यज्ञोपवीताभिमन्त्रणम्
यज्ञोपवीताभिमन्त्रणम्
अथ कर्म्मोपयोगिसप्तधान्यादिकारिकासङ्ग्रहः
सप्तधान्यानि
यवगोधूमधान्यानि तिलाः कङ्गुस्तथैव च ।
श्यामाकं चणकं चैव सप्तधान्यमुदाहृतम्॥
सर्वौषधयः
मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम्।
शठी चम्पकमुस्तं च सर्वौषधिगणः स्मृतः ॥
अन्यच्च
कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम्।
वचाकर्पूरमुस्ता च सर्वौषध्यः प्रकीर्तिताः ॥
सप्तमृदः
गजाश्वरथ्यवल्मीकसङ्गमाद् गोकुलात् ह्रदात्।
राजद्वारप्रदेशाच्च मृदमानीय निक्षिपेत्॥
पञ्चपल्लवाः
अश्वत्थोदुम्बरप्लक्षा न्यग्रोधश्चूत एव च ।
पञ्चकं पल्लवानां स्यात्सर्वकर्मसु शोभनम्॥
पञ्चत्वचः— एतेषामेव त्वचः ।
पञ्चरत्नानि— सुवर्णं रजतं मुक्ता लाजावर्त्तः प्रबालकम्।
अन्यदपि
कनकं कुलिशं मुक्ता लाजावर्त्तः प्रबालकम्।
एतानि पञ्चरत्नानि रत्नशास्त्रविदो विदुः ।
अभावेसर्वरत्नानां हेम सर्वत्र योजयेत्॥
दशाङ्गधूपः
षड्भागकुष्ठो द्विगुणो गुडश्च लाक्षात्रयं पञ्चनखस्य भागाः ।
हरीतकी सर्जरसश्च मांसी भागैकमेकं त्रिलवं शिलाजम्॥
घनस्य चत्वारि पुरस्य चैको धूपो दशाङ्गः कथितो मुनीन्द्रैः ।
कङ्कणौषधयः
दूर्वायवाङ्कुराश्चैव बालकं चूतपल्लवम्॥
हरिद्राद्वयसिद्धार्थशिखिपत्रोरगत्वचः ।
कङ्कणौषधयश्चैताः कौतुकाख्या नव स्मृताः ॥
मधुरत्रयम्
आज्यं क्षीरं मधु तथा मधुरत्रयमुच्यते।
मङ्गलाचरणं स्वस्तिवाचनञ्च
श्रीगणेशाय नमः । श्रीमङ्गलमूर्तये नमः । श्रीगुरुभ्यो नमः । श्री सरस्वत्यै नमः ।
वेदाय नमः । वेदपुरुषाय नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः ।
ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः ।
एतत्कर्म प्रधानदेवताभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।
ॐ नारायणाय नमः ।
अविघ्नमस्तु।
ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामेसङ्कटे चैव विघ्नस्तस्य न जायते॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
यजुर्वेदीयस्वस्तिवाचनमन्त्राः
आनो भद्राः क्रतवो ॺन्तु विश्वतो दब्धासोऽअपरीतासऽउद्भिदः ।
देवानो ॺथा सदमिद्वृधेऽअसन्नप्रायुवोरक्षितारो दिवे दिवे॥ १ ॥
देवानां भद्रा सुमतिर्ऋजूयतां देवानाᳩरातिरभिनो निवर्तताम्।
देवानाᳩसख्यमुपसेदिमा वयं देवा नऽआयुः प्रतिरन्तु जीवसे॥ २ ॥
तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्।
अर्ॺमणं वरुणᳯसोममश्विना सरस्वती नः सुभगा मयस्करत्॥ ३ ॥
तन्नो वातो मयोभुवातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्याॺुवम्॥ ४ ॥
तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम्।
पूषा नो ॺथा वेदसामसद्वृधेरक्षिता पायुरदब्धः स्वस्तये॥ ५ ॥
स्वस्ति नऽइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥ ६ ॥
पृषदश्वा मरुतः पृश्निमातरः शुभं ॺावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवाऽअवसा गमन्निह ॥७ ॥
भद्रङ्कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्ॺजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाᳩसस्तनूभिर्व्यसेमहि देवहितं ॺदायुः ॥ ८ ॥
शतमिन्नु शरदो अन्ति देवा ॺत्रानश्चक्राजरसंतनूनाम्।
पुत्रासो ॺत्र पितरो भवन्ति मा नो मध्यारीरिषतायुर्गन्तोः ॥ ९ ॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वेदेवाऽअदितिः पञ्चजनाऽअदितिर्जातमदितिर्जनित्वम्॥ १० ॥
द्यौः शान्तिरन्तरिक्षᳯशान्तिः पृथिवीशान्तिरापः शान्तिरोषधयः शान्तिः ।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्वᳯशान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ११ ॥
ॺतो यतः समीहसे ततो नोऽअभयं कुरु ।
शं नः कुरु प्रजाभ्योभयन्नः पशुभ्यः ॥ १२ ॥
सुशान्तिर्भवतु॥
कर्मपात्रम्
ततो कर्ता आचम्य प्राणानायम्य कर्मपात्रं कुर्यात् ।
तद्यथा– ॺद्देवा देवहेडनमिति कण्डिकात्रयेण देवानावाह्य पवित्रं गन्धादिकं च स्वस्वमन्त्रेण क्षिप्त्वा कर्मपात्रं कुर्यात्।
तत्र मन्त्रा
ॐ यद्देवा देवहेडनं देवासश्चकृमावयम्|
अग्निर्मा तस्मादेनसो विश्वान् मुञ्चत्वᳩहसः ॥
ॐ यदि दिवा यदिनक्तमेनाᳩ सिचकृमा वयम् |
वायुर्मातस्मादेनसो विश्वान् मुञ्चत्वᳩहसः॥
ॐ यदि जाग्रद्यदि स्वप्न एनाᳩसिचकृमावयम् |
सूर्यों मा तस्मादेनसो विश्वान् मुञ्चत्वᳩहसः ॥
ॐ पवित्रेस्थो वैष्णव्यौसवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्ॺस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य ॺत्कामः पुने तच्छकेयम्॥
इति मन्त्रेण पवित्रं क्षिपेत्।
ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये। शं ॺोरभिस्रवन्तु नः ॥
इति जलम् ।
ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः ।
प्रत्नमद्भिः पृक्तः स्वधया पितृँल्लोकान् प्रिणाहि नः स्वाहा ॥
इति तिलान्।
ॐ श्रीश्च ते लक्ष्मीश्च पत्क्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्।
इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मऽइषाण ॥
इति पुष्पम्।
ॐ गन्धद्वारान्दुराधर्षान्नित्यपुष्टाङ्करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
इति चन्दनम्।
