणिना वक्ष्यमाणमन्त्रं पठन् नाभेरूर्ध्वं नाभेर्दक्षिणपार्श्वमारभ्य शिरसि नीत्वा वामपार्श्वान्तं मार्जयेत् ।
ॐ अपाघमप किल्बिषमप कृत्यामपो रपः ।
अपामार्ग त्वमस्मदपदुः ष्वप्न्यᳯसुव ॥
ततः परं स्नायात्।
दूर्वाङ्कुरेण सेचनम्
अथ दूर्वाङ्कुरेण नाभेरूर्ध्वं वक्ष्यमाणमन्त्रेणात्मानं सिञ्चेत् ।
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥
ततो दूर्वाङ्कुरानपि विमुच्य स्नायात्।
अथाघमर्षणं पापपुरुषनिरसनं वा
“अन्तर्जलेऽघमर्षणं त्रिरावर्तयेद्द्रुपदादिवायङ्गौरिति वा ऋचं प्राणायामं वा सशिरसमोमिति वा विष्णोर्वा स्मरणम्”
ॐ ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽध्यजायत । ततो रात्र्यजायत ततः समुद्रोऽअर्णवः ॥
समुद्रादर्णवादधि संवत्सरोऽअजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥
सूर्ॺाचन्द्रमसौ धाता यथा पूर्वमकल्पयत्। दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्वः । इति त्रिः ।
ॐ आयङ्गौः फृश्निरव्रमीदसदन्मातरम्पुरः । पितरञ्च प्रयन्त्स्वः ॥ इति त्रिवारं वा ।
ॐ द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ।
पूतम्पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥ इति त्रिवारं वा ।
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो ॺो नः प्रचोदयात्॥
ॐ आपो ज्योति रसोऽमृतम्। ब्रह्म भूर्भुवः स्वरोम्॥ इति त्रिवारं वा ।
ध्यानम्
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्॥
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
इति वा त्रिवारं मेघवर्णं शेषशायिनं लक्ष्म्या सेव्यमानं विष्णुं स्मरन् पठेत् ।
एवं स्नानं कृत्वा स्नानाङ्गतर्पणं कुर्यात् ।
स्नानाङ्गतर्पणम्,
तत्रादौ देवतर्पणम् तत्रादौ ऋजुकुशोपग्रहं सचन्दनाक्षततुलसीपत्रं जलमर्घ्यपात्रेण अञ्जलिना देवतीर्थेनैकैकवारं देवान् तर्पयेत्—
ॐ ब्रह्मादयो देवास्तृप्यन्ताम्।
ॐ भूर्देवास्तृप्यन्ताम्।
ॐ भुवर्देवास्तृप्यन्ताम्।
ॐ स्वर्देवास्तृप्यन्ताम्।
ॐ भूर्भुवः स्वर्देवास्तृप्यन्ताम्।
अथ निवीती (कण्ठलम्बी) सन् कुशानुदग्रान् कृत्वाऽऽचम्य चोदङ्मुखो भूृत्वा कायतीर्थेन प्रतिमन्त्रं सयवजलेन द्विर्द्विर्ऋषींस्तर्पयेत् ।
ऋषितर्पणम्
ॐ सनकादिद्वैपायनान्ता ऋषयस्तृप्यन्ताम्।
ॐ भूर्ऋषयस्तृप्यन्ताम्।
ॐ भुवर्ऋषयस्तृप्यन्ताम्।
ॐ स्वर्ऋषयस्तृप्यन्ताम्।
ॐ भूर्भुवः स्वर्ऋषयस्तृप्यन्ताम्।
ततः पितृतीर्थेन प्रतिमन्त्रं त्रिस्त्रिवारं दक्षिणामुखः प्राचीनावीती भूत्वा दक्षिणाग्रमूलान् कुशान् कृत्वा सतिलजलेन पितॄन् तर्पयेत् ।
पितृतर्पणम्
ॐ कव्यवाडनलादयः पितरस्तृप्यन्ताम्।
ॐ भूः पितरस्तृप्यन्ताम्
ॐ भुवः पितरस्तृप्यन्ताम्।
ॐ स्वः पितरस्तृप्यन्ताम्।
ॐ भूर्भुवः स्वः पितरस्तृप्यन्ताम्।
ततः सव्यः सन् आचामेत्।
अथ सतिलजलाञ्जलिमादाय –
तिलोदकोत्सर्जनम् (यक्ष्मतर्पणम्)
ॐ यन्मया दूषितं तोयं शारीरमलसम्भवैः ।
तस्य पापस्य शुद्ध्यर्थं यक्ष्मैतत्ते तिलोदकम्॥
इति तीर्थतटे उत्सृजेत्।
शिखोदकोत्सर्जनम्
ॐ लतागुल्मेषु वृक्षेषु पितरो ये व्यवस्थिताः ।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः शिखोदकैः ॥
इति वृक्षादौ दक्षिणभागे शिखां निष्पीडयेत्।
सूर्योपस्थानम् सूर्यमुदीक्षनुपस्थानं कुर्यात् ।
ॐ अदृश्रमस्य केतवो विरश्मयो जनाँ२ऽअनु।
भ्राजन्तो अग्नयो ॺथा । उपयामगृहीतोसि सूर्ॺायत्वा ब्भ्राजायैष ते ॺोनिः सूर्ॺाय त्वा ब्भ्राजाय ।
सूर्ॺ भ्राजिष्ठ ब्भ्राजिष्ठस्त्वं देवेस्वसि भ्राजिष्ठोहम्मनुष्येषु भूयासम्॥
ॐ हᳯसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्।
नृषद्वरसदृतसद्व्योमसदब्जा गोजाऽऋतजाऽअद्रिजाऽऋतं बृहत्॥
ॐ उद्वयन्तमसस्परि स्वः पश्यन्तऽउत्तरम्। देवन्देवत्रा सूर्ॺमगन्मज्योतिरुत्तमम्॥
ॐ उदुत्यञ्जातवेदसन्देवं वहन्ति केतवः । दृशे विश्श्वाय सूर्य्ॺम्॥
ॐ चित्रन्देवानामुदगादनीकञ्चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आ प्प्रा द्यावापृथिवीऽअन्तरिक्षᳯसूर्ॺऽआत्मा जगतस्तस्थुषश्च ॥
ॐ तच्चक्षुर्देवहितं पुरस्क्ताच्छुक्व्रमुच्चरत्।
पश्येम शरदः शतञ्जीवेम शरदः शतᳯश्रृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतम्भूयश्च शरदः शतात्॥
ॐ विभ्राड्बृहत् … आकृष्णेनेत्यन्तं सप्तदशमन्त्राँश्च पठेत्।
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशङ्करात्मने॥
इत्युपस्थाय नमस्कृत्य च धौते वाससी परिधाय भस्मादि धारणं कृत्वा गायत्रीं जपेत् ।
ततो नारायणं स्मरन् गृहमाव्रजेत्॥
। इति श्रावणीस्नानप्रयोगः ॥