ॐ अक्षन्नमीमदन्त ह्यवप्रियाऽअधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती ॺोजान्विन्द्र ते हरी ॥
इत्यक्षतान्।
कुशतिलजलान्यादाय देशकालौ सङ्कीर्त्य–
अद्य अध्यायोत्सर्गकर्माङ्गत्वेन यथामिलितोपचारैः
दीपकलशगणेशपूजनपूर्वकं यज्ञोपवीताभिमन्त्रणं रुद्राभिषेकं सप्तर्षिस्थापनपूजनं रक्षाबन्धनपूजनं
यज्ञोपवीततन्तुदेवतापूजनं ऋषितर्पणं वंशानां ब्रुवणं ऋषिश्राद्धं स्वपितृभ्यो यज्ञोपवीतदानं ब्राह्मणेभ्यो
यज्ञोपवीतदानं नवीनयज्ञोपवीतधारणं जीर्णयज्ञोपवीतत्यागः रक्षासूत्रबन्धनं च अहं करिष्ये ।
इति सङ्कल्पं कुर्यात्।
ततो दीपकलशगणेशादीनां पूजा विधेया ।
अथ दीपपूजा
तत्र स्थिरोभवेति दीपं प्रज्वालयेत् ।
ॐ स्थिरो भव वीड्वङ्गऽआशुर्भव वाज्यर्वन्।
पृथुर्भव सुखदस्त्वमग्नेः पुरीषवाहणः ॥
पृष्टोदिवीति पूजनम् ।
ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाऽओषधीराविवेश ।
वैश्वानरः सहसा पृष्टोऽअग्निः स नो दिवा सरिषस्पातु नक्तम्॥
इति पाद्यादिभिरुपचारैः सम्पूजयेत् । ततः प्रार्थना–
ॐ शुभं भवतु कल्याणमारोग्यं सुखसम्पदः ।
आत्मज्योतिप्रकाशाय दीपज्योतिर्नमोऽस्तु ते॥
इति
अथ कलशपूजा
तत्र वेद्या ईशानदिग्भागे अव्रणं दध्यक्षतादिभूषितं कलशं धान्योपरि स्थापयित्वा पूजयेत्।
तत्प्रकारश्च यथा
भूरसीति भूमिशोधनं कुर्यात् ।
ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
पृथिवीं ॺच्छ पृथिवीं दृᳯह पृथिवीं मा हिᳯसीः ॥
धान्यमसीति धान्यं स्थापयेत् ।
ॐ धान्यमसि धिनुहि देवान् प्राणायत्वोदानायत्वा व्यानाय त्वा ।
दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा
महीनां पयोसि ॥
आजिघ्रकलशमिति धान्योपरि अव्रणं कलशं स्थापयेत् ।
ॐ आजिघ्र कलशं मह्या त्वा विशन्त्विन्दवः ।
पुनरूर्जा निवर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ॥
वरुणस्योत्तम्भनमसीति कलशे तीर्थादिजलं प्रक्षिपेत् ।
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्यऽऋतसदन्यसि वरुणस्यऽऋतसदनमसि
वरुणस्यऽऋतसदनमासीद ॥
ॺा ओषधीरिति कलशे सर्वौषधीः प्रक्षिपेत् ।
ॐ ॺाऽओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनैनुबभ्रूणामहᳯशतं धामानि सप्त च ॥
हिरण्यगर्भ इति कलशे पञ्चरत्नानि प्रक्षिपेत् ।
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत्।
स दाधार पृथिवीं द्यामुतेमाङ्कस्मै देवाय हविषा विधेम ॥
याः फलिनीरिति कलशे पूगीफलादीनि प्रक्षिपेत् ।
ॐ ॺाः फलिनीर्ॺाऽअफलाऽअपुष्पा ॺाश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वᳯहसः ॥
ओषधय इति कलशे यवान् प्रक्षिपेत् ।
ॐ ओषधयः समवदन्त सोमेन सह राज्ञा ।
ॺस्मै कृणोति ब्राह्मणस्तᳯराजन्पारयामसि ॥
गन्धद्वारामिति कलशे चन्दनं प्रक्षिपेत् ।
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
काण्डात्काण्डादिति दूर्वा प्रक्षिपेत् ।
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥
स्योना पृथिवीति सप्तमृदः प्रक्षिपेत् ।
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
ॺच्छा नः शर्म सप्रथाः ॥
अश्वत्थेव इति पञ्चपल्लवैस्तन्मुखमाच्छाद्य–
ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाजऽइत्किलासथ ॺत्सनवथ पूरुषम्॥
बृहस्पतेऽअतीति वस्त्रयुग्मेन कलशं वेष्टयेत् ।
ॐ बृहस्पतेऽअति यदर्ॺोऽअर्हाद्युमद्विझाति व्रतुमज्जनेषु।
ॺद्दिदयच्छवसऽऋत प्रजात तदस्मासु द्रविणन्धेहि चित्रम्।
उपयामगृहीतोसि बृहस्पतये त्वैषते ॺोनिर्बृहस्पतये त्वा ॥
अम्बेऽअम्बिके इति आम्रपल्लवैस्तन्मुखमाच्छाद्य–
ॐ अम्बेऽअम्बिकेम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
तझ्वा यामीति कलशेवरुणमावाह्य पूजयेत्।
ॐ तत्त्वा ॺामि ब्रह्मणा वन्दमानस्तदाशास्ते ॺजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशᳯस मा नऽआयुः प्रमोषीः ॥
ततः कलशे गङ्गादितीर्थान्यावाहयेत् ।
ॐ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥
कलशं स्पृष्ट्वाभिमन्त्रयेत् ।
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ॥
ततः कलशप्रार्थना
ॐ देवदानवसंवादे मथ्यमाने महोदधौ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ॥
सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा ॥
॥ इति ॥
अथ गणेशपूजा
हस्ते कुशयवजलान्यादाय—
ॐ अद्येहेत्यादि (अमुक) कर्म निर्विध्नपरिसमाप्त्यर्थममुककर्माङ्गतया
गणेशपूजनमहं करिष्ये। इति सङ्कल्प्य “गणनान्त्वा” “हे हेरम्ब” इत्यादिमन्त्रैरावाहयेत्।
ॐ गणानान्त्वा गणपतिᳯहवामहे प्रियाणान्त्वा प्रियपतिᳯ हवामहे निधीनान्त्वा निधिपतिᳯहवामहे वसो मम ।
आहमजानि गर्ब्भधमा त्वमजासि गर्ब्भधम्॥
ॐ हे हेरम्ब त्वमेह्येहि अम्बिकात्र्यम्बकात्मज ।
सिद्धिबुद्धिपते त्र्यक्ष लक्ष्यलाभयितः पितः ॥
नागस्य नागहारस्त्वं गणराज चतुर्भुज ।
भूषितः स्वायुधैर्दिव्यैः पाशाङ्कुशपरस्वधैः ॥
आवाहयामि पूजार्थं रक्षार्थञ्च मम क्रतोः ।
इहागत्य गृहाण त्वं पूजां क्रतुं च रक्ष माम्॥
इत्यावाह्य–
ॐ भूर्भुवः स्वः गणपतये सिद्धिबुद्धिसहिताय साङ्गाय सायुधाय सवाहनाय सपरिवाराय इदमासनं समर्पयामि ।
ततः सहस्रशीर्षेत्यादिषोडशमन्त्रैः षोडशोपचारैः पूजयेत्।
तद्यथा–
आसनम्, पाद्यम्, अर्घ्यम्, आचमनीयम्, यज्ञोपवीतम्, वस्त्रम्, चन्दनम्, दूर्वा, अक्षताः, धूपः, दीपः, नैवेद्यम्, आचमनीयम्, ताम्बूलम्, वस्त्रालङ्कारादियल्लभ्यम्, दक्षिणाद्रव्यम्, पादवन्दनम् । एभिः
सम्पूज्य नारिकेलादिफलं सवस्त्रं पुरतः पात्रे निधाय स्तुतिं कुर्यात् ।
ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्॥
द्वैमातुरकृपासिन्धो षाण्मातुराग्रजप्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥
अनेन फलदानेन फलदोऽस्तु सदा मम ।
वक्रतुण्ड महाकाय कोटिसूर्य समप्रभ ॥
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
॥ इति गणेशपूजा ॥
ततः कलशस्कन्धप्रदेशे
ॐ गणपत्यादिपाञ्चायतनेभ्यो नमः । ॐ विनायकादिपञ्चलोकपालेभ्यो नमः ।
ॐ सूर्यादिनवग्रहेभ्यो नमः । ॐ ईश्वराद्यधिदेवेभ्यो नमः ।
ॐ अग्न्यादिप्रत्यधिदेवेभ्यो नमः । ॐ इन्द्रादिदशदिक्पालेभ्यो नमः ।
ॐ ध्रवाद्यष्टवसुभ्यो नमः । ॐ धात्रादिद्वादशादित्येभ्यो नमः ।
ॐ वीरभद्राद्येकादशरुद्रेभ्यो नमः । ॐ गौर्यादिषोडशमातृभ्यो नमः ।
ॐ आवहादिसप्तमरुद्भ्यो नमः । ॐ विनायकाय नमः । ॐ ब्रह्मणे नमः ।
ॐ विष्णवे नमः । ॐ रुद्राय नमः । ॐ अर्काय नमः । ॐ वनस्पतये नमः ।
इति यथालब्धोपचारैः संपूज्य प्रार्थयेत् ।
सूर्यः शौर्यमथेन्दुरिन्द्रपदवीं सन्मङ्गलं मङ्गलः ।
सद्बुद्धिं च बुधो गुरुश्च गुरुतां शुक्रः सुखं शं शनिः ॥
राहुर्बाहुबलं करोतु सततं केतुः कुलस्योन्नतिम्।
नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला ग्रहाः ॥
॥ इति ॥
अथ रक्षाबन्धनपूजा
यव–दूर्वा–सर्षप–गोमय–चन्दन–दधिसहितां रक्षां ताम्रपात्रे निधाय पात्रं स्पृशन् नारायणकवचं पठेत् ।
ॐ पूर्वे रक्षतु गोविन्द आग्नेयां धरणीधरः ।
याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते॥१॥
वारुण्यां केशवो रक्षेद् वायव्यां मधुसूदनः ।
उत्तरे श्रीधरो रक्षेत् ऐशान्यां तु गदाधरः ॥२॥
ऊर्ध्वं गोवर्धनो रक्षेद् अधस्तात् तु महीधरः ।
एवं दशदिशो रक्षेद् वासुदेवो जनार्दनः ॥३॥
यज्ञाग्रे रक्षतात् शङ्खः पृष्ठे वै पद्ममुत्तमम्।
वामपार्श्वे गदा रक्षेत् दक्षिणे तु सुदर्शनः ॥४॥
उपेन्द्रः पातु ब्रह्माणमाचार्यं पातु वामनः ।
ऋग्वेदमच्युतो रक्षेद् यजुर्वेदमधोक्षजः ॥५॥
कृष्णो रक्षतु सामानमथर्वाणञ्च माधवः ।
उपविष्टाँश्च विप्राँस्तान् अनिरुद्धोऽभिरक्षतु॥६॥
वक्ष्यमाणमन्त्रैः पूजयेत् ।
ॐ रक्षोहणं वलगहनं वैष्णवीमिदमहन्तं वलगमुत्किरामि ॺम्मे निष्ट्यो ॺममात्यो निचखानेदमहन्तं वलगमुत्किरामि ॺम्मे समानो ॺमसमानो निचखानेदमहन्तं
वलगमुत्किारामि ॺम्मे सबन्धुर्ॺमसबन्धुर्निचखानेदमहन्तं वलगमुत्किरामि ॺम्मे सजातो ॺमसजातो निचखानोत्कृत्याङ्किरामि ॥७॥
स्वराडसिसपत्क्नहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराडस्य मित्रहा ॥८॥
रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान्रक्षोहणो वो वलगहनोऽवनयामि वैष्णवान्रक्षोहणो वो वलगहनोवस्तृणामि वैष्णवान्रक्षोहणौ वां वलगहनाऽउपदधामि वैष्णवी रक्षोहणौ वां वलगहनौ पर्ॺूहामि वैष्णवी वैष्णवमसि वैष्णवास्थ ॥९॥
सप्तऽऋषयः प्रतिहिताः शरीरे सप्तरक्षन्ति सदमप्प्रमादम्।
सप्तापः स्वपतो लोकमीयुस्तत्रजागृतोऽअस्वप्नजौ सत्रसदौ च देवौ॥१०॥
॥ इति ॥
ऋषिप्रतिष्ठा
तत ऋषिप्रतिष्ठा कार्या । तद्यथा गन्धपुष्पाक्षतान् गृहीत्वा—
ॐ एतन्ते देव सवितर्ॺज्ञं प्राहुर्बृहस्तये ब्रह्मणे।
तेन ॺज्ञमव तेन ॺज्ञपतिं तेन मामव ॥
ॐ मनोजूतिर्ज्जुषतामाज्यस्य बृहस्प्पतिर्ॺज्ञमिमन्तनोत्वरिष्टं ॺज्ञᳯसमिमन्दधातु ॥
विश्वेदेवासऽइह मा दयन्तामों ३ प्रतिष्ठ ।
एष वै प्रतिष्ठा नाम ॺज्ञो ॺत्रैतेन ॺज्ञेन ॺजन्ते सर्वमेव प्रतिष्ठितं भवति ।
ॐ सप्तऽऋषयः प्रतिहिताः शरीरे सप्तरक्षन्ति सदमप्रमादम् ।
सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽअस्वप्नजौ सत्रसदौ च देवौ ॥
प्रतिष्ठा सुप्रतिष्ठितास्तु।
इति मन्त्रेण ऋष्युपरि गन्धाक्षतान् निक्षिपेत् ।
अथावाहनम्—
पुष्पाक्षतान् गृहीत्वा दक्षिणस्थं प्रथमं ऋषिं स्पृशन्—
ॐ भूर्भुवः स्वः कश्यपाय नमः कश्यपम् आवाहयामि ।
भो कश्यप ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत् पूजां करोमि तावत् त्वं सुस्थिरः सुप्रसन्नो वरदो भव ॥ १ ॥
पुनर्गन्धाक्षतान् गृहीत्वा द्वितीयमृषिं स्पृशन्—
ॐ भूर्भुवः स्वः भरद्वाजाय नमः भरद्वाजम् आवाहयामि ।
भो भरद्वाज ! इहागच्छ, इह तिष्ठ मम पूजां गृहाण यावत् पूजां करोमि तावत् त्वं सुस्थिरः सुप्रसन्नो वरदो भव ॥ २ ॥
पुनर्गन्धाक्षतान् गृहीत्वा तृतीयमृषिं स्पृशन्—
ॐ भूर्भुवः स्वः गौतमाय नमः गौतमम् आवाहयामि ।
भोगौतम ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत् पूजां कारोमि तावत् त्वं सुस्थिरः सुप्रसन्नो वरदो भव ॥ ३ ॥
पुनर्गन्धाक्षतान् गृहीत्वा चतुर्थमृषिं स्पृशन्—
ॐ भूर्मुवः स्वः अत्रये नमः अत्रिम् आवाहयामि ।
भो अत्रे ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत्पूजां करोमि तावत्त्वं सुस्थिरः सुप्रसन्नोवरदोभव ॥ ४ ॥
पुनर्गन्धाक्षतान् गृहीत्वा पञ्चममृषिं स्पृशन्—
ॐ भूर्भवः स्वः जमदग्नये नमः जमदग्निम् आवाहयामि ।
भो जमदग्ने ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत् पूजां करोमि तावत् त्वं सुस्थिरः सुप्रसन्नो वरदो भव ॥ ५ ॥
पुनर्गन्धाक्षतान् गृहीत्वा षष्ठमृषिं स्पृशन्—
ॐ भूर्भुवः स्वः वसिष्ठाय नमः वसिष्ठम् आवाहयामि ।
भो वसिष्ठ ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत् पूजां करोमि तावत् त्वं सुस्थिरः सुप्रसन्नो वरदो भव ॥ ६ ॥
पुनर्गन्धाक्षतान् गृहीत्वा सप्तममृषिं स्पृशन्—
ॐ भूर्भवः स्वः विश्वामित्राय नमः विश्वामित्रम् आवाहयामि ।
भो विश्वामित्र ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत् पूजां करोमि तावत् त्वं सुस्थिरः सुप्रसन्नो वरदो भव ॥ ७ ॥
पुनर्गन्धाक्षतान् गृहीत्वा ऋषिपत्नीं स्पृशन्—
ॐ भूर्भुवः स्वः अरुन्धत्यै नमः अरुन्धतीमावाहयामि ।
भो अरुन्धति ! इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत् पूजां करोमि तावत् त्वं सुस्थिरा सुप्रसन्ना वरदा भव ॥ ८ ॥
ततः पठेत्
ॐ इमामेव गौतमभरद्वाजावयमेव गौतमोऽयं भारद्वाज इमामेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं
जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचाह्यन्नमद्यतेतिहऽवै
नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वस्यान्नं भवति यऽएवं वेद ।
ऋषिपूजनम्
ततः सङ्कल्पः
अद्येत्यादि पूर्वोक्तसङ्कल्पसिद्धिरस्तु मम आत्मनः श्रुतिः स्मृतिपुराणोक्तफलावाप्तये
श्रीपरमेश्वरप्रीत्यर्थम् उत्सर्जनाङ्गत्वेन अरुन्धतीसहितकश्यपादिसप्तर्षिपूजनमहं करिष्ये।
ततो ऋषीन् ध्यायेत्।
ध्यानम्
ॐ सप्तऽऋषयः प्रतिहिताः शरीरे सप्तरक्षन्ति सदमप्प्रमादम्।
सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽअस्वप्नजौ सदसदौ च देवौ।
इदं विष्णुर्विचव्रमे त्रेधा निदधे पदम्। समूढमस्य पाᳩसुरे स्वाहा ॥
ॐ सहस्रशीर्षापुरुष… ॥
ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः ध्यानसहितमावाहनं समर्पयामि ।
आसनम्
सुवर्णरचितं दिव्यं नानारत्नमनोहरम्।
आसनं रुचिरं यच्च गृह्यन्तां भो मुनीश्वराः ॥
ॐ पुरुषऽएवेदᳯसर्वम् … ॥
ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः आसनं समर्पयामि ।
पाद्यम्
गङ्गाजलं समानीतं गन्धद्रव्येण संयुतम्।
पाद्यार्थं प्रतिगृह्णन्तु कश्यपाद्या महर्षयः ॥
ॐ एतावानस्य महिमातो… ॥
ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः पाद्यं समर्पयामि ।
अर्घ्यम्
सुवर्णपात्रसंयुक्तं गन्धपुष्पाक्षतैर्युतम्।
सप्तर्षयः गृहाण त्वं इदमर्घ्यं मयाऽर्पितम्॥
ॐ त्रिपादूर्ध्वऽउदैत्पुरुषः … ॥ ॐ भुर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः । अर्घ्यं समर्पयामि ।
आचमनम्
कर्पूरवासितं तोयं सुवर्णकलशे स्थितम्।
दत्तमाचमनीयं च ऋषीणां प्रीतये सदा ॥
ॐ ततो विराडजायत … ॥ ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः आचमनीयं
समर्पयामि ।
स्नानम्
सुगन्धिद्रव्यसंयुक्तं पवित्रं मङ्गलं जलम्।
स्नानार्थं च समानीतं गृह्यन्तां मुनयो मुदा ॥
ॐ तस्माद्यज्ञात्सर्वहुत… ॥ ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः स्नानं समर्पयामि ।
पञ्चामृतस्नानम्
पयो दधि घृतं चैव मधुशर्करयाऽन्वितम्।
पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्॥
ॐ पञ्चनद्यः … ॥ ॐ भूभुर्वः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः पञ्चामृतस्नानं समर्पयामि ।
गन्धोदकस्नानम्
गन्धद्वारां दुराधर्षां नित्यपुष्टाङ्करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः गन्धोदकस्नानं समर्पयामि ।
रुद्राभिषेकमहास्नानम्
भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः महाभिषेकस्नानं समर्पयामि ।
वस्त्रम्
सूक्ष्माण्यतीव शुभ्राणि वस्त्राणि विविधानि च ।
ऋषयः प्रतिगृह्णन्तु उष्णशीतनिवारणे॥
ॐ तस्माद्यज्ञात्सर्वहुतऽऋच … ॥ ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः । वस्त्रं समर्पयामि ।
यज्ञोपवीतम्
नानामन्त्रैः समुद्भूतं त्रिवृतं ब्रह्मसूत्रकम्।
प्रत्येकं दीयते स्वच्छं गृह्णन्तु ऋषिसत्तमाः ॥
ॐ तस्मादश्वाऽअजायन्त … ॥ ॐ भूर्भुवः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः यज्ञोपवीतानि
समर्पयामि ।
चन्दनम्
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।
विलेपनं प्रयच्छामि ऋषीणां प्रीतिहेतवे॥
ॐ तं ॺज्ञं बर्हिषि … ॥ ॐ भूभुर्वः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः चन्दनं समर्पयामि ।
अक्षताः
शुभ्रतण्डुलजाः शुक्लाः शङ्खशुभ्रा मनोरमा ।
अक्षतान् सम्प्रयच्छामि गृह्णन्तु मुनिपुङ्गवाः ॥
ॐ अक्षन्नमीमदन्तह्य… ॥ ॐ भूभुर्वः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्यो नमः अक्षतान् समर्पयामि ।
हरिद्राकुङ्कुमादीनि
हरिद्रां कुङ्कुमं चैव कज्जलं भूषणानि च ।
कङ्कणं कण्ठसूत्रं च गृहाण परमेश्वराः ॥
ॐ अहिरिव … ॥ ॐ भूभुर्वः स्वः अरुन्धतीसहितकश्यपादिसप्तर्षिभ्योः नमः कुङ्कुमादीनि समर्पयामि ।
पुष्पाणि
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयार्पितानि पुष्पाणि गृहाण मुनिपुङ्गवाः ॥
ॐ ॺत्पुरुषं व्यदधुः कतिधा … ॥ ॐ भू.. अरुन्धतीस… ॥ नानाविधपुष्पाणि समर्पयामि ॥
धूपः
कृष्णागरुसमुद्भूतो गुग्गुलोऽयं दशाङ्गकः ।
सुगन्धः कश्यपादीनामृषिभ्यो दीयतेऽधुना ॥
ॐ ब्राह्मणोस्य मुखमासीद् …॥ ॐ भू … अरुन्धतीसहितकश्यपादि … । धूपमाघ्रापयामि ।
दीपः
पञ्चवर्त्तिसमायुक्तः सर्वमङ्गलशोभनः ।
मया निवेदितो भक्त्या दीपोऽयं प्रतिगृह्यताम्॥
ॐ चन्द्रमामनसो जात… ॥ ॐ भू … अरुन्धतीसहित … । दीपं दर्शयामि ।
नैवेद्यम्
फलमूलसमायुक्तं नानाशाकसमन्वितम्।
शर्कराघृतसंयुक्तं नैवेद्यं प्रतिगृह्यताम्॥
ॐ नाभ्याऽआसीदन्तरिक्षᳯ… ॥ ॐ भू … अरुन्धतीसहित… । नैवेद्यं समर्पयामि ।
नैवेद्यान्ते आचमनीयं समर्पयामि । उत्तरापोशानं हस्तप्रक्षालनं करोद्वर्तनार्थे चन्दनं च समर्पयामि ।
फलम्
नारिकेलं च कूष्माण्डं कदली कर्कटीफलम्।
ऋतुकालोद्भवं चान्यद्दीयतेऽद्य मुनीश्वराः ।
ॐ ॺाः फलिनीर्ॺा … ॥ ॐ भू … अरुन्धतीसहितकश्यपादि… । फलानि समर्पयामि ।
ताम्बूलम्
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
एलालवङ्गसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ ॺत्पुरुषेण हविषा देवा… ॥ ॐ भू … अरुन्धतीसहितकश्यपादि … । ताम्बूलं समर्पयामि ।
दक्षिणा
हिरण्यगर्भगर्भर्स्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
ॐ हिरण्यगर्भः सम्… ॥ ॐ भू… अरुन्धतीसहितकश्यपादि… । दक्षिणां समर्पयामि ।
आर्तिक्यम्
ब्रह्मिष्ठा ब्रह्मरूपाश्च कश्यपाद्या महर्षयः ।
ब्रह्मप्रज्ञादिदातारः सन्तु मे कीर्तिकर्मणि ॥
ॐ इदᳯहविः… ॥ ॐ भू… अरुन्धती… ॥ आर्तिक्यं दर्शयामि ॥
प्रदक्षिणा
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्तु प्रदक्षिणपदे पदे॥
ॐ सप्तास्यासन् परिधय… ॥ ॐ भू… अरुन्धतीसहितकश्यपादि… ॥ प्रदक्षिणां समर्पयामि ॥
नमस्कारः
शरणागतदीनार्तपरित्राणपरायणाः ।
रक्षन्तु मुनयः सर्वे मामद्य शरणागतम्॥
सप्तर्षयः शुभाः श्रेष्ठाः सर्वेषां च सुखप्रदाः ।
पुष्पाञ्जलिं मया दत्तं गृह्णन्तु मुनिपुङ्गवाः ॥
ॐ ॺज्ञेन ॺज्ञमयजन्त… ॥ ॐ भू… अरुन्धतीसहित… ॥ मन्त्रपुष्पाञ्जलिं समर्पयामि ॥
प्रार्थना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं मुनीश्वराः ।
यत् पूजितं मया देवाः परिपूर्णं तदस्तु मे॥
अर्पणम्
अनेन कृतेन ध्यानावाहनादिषोडशोपचारादिपूजनेन अरुन्धतीसहितकश्यपादिसप्तर्षयः
प्रीयन्तां न मम ॥ ॐ तत्सत् ब्रह्मार्पणमस्तु॥
॥ इति ऋषिपूजनम ॥
तन्तुदेवतापूजनम्
तत्रादौ यज्ञोपवीतप्रक्षालनम्
आपो हिष्ठेति तिसॄणां सिन्धुद्वीपऋषिः आपो देवता गायत्री छन्दः यज्ञोपवीतप्रक्षालने विनियोगः ।
ॐ आपो हिष्ठा मयोभुवस्तानऽऊर्ज्जे दधातन । महेरणाय चक्षसे।
ॺो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ।
तस्माऽअरङ्गमाम वो ॺस्य क्षयाय जिन्वथ । आपो जनयथा च नः ।
यज्ञोपवीतानि प्रक्षालनानन्तरं गायत्रीमन्त्रैर्दशवारमभिमन्त्र्य तन्तुदेवतानामावाहनं कुर्यात् ।
विनियोगः
प्रणवस्य ब्रह्माऋषिः परमात्मादेवता गायत्रीछन्दः प्रथमतन्तौ ॐ कारावाहने विनियोगः ।
प्रथमतन्तौ ॐ काराराय नमः । ॐ कारमावाहयामि ।
विनियोगः
अग्निन्दूतमिति मेधातिथिर्ऋषिः अग्निर्देवता गायत्री छन्दः द्वितीयतन्तौ अग्न्यावाहने विनियोगः ॥
ॐ अग्निन्दूतम्पुरोदधे हव्यवाहमुपब्रुवे। देवाँ२ ॥ऽआसादयादिह ॥
द्वितीयतन्तौ ॐ अग्नये नमः । अग्निमावाहयामि ।
विनियोगः
नमोऽस्तु सर्पेभ्य इत्यस्य प्रजापतिर्ऋषिः सर्पा देवताः अनुष्टुप् छन्दः तृतीयतन्तौ सर्पावाहने विनियोगः ।
ॐ नमोऽस्तु सर्पेभ्यो ॺे के च पृथिवीमनु। ॺेऽअन्तरिक्षे ॺे दिवि तेभ्यः सर्पेभ्यो नमः ।
तृतीयतन्तौ ॐ सर्पेभ्यो नमः । सर्पानावाहयामि ।
विनियोगः
वयᳯसोमेत्यस्य बन्धुर्ऋषिः सोमो देवता गायत्री छन्दः चतुर्थतन्तौ सोमावाहने विनियोगः ।
ॐ वयᳯसोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥
चतुर्थतन्तौ ॐ सोमाय नमः । सोममावाहयामि ।
विनियोगः
उदीरतामित्यस्य शङ्ख ऋषिः पितरो देवता त्रिष्टुप् छन्दः पञ्चमतन्तौ पित्रावाहने विनियोगः ।
ॐ उदीरतामवरऽउत्परासऽउन्मध्यमाः पितरः सोम्यासः ।
असुं ॺऽईयुरवृकाऽऋतज्ञास्ते नोवन्तु पितरो हवेषु ॥
पञ्चमतन्तौ ॐ पितृभ्यो नमः । पितॄन् आवाहयामि ।
विनियोगः
प्रजापतेरित्यस्य हिरण्यगर्भ ऋषिः प्रजापतिर्देवता त्रिष्टुप् छन्दः षष्ठतन्तौ प्रजापत्यावाहने विनियोगः ॥
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव ॥
ॺत्कामास्ते जुहुमस्तन्नोऽअस्तु वयᳩस्याम पतयो रयीणाम् ॥
षष्ठतन्तौ ॐ प्रजापतये नमः । प्रजापतिमावाहयामि ।
विनियोगः
आ नो नियुद्भिरित्यस्य वसिष्ठ ऋषिः अनलो देवता त्रिष्टुप् छन्दः सप्तमतन्तौ अनिलावाहने विनियोगः ।
ॐ आ नो नियुद्भिः शतिनीभिरद्ध्वरᳯसहस्रिणीभिरुपयाहि ॺज्ञम्।
वायोऽअस्मिन्त्सवने मादयस्व ॺूयं पात स्वस्तिभिः सदा नः ॥
सप्तमतन्तौ ॐ अनिलाय नमः । अनिलमावाहयामि ।
विनियोगः
सुगाव इत्यस्यात्रिर्ऋषिः गृहपतयो देवता आर्षी त्रिष्टुप् छन्दः अष्टमतन्तौ यमावाहने विनियोगः ।
ॐ सुगावो देवाः सदनाऽअकर्म ॺऽआजग्मेदᳯसवनञ्जुषाणाः ।
भरमाणा वहमाना हवीᳩष्यस्मे धत्त वसवो वसूनि स्वाहा ॥
अष्टमतन्तौ ॐ यमाय नमः । यममावाहयामि ।
विनियोगः
विश्वेदेवासऽआगत इत्यस्य मधुच्छन्दा ऋषिः विश्वेदेवा देवता त्रिष्टुप् छन्दः नवमतन्तौ विश्वेषां
देवानामावाहने विनियोगः ।
ॐ विश्वेदेवासऽआगत श्रृणुतामऽइमᳯहवम्। एदम्बर्हिर्निषीदत ॥
नवमतन्तौ विश्वेभ्यो देवेभ्यो नमः । ॐ विश्वान् देवान् आवाहयामि ।
ग्रन्थिदेवताऽऽवाहनम्
विनियोगः
ब्रह्मॺज्ञानमित्यस्य प्रजापतिर्ऋषिः ब्रह्मा देवता गायत्री छन्दः ग्रन्थिमध्ये ब्रह्मावाहने विनियोगः ।
ॐ ब्रह्मॺज्ञानम्प्रथमम्पुरस्ताद्विसीमतः सुरुचो व्वेनऽआवः ।
सबुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च ॺोनिमसतश्च विवः ॥
विनियोगः
इदं विष्णुरित्यस्य मेधातिथिर्ऋषिः विष्णुर्देवता गायक्री छन्दः ग्रन्थिमध्ये विष्ण्वावाहने विनियोगः ।
ॐ इदं विष्णुर्विचव्रमे त्रेधा निदधे पदम्। समूढमस्यपाᳩसुरे स्वाहा ॥
विनियोगः
त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता विराट् ब्राह्मी त्रिष्टुप् छन्दः ग्रन्थिमध्ये रुद्रावाहने
विनियोगः ।
ॐ त्र्यम्बकं ॺजामहे सुगन्धिम्पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
यज्ञोपवीतग्रन्थिदेवताभ्यो नमः । ग्रन्थिदेवता आवाहयामि ।
प्रणवाद्यावाहितदेवताभ्यो नमः । यथास्थानमहं न्यसामि ॥
मानसोपचारैः सम्पूज्य ध्यानम्
प्रजापतेर्यत् सहजं पवित्रं कार्पाससूत्रोद्भवब्रह्मसूत्रम्।
ब्रह्मत्वसिद्ध्यै च यशः प्रकाशं जपस्य सिद्धिं कुरु ब्रह्मसूत्रम् ॥
अथ ऋषितर्पणम्
आचम्य प्राणानायम्य देशकालादीन् सङ्कीर्त्य छन्दसां क्वचिदनध्ययनादिकाले पठनादनधिकारिभिः
श्रवणाच्च प्राप्तमालिन्यस्य निरासार्थमुत्सर्गाङ्गतर्पणमहङ्करिष्ये ।
इति सङ्कल्प्य सव्येन प्रागग्रैः दर्भैः
देवतीर्थेन देवतर्पणं देवानामञ्जलित्रयं दद्यात् ।
ॐ विश्वेदेवासऽआगत श्रृणुतामऽइमᳯहवम्। एदम्बर्हिर्निषीदत ॥
ॐ विश्वेदेवाः श्रृणुतेमᳯहवम्मे ॺेऽअन्तरिक्षे ॺऽउपद्यविष्ठ ।
ॺेऽअग्निजिह्वाऽउत वा ॺजत्राऽआसद्यास्मिन् बर्हिषि मादयध्वम् ॥
इति मन्त्रेण देवानावाह्य
ॐ देवास्तृप्यन्ताम्। ॐ छन्दांसि तृप्यन्ताम् । ॐ वेदास्तृप्यन्ताम् ।
ॐ ऋषयस्तृप्यन्ताम् । ॐ पुराणाचार्यास्तृप्यन्ताम्। ॐ गन्धर्वास्तृप्यन्ताम्।
ॐ इतराचार्यास्तृप्यन्ताम्। ॐ संवत्सराः सावयवास्तृप्यन्ताम्।
वंशानां ब्रुवणम्
ततो द्विराचमनं प्राणायामं कृत्वा पश्चात् वंशानां ब्रुवणम् ।
अथ वᳯशः समानमासाञ्जीवीपुत्रान्मासाञ्जीवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः
कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद्वामकक्षायणो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः
कुश्रेः कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात् कावषेयात्तुरः कावषेयः प्रजापतेः
प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भुब्रह्मणे नमः ॥ वंशोक्ता ऋषयस्तृप्यन्ताम् ॥ १ ॥
अथ वᳯशस्तदिदं वयᳯशौपर्णाय्याच्छौपर्णाय्यो गौतमाद्गौतमो वात्स्याद्वात्स्यो वात्स्याच्च पाराशर्याच्च
पाराशर्यः साङ्कृत्याच्च भारद्वाजाच्च भारद्वाज औदवाहेश्च शाण्डिल्याच्च शाण्डिल्योवैजवापाच्च
गौतमाच्च गौतमो वैजपायनाच्च वैष्टपुरेयाच्च वैष्टपुरेयः शाण्डिल्याच्च रौहिणायनाच्च रौहिणायनः
शौनकाच्चात्रेयाच्च रैभ्याच्च रैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च कौण्डिन्यायनः कौण्डिन्यात्कौण्डिन्यः
कौण्डिन्यात्कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च ॥ १ ॥
अग्निवेश्यः सैतवात् सैतवः पाराशर्य्ॺात् पाराशर्य्ॺो जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो
भारद्वाजाच्चासुरायणाच्च गौतमाच्च गौतमो भारद्वाजाद् भारद्वाजो वैजवापायनाद्वैजवापायनः कौशिकायनेः
कौशिकायनिर्घृतकौशिकाद् घृतकौशिकः पाराशर्य्ॺायणात्पाराशर्य्ॺायणः पाराशर्य्ॺात् पाराशर्य्ॺो–
जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च यास्काच्चा–
सुरायणस्त्रैवणेस्त्रैवणिरौपजङ्घनेरौपजङ्घनिरासुरेरासुरिर्भारद्वाजाद् भारद्वाजऽआत्रेयात् ॥ २ ॥
आत्रेयो माण्टेर्माण्टिर्गौतमाद्गौतमो गौतमाद् गौतमो वात्स्यात् वात्स्यः शाण्डिल्याच्छाण्डिल्यः
कैशोर्य्ॺात्काप्यात्कैशोर्य्ॺः काप्यः कुमारहारितात् कुमारहारितो गालवाद्गालवो विदर्भीकौण्डिन्या–
द्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य
आङ्गिरस आभूतेस्त्वाष्ट्राद् आभूतिस्त्वाष्ट्रो विश्वरूपाझ्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ
दधीचआथर्वणाद्दध्यङ्ङाथर्वणो दैवादथर्वाद्दैवो मृत्योः प्राध्वᳯसनाद् मृत्युः प्राध्वᳯसनः प्राध्वᳯसनात्ऽ
प्राध्वᳯसनः एकर्षेरेकर्षिर्विप्रचितेर्विप्रचितिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात् सनातनः सनगात्
सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भुब्रह्मणे नमः ॥ ३ ॥ वंशोक्ता ऋषयस्तृप्यन्ताम् ॥
अथ वᳯशस्तदिदं वयᳯशौपर्णाय्याच्छौपर्णाय्यो गौतमाद्गौतमो वात्स्याद्वात्स्यो वात्स्याच्च पाराशर्याच्च
पाराशर्य साङ्कृत्याच्च भारद्वाजाच्च भारद्वाजऔदवाहेश्च शाण्डिल्याच्च शाण्डिल्यो वैजवापाच्च गौतमाच्च
गौतमो वैजवापायनाच्च वैष्टपुरेयाच्च वैष्टपुरेयः शाण्डिल्याच्च रोैहिणायनाच्च रौहिणायनः शौनकायनाच्च
जैवन्तायनाच्च रैभ्याच्च रैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च कौण्डिन्यायनः कौण्डिन्याभ्यां
कौण्डिन्यऽऔर्णवाभेभ्यऽऔर्णवाभाः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च ॥ ४ ॥
आग्निवेश्यः सैतवात्सैतवः पाराशर्य्ॺात् पाराशर्य्ॺो जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो
भारद्वाजाच्चासुरायणाच्च गौतमाच्च गौतमो भारद्वाजाद्भारद्वाजो बलाकाकौशिकाद्बलाकाकौशिकः काषायणात्
काषायणः सौकरायणात्सौकरायणस्त्रेवणेस्त्रैवणिरौपजङ्घनेरौपजङ्घनिः सायकायनात्सायकायनः कौशिकायनेः
कौशिकायनिर्घृतकौशिकाद्घृतकौशिकः पाराशर्ॺायणात्पाराशर्य्ॺायणः पाराशर्ॺात्पाराशर्य्ॺो जातूकर्ण्याज्जातूकर्ण्यो
भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजङ्घनेरौपजङ्घनि–
रासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयात् ॥ ५ ॥
आत्रेयोमाण्टेर्माण्टिर्गौतमाद्गौतमोगौतमाद्गौतमो वात्स्याद्वात्स्यः शण्डिल्याच्छाण्डिल्यः कैशोर्ॺात्काप्यात्–
कैशोर्ॺः काप्यः कुमारहारितात् कुमारहारितोगालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्य
वत्सनपातोबाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्यऽआङ्गिरसऽ
आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोश्विभ्यामश्विनौदधीच आथर्वणा–
द्दध्यङ्ङाथर्वणो दैवादथर्वाद्दैवो मृत्योः प्रध्वᳯसनात् मृत्युः प्रध्वᳯसनः प्रध्वᳯसनात्
प्रध्वᳯसनऽएकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः
परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भुब्रह्मणे नमः ॥ ६ ॥ वंशोक्ता ऋषयस्तृप्यन्ताम् ॥
अथ वᳯशस्तदिदं वयं भारद्वाजीपुत्राद्भारद्वाजीपुत्रो वात्सीमाण्डवीपुत्राद् वात्सीमाण्डवीपुत्रः
पाराशरीपुत्रात्पाराशरीपुत्रो गार्गी पुत्राद्गार्गीपुत्रः पाराशरीकौण्डिनीपुत्रात्पाराशरीकौण्डिनीपुत्रो गार्गीपुत्राद्
गार्गीपुत्रो गार्गीपुत्राद् गार्गीपुत्रो बाडेयीपुत्राद्बाडेयीपुत्रो मौषिकीपुत्रान्मौषिकीपुत्रो हारिकर्णीपुत्राद्धारिकर्णीपुत्रो
भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पैङ्गीपुत्रात्पैङ्गीपुत्रः शौनकी पुत्राच्छौनकीपुत्रः ॥१ ॥
काश्यपीबालाक्यामाठरीपुत्रात्काश्यपीबालाक्यामाठरीपुत्रः
कौत्सीपुत्रात्कौसीपुत्रो बौधीपुत्राद्बौधीपुत्रः शालङ्कायनीपुत्राच्छालङ्कायनीपुत्रो
वार्षगणीपुत्राद्वार्षगणीपुत्रो गौतमीपुत्राद्गौतमीपुत्रऽआत्रेयीपुत्रादात्रेयीपुत्रो
गौतमीपुत्राद्गौतमीपुत्रो वात्सीपुत्राद्वात्सीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो
वार्क्कारुणीपुत्राद्वार्क्कारुणीपुत्रऽआर्त्त–भागीपुत्रादार्त्तभागीपुत्रः शौंगीपुत्राच्छौंगीपुत्रः साङ्कृतीपुत्राच्छाङ्–
कृतीपुत्रः आलम्बीपुत्रादालम्बीपुत्रऽआलम्बायनीपुत्रादालम्बायनीपुत्रो जायन्तीपुत्राज्जायन्तीपुत्रो
माण्डूकायनीपुत्रान्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकीपुत्रः
शाण्डीलीपुत्राच्छाण्डीलीपुत्रो राथीतरीपुत्राद्राथीतरीपुक्रः व्रौञ्चिकीपुत्राझ्यां व्रौञ्चिकीपुत्रो
वैदभृतीपुत्राद्वैदभृतीपुत्रो भालुकीपुत्राद्भालुकीपुत्रः प्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः
साञ्जीवीपुत्रात्साञ्जीवीपुत्रः कार्शकेयीपुत्रात्कार्शकेयीपुत्रः ॥ २ ॥
प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्रऽआसुरायणादासुरायणऽआसुरे–
रासुरिर्याज्ञवल्क्याद्याज्ञवल्क्यऽउद्दालकादुद्दालकोऽरुणादरुणऽउपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो
वाजश्रवाजिह्वावतो बाध्योगाज्जिह्वावान् बाध्योगोसिताद्वार्षगणादसितोवार्षगणो
हरितात्कश्यपात् हरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः कश्यपः कश्यपान्नैर्ध्रुवेः
कश्यपोनैर्ध्रुविर्वाचोवागम्भिण्याऽअम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूᳯषि
वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ॥ ३ ॥ वंशोक्ता ऋषयस्तृप्यन्ताम् ॥
इमावेव गौतमभरद्वाजावयमेव गौतमोऽयं भरद्वाजऽइमावेव इमावेव विश्वामित्रजमदग्नी
अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिवाचा
ह्यन्नमद्यतेत्तिर्हवैनामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवति यऽएवं वेद ॥ ४ ॥
ब्राह्मणोक्ता ऋषयस्तृप्यन्ताम् ॥
“सावित्रीं चतुरनुद्रुत्य विरताः स्म इति प्रब्रूयुः” चतुर्वारं गायत्रीं जपेयुः ।
ततः सावित्र्याश्चतुः कृत्वाऽनुब्रुवणम्। तदन्ते सर्वेषां ‘ॐ विरताः स्म’ इति सकृदुञ्चैर्ब्रुयुः ।
ॐ चतुर्दशकाण्डेषु अध्यायोक्ता ऋषयस्तृप्यन्ताम्।
ॐ चतुर्दशकाण्डेषु शतोक्ता ऋषयस्तृप्यन्ताम्।
ॐ चतुर्दशकाण्डेषु प्रपाठोक्ता ऋषयस्तृप्यन्ताम्।
ॐ चतुर्दशकाण्डेषु अन्त्यकण्डिको ऋषयस्तृप्यन्ताम्।
ॐ चतुर्दशकाण्डेषु अन्त्यफक्किकोक्ता ऋषयस्तृप्यन्ताम्।
ॐ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। ॺोसावादित्ये पुरुषः सोसावहम् ॥
ॐ३म् खम्ब्रह्म । अध्यायोक्ता ऋषयस्तृप्यन्ताम्।
प्रार्थना
तदेतदृचाभ्युक्तं न मृषा श्रान्तं यदवन्ति देवा इति नहैवैवं विदुषः किञ्चन न मृषा श्रान्तं भवति तथोहास्यै तत्सर्वं देवाऽअवन्ति ॥ १ ॥
स्व–स्वप्रवराणां विसर्जनम्
ॐ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वे महे।
उपप्रयन्तु मरुतः सुदानवऽइन्द्रप्राशूर्भवा सचा ॥
जले प्रास्यन्
समुद्रङ्गच्छ स्वाहान्तरिक्षं गच्छस्वाहा देवᳯसवितारं गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहाऽहोरात्रे
गच्छ स्वाहा छन्दाᳩसि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा ॺज्ञङ्गच्छ स्वाहा सोमङ्गच्छ
स्वाहा दिव्यन्नभो गच्छ स्वाहाग्निं वैश्वानरङ्गच्छ स्वाहा मनो मेहार्दियच्छ दिवन्ते धूमो गच्छतु
स्वर्ज्योतिः पृथिवीं भस्मना पृण स्वाहा ॥१ ॥
द्विराचम्य समस्तकर्मार्पणम् । जलमादाय– अनेन कृतेन अध्यायोत्सर्गकर्माङ्गत्वेन ऋषिपूजनतर्पणादिकर्मणा
श्रीभगवान् परमेश्वरः प्रीयताम् न मम । ॐ तत्सत् श्रीब्रह्मार्पणमस्तु। इति ।
कृताकृतम् ऋषिश्राद्धम्
तद्यथा आचम्य प्राणानायम्य देशकालादीन् सङ्कीर्त्य अद्य उत्सर्गाख्यं सफ्तर्षिश्राद्धमहं करिष्ये।
ॐ इदं विष्णुर्विचव्रमे त्रेधा निदधे पदम्। समूढमस्यपाᳩसुरे ॥ इति मन्त्रेण दिग्बन्धः ।
ऋषिश्राद्धस्योपहाराः शुचयो भवन्तु। इत्युपहारप्रोक्षणम्। देशकालपात्रसम्पदस्तु।
अरुन्धतीसहितकश्यपादिसप्तर्षीणामिदमासनं यथायथाविभागं वः स्वाहा। अरुन्धतीसहितकश्यपादिसप्तऋषयः
यथादत्तं गन्धाद्यर्चनं यथायथाविभागं वः स्वाहा ॥ इति ॥ ऋषिश्राद्धसाङ्गतासिद्ध्यर्थं सप्तसङ्ख्याकान्
ब्राह्मणान् यथाकालं यथोपपन्नेन सन्तोषयिष्ये । तेन अरुन्धतीसहितकश्यपादिसप्तर्षयः प्रीयन्ताम् ।
सफ्तर्षिश्राद्धसाङ्गतासिद्ध्यर्थं हिरण्यनिष्व्रयभूतां दक्षिणाम् आचार्याय तुभ्यमहं सम्प्रददे।
आचार्यः—
ॐ कोऽदात् कस्माऽअदात् कामोऽदात् कामायादात्। कामो दाता कामः प्रतिग्रहीता कामैतत्ते ॥
इति पठेत्।
उपविष्टेषु ब्राह्मणेषूदकादिदानम् । तद्यथा—
ॐ शिवा आपः सन्तु। सौमनस्यमस्तु। अक्षतञ्चारिष्टमस्तु।
अघोरा ऋषयः सन्तु। सन्तु। इति प्रतिवचनम्।
पश्चात्– कुशजलदक्षिणाद्रव्यमादाय पूर्वोक्तसङ्कल्पसिद्धिरस्तु उत्सर्गकर्मणो न्यूनातिरिक्तदोषपरिहारार्थं
नानानामगोत्रेभ्यो नानानामशर्मभ्यो ब्राह्मणेभ्यो भूयसीं दक्षिणां सम्प्रददे।
प्रार्थना
उत्सर्गाङ्गभूतं ऋषिश्राद्धं परिपूर्णमस्तु।
अस्तु परिपूर्णमिति सर्वे आचार्यादयः प्रतिवचनम्।
सहनोऽस्तु । सहनोऽवतु । सहनऽइदं वीर्यवदस्तु । इन्द्रस्तद्वेद येन यथा न विद्विषामहे । इति ॥
ॐ उभा कवी ॺुवा ॺोनो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि विसृजामहे ॥
इति च सर्वे जपेयुः । विरताः स्म इति प्रब्रूयुः । इति ऋषिश्राद्धम् ।
स्वपितृभ्यो यज्ञोपवीतदानम्
प्राचीनावीती (अपसव्यम्) दक्षिणमुखाः सर्वे सपितृका अपितृकाः कुशोदकं गृहीत्वा पुरतो यज्ञोपवीतानि
निधाय अद्यामुकगोत्रेभ्यः पितृपितामहप्रपितामहेभ्यः ।
द्वितीयम्– अद्यामुकगोत्रेभ्यः मातामह–प्रमातामह–वृद्धप्रमातामहेभ्यः ।
तृतीयम्– कव्यवाडनलादिदिव्यपितृभ्यः इमानि यज्ञोपवीतानि स्वधा सम्पद्यताम् । इति ऋष्युपरि
समर्पयेयुः । सव्यं कृत्वा आचम्य ब्राह्मणं गन्धादिना सम्पूज्य यज्ञोपवीतानि दत्वा पश्चात् स्वयमपि विधिवद् धारयेत्।
यज्ञोपवीतधारणविधिः
नवीनयज्ञोपवीतधारणम्
यज्ञोपवीतं गृहीत्वा सज्जीकृत्य
विनियोगः
ॐ यज्ञोपवीतमितिमन्त्रस्य परमेष्ठी ऋषिः लिङ्गोक्ता देवता त्रिष्टुप् छन्दः यज्ञोपवीतधारणे विनियोगः ।
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्य्रम्प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।
इति पठन् पृथक्पृथक् धारणं कुर्यात्।
तद्धारणेराद्यन्तयोराचमनम्।
जीर्णयज्ञोपवीतत्यागः
जीर्णयज्ञोपवीतत्यागमन्त्रः
ॐ एतावद्दिनपर्यन्तं ब्रह्म त्वं धारितं मया ।
जीर्णत्वाझ्वत्परित्यागो गच्छ सूत्र यथासुखम् ॥
इति मन्त्रेण जीर्णसूत्रं शिरोमार्गेण निःसार्य शुद्धस्थाने त्यजेत्।
पश्चाद् यथाशक्ति गायत्रीजपं कुर्यात्।
अर्पणम्—
अनेन नवयज्ञोपवीतधारणार्थे कृतेन यथाशक्तिगायत्रीजपकर्मणा श्रीभास्करदेवता प्रीयतां न मम ॥
। इति ॥
अथ रक्षाबन्धनम्
येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन त्वां प्रतिबध्नामि रक्षे मा चल मा चल ॥
अन्यद्दिने यज्ञोपवीतधारणप्रयोगः
यज्ञोपवीतान्युदकेन प्रक्षाल्यानन्तरम् आचम्य सङ्कल्पं कुर्यात् ।
अद्य मम श्रौतस्मार्तकर्मानुष्ठानसिद्ध्यर्थं तथा च अमुककर्माङ्गत्वेन नवीनयज्ञोपवीतधारणमहं करिष्ये।
इति सङ्कल्प्य यज्ञोपवीतानि करसम्पुटे दशवारं गायत्रीमन्त्रेणाभिमन्त्रयेत्। तदनन्तरम्
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्य्रम्प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ॥
इति मन्त्रं पठित्वा पृथक् पृथक् यज्ञोपवीतानि दक्षिणहस्तद्वारा धार्याणि ।
प्रतियज्ञोपवीतधारणान्ते आचम्य
पश्चात् यथाशक्ति गायत्रीर्जपेत्।
ततो जीर्णयज्ञोपवीतत्यागः कार्यः ।
अर्पणम्–
अनेन नवयज्ञोपवीतधारणार्थे कृतेन यथाशक्तिजपाख्येन कर्मणा श्रीसविता देवताः प्रीयतां न
मम ॥
॥ इति अन्यद्दिने यज्ञोपवीतधारणविधिः ॥
